Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३
च-प्रक्रमाद्विकृतं नाट्यंच-नृत्तं च गीतंच-गानं वादितंच-पटहादिवादनं नटाश्च नाटयितारो नर्तकाश्च-येनृत्यन्तिजल्लाश्च-वरत्राखेलकाःमल्लाश्च-प्रतीताः एतेषांप्रेक्षणंच नानाविधवंशखेलकादिसम्बन्धि वेलम्बकाश्च-विडम्का विदूषका इति द्वन्द्वः छान्दसत्त्वाच्च प्रथमाबहुवचनलोपो ६श्यः, वर्जयितव्या इति योगः, किंबहुना?,
यानि च वस्तूनि श्रृङ्गारागाराणि--श्रृङ्गारसगेहानीव अन्यानि च-उक्तव्यतिरिक्तानि एवमादिकानि-एवंप्रकाराणि तपःसंयमब्रह्मचर्याणां धातश्चदेशत उपघातश्च सर्वतो विद्यते येषु तानि तपःसंयमब्रह्मचर्यघातोपघातिकानि, किमत आह-अनुचरता-आसेवमानेन ब्रह्मचर्य वर्जयितव्यानि सर्वकालमन्यथा ब्रह्मचर्यव्याघातो भवतीति, तथा भावियतव्यश्च भवत्यन्तरात्मा एभिर्वक्ष्यमाणैः तपोनियमशीलयोगैः-तपःप्रभृतिव्यापारैः नित्यकालं-सर्वदा, 'किं ते तद्यथा अस्नानकं चादन्तधावनं च प्रतीते 'स्वेदमलधारणं च' तत्र स्वेदः-प्रस्वेजः मलः-कक्खडीभूतः याति च लगतिचेति जल्लो-मलविशेष एव मौनव्रतं च केशलोचश्च प्रतीतौ क्षमा च-क्रोधनिग्रहः दमश्च-इन्द्रियनिग्रहः अचेलकंच-वस्त्राभावःक्षुत्पिपासे प्रतीते लाघवंच-अल्पोपधित्वं शीतोष्णे च प्रतीते काष्ठशय्या च-फलकादिशयनं भूमिनिषद्या च-भूम्यासनं तथा परगृहप्रवेशे च शय्याभिक्षाद्यर्थलब्धेच-अभिमताशनादौअपलब्धेवा-ईषल्लब्धेऽलब्धेवायोमानश्च-अभिमानः अपमानश्च-दैन्यं निन्दन-कुत्सनं दंशमशकस्पर्शश्च नियमश्च-द्रव्याद्यभिग्रहः
तपश्च-अनशनादि गुणाश्च-मूलगुणादयः विनयश्च-अभ्युत्थानादिरिति द्वन्द्वस्तत एते आदिर्येषां योगानां ते तथा तैर्भावयितव्योऽन्तरात्मेति प्रकृतं, भावना-अस्नानादीनामासेवा मानापमानिन्दनदंशादिस्पर्शानां चोपेक्षा, कथमभिर्भावयितव्यो भवन्त्यन्तरात्मेत्याह-यथा 'से' तस्य ब्रह्मचारिणः स्थिरतरं भवति ब्रह्मचर्य,
'इमंचे'त्यादि प्रवचनस्तवनं पूर्ववत् तस्से'त्यादि तस्य चतुर्थस्य व्रतस्येमाः पञ्च भावना भवन्ति अब्रह्मचर्यविरमणपरिरक्षणार्थतायै तत्र
'पढमंतिपञ्चानांप्रथमंभावनावस्तुस्त्रीसंसक्ताश्रयवर्जनलक्षणं, तच्चैवं-शयनं-शय्या आसनं-विष्टरंगृहद्वारं-तस्यैव मुखंअङ्गणं-अजिरंआकाशं-अनावृतस्थानं गवाक्षो वातायन: शाला-भाण्डशालादिका अभिलोक्यते यत्रस्यैस्तदभिलोकनं-उन्नतस्थानं पच्छवत्थुग'त्ति पञ्चाद्वास्तुकं-पश्चादगृहकं तथा प्रसाधकस्य-मण्डनस्य स्नातिकायाश्च-स्नानक्रियाया येऽवकाशा-आश्रयास्ते तथा ते चेति द्वन्द्व, ततः एते स्त्रीसंसक्तेन सङ्किलष्टा वर्जनीया इति सम्बन्धः, तथा अवकाशा आश्रया 'जे य वेसियाणं ति ये च वेश्यानां तथा आसते च-तिष्ठन्ति च यत्रयेष्ववकाशेषुच स्त्रियः, किम्भूताः?-अभीक्ष्णं अनवरतंमोहदोषस्य-अज्ञानस्य रते:-कामरागस्थ रागस्य च-स्नेहरागस्य वर्धना-वृद्धिकारिका यास्तास्तथा कथयन्ति च-प्रतिपादयन्ति तथा बहुविधाः-बहुप्रकाराः जातिकुलरूपनेपथ्यविषयाः स्त्रीसम्बन्धिनीः पुरुषाः स्त्रियो वा यत्रेति प्रकृतं, मोहदोषेत्यादि विशेषणं कथास्वपियुज्यते, तेहुवजणिज्जत्तिये शयनादयोयेचवेश्यानामवकाशा येषु चासते स्त्रिः कथयन्ति च कथास्ते वर्जनीयाः, हुर्वाक्यालङ्कारे, किंविधा इत्याह
'इत्थिसंसत्तसंकिलिट्ठत्ति स्त्रीसंसक्तेन-स्त्रीसम्बन्धेन सङ्किलष्टा ये ते तथा, न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192