Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 146
________________ द्वारं - २, अध्ययनं ४, ४९९ केवलमुक्तरूपा वर्जनीयाः अन्ये चैवमादयः अवकाशा-आश्रया वर्जनीया इति, किं बहुना ? - ' जत्थे' त्यादि उत्तरत्र वीप्साप्रयोगादिह वीप्सा श्या ततो यत्र यत्र जायते मनोविभ्रमो वा - चित्तभ्रान्तिः ब्रह्मचर्यमनुपालयामि नवेत्येवंरूपं श्रृङ्गाररसप्रभवं मनसोऽस्थिरत्वं, आह च - " यत् चित्तवृत्तेरनवस्थित्वं, श्रृङ्गारजं विभ्रम उच्यतेऽसौ ।” भङ्गो वा ब्रह्मव्रतस्या सर्वभङ्गं इत्यर्थः, श्रंशना वा - देशतो भङ्गः आर्त्त-- इष्टविषयसंयोगाभिलाषरूपं रौद्रं वा भवेद् ध्यानं तदुपायभूतहिंसानृतादत्तग्रहणानुबन्धरूपं तत्तदनायतमिति योगः वर्जयेत्, कोऽसावित्याह-अवद्यभीरुः - पापभीरुः वज्यभीरुर्वा वज्यत इति, किंभूतोऽवद्यभीरुः अन्ते - इन्द्रियाननुकूले प्रान्ते तत्रैव प्रकृष्टतरे आश्रये वस्तुं शीलमस्त्येतन्ताप्रान्तवासी, निगमयन्नाह एवं - अनन्तरोक्तन्यायेन असंसक्तः - स्त्रीभिरसम्बद्धो वासो - निवासो यस्याः सा तथाविधा या वसतिः- आश्रयस्तद्विषयो यः समितियोगः - सत्प्रवृत्तिसम्बन्धः स तथा तेन भावितो भवन्त्यन्तरात्मा, किंविधः - आरतं - अभिविधिना आसक्तं ब्रह्मचर्ये मनो यस्य स आरतमनाः विरतो - निवृत्तो ग्रामस्य - इन्द्रियवर्गस्य धर्मो-लोलुपतया तद्विषयग्रहण स्वभावो यस्य स तथा ततः पदद्वयस्य कर्मधारयः, अत एवाए जितेन्द्रियः ब्रह्मचर्यगुप्त इति १ ॥ 'बीइयं 'ति द्वितीयं भावनावस्तु, किं तदित्याह - नारीजनस्य मध्ये - स्त्रीपर्षदोऽन्तः 'न'नैव कथयितव्या, केत्याह - कथावचनप्रबन्धरूपा विचित्रा - विविधा विविक्ता वा - ज्ञानोपष्टम्भादिकारण वर्जा की शीत्याह-'विब्बोकविलाससम्प्रयुक्ता' तत्र विब्बोकलक्षणं इदं“इष्टानामर्थानां प्राप्तवभिमानगर्वसम्भूतः । स्त्रीणामनादरकृतो विब्बोको नाम विज्ञेयः ॥" - 119 11 11911 -विलासलक्षणं पुनरिदं“स्थानासनगमनानां हस्तभ्रूनेत्रकर्म्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ।।” अन्ये त्वाहु: - "विलासो नेत्रजो ज्ञेयः " इति, तथा हासः - प्रहसनिकाभिधानो रसविशेषः श्रृङ्गारोऽपि रसविशेष एव तयोश्च स्वरूपमिदं || 9 || 119 11 "हास्यो हासप्रकृतिर्हासो विकृताङ्गवेषचेष्टाभ्यः । भवति परस्थाभ्यः स च भूम्ना स्त्रीनीचबालगतः ॥” (तथा) "व्यवहारः पुंनार्योरन्योऽन्यं रक्तयो रतिप्रकृतिः । शृङ्गारः स द्वेधा सम्भोगो विप्रलम्भश्च ॥” एतप्रधाना या लौकिकी असंविग्नलोकसम्भन्धिनी कथा - चचनरचना सा तथा सा वा मोहजननी - मोहोदीरिका वाशब्दो विकल्पार्थः, तथा न-नैव आवाहः - अभिनवपरिणीतस्य वधूवरस्यानयनं विवाहश्च - पाणिग्रहणं तप्रधानां या वरकथा परणेतृकथा आवाहविवाहवरा वा या कथा सा तथा, साऽपि न कथयितव्येति प्रक्रमः, स्त्रीणां वा सुभगदुर्भगकथा सा, साच सुभगादुर्भगा वा ईशी वा सुभगा दुर्भगा वा भवतीत्येवंरूपा न कथयितव्येति प्रक्रमः, चतुःषष्टिश्च महिलागुणाः आलिङ्गनादीनामष्टानां कामकर्म्मणा प्रत्येकमष्टभेदत्वेन चतुःषष्टिर्महिलागुणा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192