________________
५१६
प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५
जातो यत्र तत्पर्यवजातं कूरादिकमुद्धरितं दध्यादिना विमिश्रितं करम्बादिकं पर्यायान्तरमापादितमित्यर्थः अयमप्यौद्देशिकभेदः कृताभिधानं उक्तः, प्रकीर्ण - विक्षिप्तं विच्छर्दितं परिशाटीत्यर्थः, अनेन च छर्द्दिताभिधान एषणादोष उक्तः,
'पाउकरण' त्ति प्रादुः क्रियते-अन्धकारापवरकादेः साध्वर्थं बहिः करणेन दीपमण्यादिधरणेन वा प्रकाश्यते यत्तत् प्रादुष्करणमशनादि, आह च - "नीयदुवारंधारे गवक्खकरणाइ पाउओ पाउ । करणं तु"
'पामच्चं ' ति अपमित्यकं उद्यतकं - उच्छिन्नमित्यर्थः आहच - "पामिचं जं साहूणट्ठा ओछिंदिउं दियावेति "त्ति
- एषां च समाहारद्वन्द्वः, 'मीसक' त्ति मिश्रजातं साध्वर्थं गृहस्यार्थं चादित उपस्कृतं, आह च- 'पढमं चिय गिहिसंजयमीसोवक्खडाइ मीसं तु" "कीयगड' त्ति क्रीतेन-क्रयेण कृतं - साधुदानाय कृतं क्रीतकृतं, आह च- 'दव्वाइएहिं साहूणट्टाए कीयं तु' 'पाहुडं व 'त्ति प्राभृतं प्राभृतिकेत्यर्थः,
तल्लक्षणं चेदम्- "सुहुमेयरमुस्सक्कणमवसक्कणमोय पाहुडिया” ततः पदत्रयस्य कर्मधारयः समाहारद्वन्द्वः, वाशब्दः पूर्ववाक्यापेक्षया विकल्पार्थः, दानामर्थो यस्य तद्दानार्थं, पुण्यार्थ प्रकृतंसाधितं पुण्यप्रकृतं पदद्वयस्य द्वन्द्वः, तथा श्रमणाः पञ्चविधाः 'निग्गंथसक्कतावस गेरुय आजीव पंचहा समणा' वनीपकाश्च - तर्कुकास्त एवार्थः - प्रयोजनं यस्य तत्तथा तद्मद्भावस्तत्ता तया, वा विकल्पार्थः कृतं - निष्पादितं, इह कश्चिद्दाता दानमेवालंबते दातव्यं मयेति अन्यस्त पुण्यं पुण्यं मम भूयादित्येवं अन्यस्तु श्रमणान् अन्यस्तु वनीपकानिति चत्वारोऽप्यौद्देशिकस्य भेदा एते उक्ता इति, "पच्छाकम्म" ति पश्चात् - दानानन्तरं कर्म्म-भाजनधावनादि यत्राशनादौ तत्पश्चात्कर्म 'पुरेकम्मं 'ति पुरो - दानात् पूर्वं कर्म्म - हस्तधावनादि यत्र तत्पुरः कर्म 'निइयं 'ति नैत्यिकं सराव्दिकमवस्थितं मनुष्यपोषादिप्रमाणं 'मक्खियं'ति उदकादिना संसृष्टं, यदाह "मक्खियमुदकाइणा उ जं जुत्तं" अयमेषणादोष उक्तंः, 'अतिरित्तं'ति,
॥१॥
“बत्तीसं किर कवला आहारो कुच्छिपूरओ भणितो ।
परिसरस महिलियाए अट्ठावीसं भवे कवला ||”
एतत्प्रमाणातिक्रान्तमतिरिक्तं, अयं च मण्डलीदोष उक्तः, 'मोहरं चेव' त्ति मौखर्येण पूर्वसंस्तवपश्चात्संस्तवादिना बहुभाषित्वेन यल्लभ्यते तन्मौखरं अयमुत्पादनादोष उक्तः, 'सयग्गह 'त्ति स्वयं आत्मना दत्तं गृह्यते यत्तत्स्वयंग्राहं, अयमपरिणताभिधान एषणादोष उक्तः, दायकस्य दानेऽपरिणतत्त्वादिति, 'आहडं' ति स्वग्रामादेः साध्वर्थमाहृतं - आनीतं, आहच - " सग्गामपरग्गामा जमाणियं आहडं तु तं होइ ।”
'मट्टिओलित्तं 'ति, उपलक्षणत्वान्मृत्तिकाग्रहणस्य मृत्तिकाजतुगोमयादिना उपलिप्तं सत् यदुद्भिदय ददाति तन्मृत्तिकोपलिप्तं उद्भिन्नमित्यर्थः, आह च - "छगणाइणीवलितं उब्भिंदिय जं तमुब्भिण्णं" 'अच्छेण्णं चेव'त्ति आच्छेद्यं यदाच्छिद्य भृत्यादिभ्यः स्वामी ददाति, आह च“अच्छेज्जं अच्छिंदिय जं सामिय भिचमाईणं" अनिसृष्टं - बहुसाधारणं सत् यदेक एव ददाति “अनिसिट्टं सामण्णं गोट्ठियभत्ताइ ददउ एगस्स” एतेषूद्दिष्टादिषु प्राय उद्गमदोषा उक्ताः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org