Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 149
________________ प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३ अनुकूलप्रेममिकास्ताभिः 'सद्धि' ति सार्द्ध - सह अनुभूता - वेदिता शयनानि च - स्वापाः सम्प्रयोगाश्च - सम्पर्काः शयनसम्प्रयोगाः, कथम्भूताः ? - ऋतुसुखानि ऋतुशुभानि वा कालोचितानीत्यर्थः यानि वरकुसुमानि च सुरभिचन्दनं च सुगन्धयो- वरचूर्णरूपा वासश्च धूपश्च शुभस्परअशानि सुखस्पर्शानि वा वस्त्राणि च भूषणानि चेति द्वन्द्वस्तेषां यो गुणस्तैरुपपेता-युक्तास्ते तथा, तथा रमणीयातोद्यगेयप्रचुरनटादिप्रकरणानि च न लभ्यानि द्रुष्टुमिति योगः, तत्र नटाःनाटकानां नाटयितारः नर्त्तका - ये नृत्यन्ति जल्ला - वरत्राखेलकः मल्लाः- प्रतीताः मौष्टिका - मल्ला एव ये मुष्टिभिः प्रहरन्ति 'वेलम्बग' त्ति विडम्बका:- विदूषकाः प्रतीताः प्लवका - ये उत्प्लवन्ते नद्यादिकं वा तरन्ति लासका-ये रासकान् गायन्ति जयशब्दप्रयोक्तारो भाण्डा वा इत्यर्थः आख्यायका - शुभाशुभमाख्यान्ति लंखा - महावंशाग्रखेलकाः मंखाश्च-चित्रफलकहस्ता भिक्षाकाः 'तूणइल्ला' तूणाभिधानवाद्यविशेषवन्तः 'तुंबवीणिका' वीणावादकाः तालाचराःप्रेक्षाकारिविशेषाः एतेषां द्वन्द्वः तत एतेषां यानि प्रकरणानि - प्रक्रियास्तानि च तथा, बहूनि - अनेकविधानि 'महुरस्सरगीयसुस्सराई तिमधुरस्वाराणां - कलध्वनीनां गायकानां यानि गीतानिगेयानि सुखराणि - शोभनषड्जादिस्वरविशेषाणि तानि तथा, किं बहुना ? - अन्यानि चउक्तव्यतिरिक्तानि एवमादिकानि - एवंप्रकाराणि तपः संयमब्रह्मचर्यघातोपघातिकानि अनुचरता ब्रह्मचर्यं ननव तानि यानि कामोत्कोचकारीणि श्रमणेन संयतेन ब्रह्मचारिणेति भावः 'लब्भ'त्ति लभ्यानि उचितानि द्रष्टुं --प्रेक्षितुं न कथयितुं नापि च स्मर्त्तु जे इति निपातः, निगमयन्नाह - एवं पूर्वरतपूर्वक्रीडितविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविर - तग्रामधर्म्मा जितेन्द्रियो ब्रह्मचर्यगुप्त इति ४ । ५०२ 'पंचमगं'ति पञ्चमं भावनावस्तु प्रणीतभोजनवर्जनं, एतदेवाह - आहारः - अशनादिः स एव प्रणीतो - गलत्स्नेहबिन्दुः स च स्निग्धभोजनं चेति द्वन्द्वः तस्य विवर्जको यः स तथा, संयतःसंयमवान् सुसाधुः-निर्वाणसाधकयोगसाधनपरः व्यपगता - अपगता क्षीरदधिसर्पिर्नवनीततैलगुडखण्डमत्स्यण्डिका यतः सतथा, मत्स्यण्डिका चेह खण्डशर्करा, मधुमद्यमांसखाद्यकलक्षणाभिर्विकृतिभिः परित्यक्तो यः स तथा, ततः पदद्वयस्य कर्मधारयः, स एवंविधः कृतो भुक्त आहारो येन स तथा, किमित्याह - न-नैव दर्पणं-दपकारकमाहारं भुंजीतेति शेषः, तथा न बहुशो दिनमध्ये न बहुकृत्व इत्यर्थः, 'न निइगं' ति न नैत्यिकं प्रतिदिनमितियावत् न शाकसूपाधिक-शालनकदालप्रचुरमित्यर्थः 'न खद्धं' नप्रभूतं यत आह ॥ १ ॥ "जहा दवग्गी पउरिंघणे वणे, समारुओ नो वसमं उवेति । एवेंदियग्गीवि पकामभोइणो, न बंभयारिस्स हियाय कस्सइ ||" त्ति किंबहुना ?, तथा - तेन प्रकारेण हितमिताहारित्वादिना भोक्तव्यं यथा 'से' तस्य ब्रह्मचारिणो यात्रा - संयमयात्रा सैव यात्रामात्रं तस्मै यात्रामात्राय भवति, आह च ॥१॥ “जह अब्भंगण १ लेवो २ सगडक्खवणाण जत्तिओ होइ । इय संजमभरवहणट्टायाए साहूण आहारो ॥" नच - नैव भवति विभ्रमो - धातूपचयेन मोहोदयान्मनसो धर्मं प्रत्यस्थिरत्वंभ्रंशनंवा-चलनं For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192