Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
५००
प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३
वात्स्यायनप्रसिद्धास्ते वान कथयितव्याः,
तथान-नैवदेशजातिकुलरूपनामनेपथ्यपरिजनकथावा स्त्रीणांकथयितव्येति प्रक्रमः, तत्र लाटादिदेशसम्बन्धेन स्त्रीणां वर्णन देशकथा, यथा-"लाट्यः कोमलवचनारतिनिपुणा वा भवन्ती" त्याह, जातिकथा यथा-- ॥१॥ धिक् ब्राह्मणीर्धवाभावे, या जीवन्ति मृता इव ।
धन्या मन्येजने शूद्रीः, पतिलक्षेऽप्यनिन्दिताः॥"
-तथा कुलकथा यथा॥१॥ "अहो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् ।
पत्युर्मृत्यौ विशंत्यग्नौ, याः प्रेमरहिता अपि ॥"
-रूपकथा यथा॥१॥ "चन्द्रवक्त्रा सरोजाक्षी, सङ्गीः पीनधनस्तनी।
किं लाटी न मता साऽस्य, देवानामपि दुर्लभा ॥" -नामकथा सा सुन्दरीति सत्यं सौन्दर्यातिशयसमन्वितत्वात्, नेपथ्यकथा यथा--
"धिग् १ नारीरौदीच्या बहुवसनाच्छादिङ्गलतिकत्वात्। यद्योवनं न यूनां चक्षुर्मोदाय भवति सदा ॥"
-परिजनकथा यथा॥१॥ "चेटिकापरिवारोऽपि, तस्याः कान्तो विचक्षणः ।
भावज्ञः स्नेहवान् दक्षो, विनीतः सत्कुलस्तथा ॥" किंबहुना?,अन्याअपिचएवमादिकाः-उक्तप्रकाराःकथाः स्त्रीसम्बन्धिकथाः श्रृङ्गारकरुणाः श्रृङ्गारमृदवः श्रृङ्गाररसेन करुणापादिका इत्यर्थः तपः संयमब्रह्मचर्यघातकोपघातिकाः अनुचरता ब्रह्मन्नयं न कथयितव्या न श्रोतव्या अन्यतः न चिन्तयितव्या वा यतिजनेन, द्वितीयभावनानिगमनायाह-एवं स्त्रीकथाविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविरतग्रामधर्मः जितेन्द्रियो ब्रह्मचर्यगुप्त इति प्रकटमेव २, _ 'तइयंति तृतीयंभावनावस्तु स्त्रीरूपनिरीक्षणवर्जनं, तच्चैवम्-नारीणां-स्त्रीणां हसितं भणितं-हास्यं सविकारं भणितंच तथा चेष्टितं-हस्तन्यासादि विप्रेक्षितं-निरीक्षितं गतिः-गमनं विलासः-पूर्वोक्तलक्षणः क्रीडितं-धूतादिक्रीडा एषांसमाहारद्वन्द्वः विब्बोकितं-पूर्वोक्तलक्षणो विब्बोकः नाट्यं-नृत्तं गीतं-गानं वादितं-वीणावादनं शरीरसंस्थानं-इस्वदीर्घादिकं वर्णोगौरवत्वादिलक्षणः करचणनयनानां लावण्यं-स्पृहणीयता रूपं च-आकृतिः यौवनं-तारुण्यं पयोधरौ-स्तनौ अधरः-अधस्तनौष्ठः वस्त्राणि-वसनानि अलङ्कारा-हारादयः भूषणं चमण्डनादिना विभूषाकरणमिति द्वन्द्वस्तस्तानि च न प्रार्थयितव्यानीति सम्बन्धः,
तथा गुह्यावकाशिकानि गुह्यभूता-लज्जनीयत्वात्स्थगनीयाः अवकाशा-देशाअवयवा इत्यर्थः, अन्यानि च-हासादिव्यतिरिक्तानि एवमादिकानि-एवंप्रकाराणि तपःसंयमब्रह्मचर्यघातोपघातिकानिअनुचरता ब्रह्मचर्यनचक्षुषानमनसानवचसा प्रार्थयितव्यानि पापकानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192