________________
प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३
अनुकूलप्रेममिकास्ताभिः 'सद्धि' ति सार्द्ध - सह अनुभूता - वेदिता शयनानि च - स्वापाः सम्प्रयोगाश्च - सम्पर्काः शयनसम्प्रयोगाः, कथम्भूताः ? - ऋतुसुखानि ऋतुशुभानि वा कालोचितानीत्यर्थः यानि वरकुसुमानि च सुरभिचन्दनं च सुगन्धयो- वरचूर्णरूपा वासश्च धूपश्च शुभस्परअशानि सुखस्पर्शानि वा वस्त्राणि च भूषणानि चेति द्वन्द्वस्तेषां यो गुणस्तैरुपपेता-युक्तास्ते तथा, तथा रमणीयातोद्यगेयप्रचुरनटादिप्रकरणानि च न लभ्यानि द्रुष्टुमिति योगः, तत्र नटाःनाटकानां नाटयितारः नर्त्तका - ये नृत्यन्ति जल्ला - वरत्राखेलकः मल्लाः- प्रतीताः मौष्टिका - मल्ला एव ये मुष्टिभिः प्रहरन्ति 'वेलम्बग' त्ति विडम्बका:- विदूषकाः प्रतीताः प्लवका - ये उत्प्लवन्ते नद्यादिकं वा तरन्ति लासका-ये रासकान् गायन्ति जयशब्दप्रयोक्तारो भाण्डा वा इत्यर्थः
आख्यायका - शुभाशुभमाख्यान्ति लंखा - महावंशाग्रखेलकाः मंखाश्च-चित्रफलकहस्ता भिक्षाकाः 'तूणइल्ला' तूणाभिधानवाद्यविशेषवन्तः 'तुंबवीणिका' वीणावादकाः तालाचराःप्रेक्षाकारिविशेषाः एतेषां द्वन्द्वः तत एतेषां यानि प्रकरणानि - प्रक्रियास्तानि च तथा, बहूनि - अनेकविधानि 'महुरस्सरगीयसुस्सराई तिमधुरस्वाराणां - कलध्वनीनां गायकानां यानि गीतानिगेयानि सुखराणि - शोभनषड्जादिस्वरविशेषाणि तानि तथा, किं बहुना ? - अन्यानि चउक्तव्यतिरिक्तानि एवमादिकानि - एवंप्रकाराणि तपः संयमब्रह्मचर्यघातोपघातिकानि अनुचरता ब्रह्मचर्यं ननव तानि यानि कामोत्कोचकारीणि श्रमणेन संयतेन ब्रह्मचारिणेति भावः 'लब्भ'त्ति लभ्यानि उचितानि द्रष्टुं --प्रेक्षितुं न कथयितुं नापि च स्मर्त्तु जे इति निपातः, निगमयन्नाह - एवं पूर्वरतपूर्वक्रीडितविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविर - तग्रामधर्म्मा जितेन्द्रियो ब्रह्मचर्यगुप्त इति ४ ।
५०२
'पंचमगं'ति पञ्चमं भावनावस्तु प्रणीतभोजनवर्जनं, एतदेवाह - आहारः - अशनादिः स एव प्रणीतो - गलत्स्नेहबिन्दुः स च स्निग्धभोजनं चेति द्वन्द्वः तस्य विवर्जको यः स तथा, संयतःसंयमवान् सुसाधुः-निर्वाणसाधकयोगसाधनपरः व्यपगता - अपगता क्षीरदधिसर्पिर्नवनीततैलगुडखण्डमत्स्यण्डिका यतः सतथा, मत्स्यण्डिका चेह खण्डशर्करा, मधुमद्यमांसखाद्यकलक्षणाभिर्विकृतिभिः परित्यक्तो यः स तथा, ततः पदद्वयस्य कर्मधारयः, स एवंविधः कृतो भुक्त आहारो येन स तथा, किमित्याह - न-नैव दर्पणं-दपकारकमाहारं भुंजीतेति शेषः, तथा न बहुशो दिनमध्ये न बहुकृत्व इत्यर्थः, 'न निइगं' ति न नैत्यिकं प्रतिदिनमितियावत् न शाकसूपाधिक-शालनकदालप्रचुरमित्यर्थः 'न खद्धं' नप्रभूतं यत आह
॥ १ ॥ "जहा दवग्गी पउरिंघणे वणे, समारुओ नो वसमं उवेति । एवेंदियग्गीवि पकामभोइणो, न बंभयारिस्स हियाय कस्सइ ||" त्ति
किंबहुना ?, तथा - तेन प्रकारेण हितमिताहारित्वादिना भोक्तव्यं यथा 'से' तस्य ब्रह्मचारिणो यात्रा - संयमयात्रा सैव यात्रामात्रं तस्मै यात्रामात्राय भवति, आह च
॥१॥
“जह अब्भंगण १ लेवो २ सगडक्खवणाण जत्तिओ होइ ।
इय संजमभरवहणट्टायाए साहूण आहारो ॥"
नच - नैव भवति विभ्रमो - धातूपचयेन मोहोदयान्मनसो धर्मं प्रत्यस्थिरत्वंभ्रंशनंवा-चलनं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org