________________
द्वारं - २, अध्ययनं ४,
४९९
केवलमुक्तरूपा वर्जनीयाः अन्ये चैवमादयः अवकाशा-आश्रया वर्जनीया इति, किं बहुना ? - ' जत्थे' त्यादि उत्तरत्र वीप्साप्रयोगादिह वीप्सा श्या ततो यत्र यत्र जायते मनोविभ्रमो वा - चित्तभ्रान्तिः ब्रह्मचर्यमनुपालयामि नवेत्येवंरूपं श्रृङ्गाररसप्रभवं मनसोऽस्थिरत्वं, आह च - " यत् चित्तवृत्तेरनवस्थित्वं, श्रृङ्गारजं विभ्रम उच्यतेऽसौ ।”
भङ्गो वा ब्रह्मव्रतस्या सर्वभङ्गं इत्यर्थः, श्रंशना वा - देशतो भङ्गः आर्त्त-- इष्टविषयसंयोगाभिलाषरूपं रौद्रं वा भवेद् ध्यानं तदुपायभूतहिंसानृतादत्तग्रहणानुबन्धरूपं तत्तदनायतमिति योगः वर्जयेत्, कोऽसावित्याह-अवद्यभीरुः - पापभीरुः वज्यभीरुर्वा वज्यत इति, किंभूतोऽवद्यभीरुः अन्ते - इन्द्रियाननुकूले प्रान्ते तत्रैव प्रकृष्टतरे आश्रये वस्तुं शीलमस्त्येतन्ताप्रान्तवासी, निगमयन्नाह एवं - अनन्तरोक्तन्यायेन असंसक्तः - स्त्रीभिरसम्बद्धो वासो - निवासो यस्याः सा तथाविधा या वसतिः- आश्रयस्तद्विषयो यः समितियोगः - सत्प्रवृत्तिसम्बन्धः स तथा तेन भावितो भवन्त्यन्तरात्मा, किंविधः - आरतं - अभिविधिना आसक्तं ब्रह्मचर्ये मनो यस्य स आरतमनाः विरतो - निवृत्तो ग्रामस्य - इन्द्रियवर्गस्य धर्मो-लोलुपतया तद्विषयग्रहण स्वभावो यस्य स तथा ततः पदद्वयस्य कर्मधारयः, अत एवाए जितेन्द्रियः ब्रह्मचर्यगुप्त इति १ ॥
'बीइयं 'ति द्वितीयं भावनावस्तु, किं तदित्याह - नारीजनस्य मध्ये - स्त्रीपर्षदोऽन्तः 'न'नैव कथयितव्या, केत्याह - कथावचनप्रबन्धरूपा विचित्रा - विविधा विविक्ता वा - ज्ञानोपष्टम्भादिकारण वर्जा की शीत्याह-'विब्बोकविलाससम्प्रयुक्ता' तत्र विब्बोकलक्षणं इदं“इष्टानामर्थानां प्राप्तवभिमानगर्वसम्भूतः । स्त्रीणामनादरकृतो विब्बोको नाम विज्ञेयः ॥"
-
119 11
11911
-विलासलक्षणं पुनरिदं“स्थानासनगमनानां हस्तभ्रूनेत्रकर्म्मणां चैव ।
उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ।।”
अन्ये त्वाहु: - "विलासो नेत्रजो ज्ञेयः " इति, तथा हासः - प्रहसनिकाभिधानो रसविशेषः श्रृङ्गारोऽपि रसविशेष एव तयोश्च स्वरूपमिदं
|| 9 ||
119 11
"हास्यो हासप्रकृतिर्हासो विकृताङ्गवेषचेष्टाभ्यः । भवति परस्थाभ्यः स च भूम्ना स्त्रीनीचबालगतः ॥” (तथा) "व्यवहारः पुंनार्योरन्योऽन्यं रक्तयो रतिप्रकृतिः । शृङ्गारः स द्वेधा सम्भोगो विप्रलम्भश्च ॥”
एतप्रधाना या लौकिकी असंविग्नलोकसम्भन्धिनी कथा - चचनरचना सा तथा सा वा मोहजननी - मोहोदीरिका वाशब्दो विकल्पार्थः, तथा न-नैव आवाहः - अभिनवपरिणीतस्य वधूवरस्यानयनं विवाहश्च - पाणिग्रहणं तप्रधानां या वरकथा परणेतृकथा आवाहविवाहवरा वा या कथा सा तथा, साऽपि न कथयितव्येति प्रक्रमः, स्त्रीणां वा सुभगदुर्भगकथा सा, साच सुभगादुर्भगा वा ईशी वा सुभगा दुर्भगा वा भवतीत्येवंरूपा न कथयितव्येति प्रक्रमः, चतुःषष्टिश्च महिलागुणाः आलिङ्गनादीनामष्टानां कामकर्म्मणा प्रत्येकमष्टभेदत्वेन चतुःषष्टिर्महिलागुणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org