Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 141
________________ , प्रश्नव्याकरणदेशाङ्गसूत्रम् २/४/३९ सुपर्णकुमाराणां यथा वेणुदेवः प्रवरः तथा व्रतानां ब्रह्मचर्यमिति प्रकृतं, तथा धरणो यथा पन्नगेन्द्राणांभुजगवराणां नागकुमाराणां राजा पन्नगेन्द्रराजः पन्नगानां प्रवरः एवमिदं व्रतानामिति प्रक्रमः, कल्पानामिव-देवलोकानां यथा ब्रह्मलोकः - पञ्चमदेवलोकः तत्क्षेत्रस्य महत्त्वात् तदिन्द्रस्यातिशुभपरिणामत्यात् प्रवरः एवमिदं व्रतानां सभासु च प्रतिभवनविमानभाविनीषु सुधर्मसभा उत्पादसभा अभिषेकसभा अलङ्कारसभा व्यवसायसभा चेत्येवंलक्षणासु पञ्चसु मध्ये यथा सुधर्मा भवति प्रवरा तथेदं व्रतानामिति, स्थितिषु - आयुष्केषु मध्ये लवसप्तमा- अनुत्तरसुरभवस्थिति; वाशब्दो यथाशब्दार्थः ततो यथा प्रवरा - प्रधाना तथेदं व्रतानामिति, तत्रैकोनपञ्चाशत उच्छ्वासानां लवो भवति, व्रीह्यादिस्तम्बलवनं वा लवस्तव्यमाणः कालोऽपि लवः, ततो लवैः सप्तमैः- सप्तप्रमाणैः सप्तसङ्घयैर्विवक्षिताध्यवसायविशेषस्य मुक्तिसम्पादकस्या पूर्यमाणैर्या स्थितिर्बध्यते सा लवसप्तमत्यभिधीयते, तथा 'दानाणं चेव अभयदाणं' ति दानानां मध्येऽभयदानमिव प्रवरमिदं, ४९४ तत्र दानानि ज्ञानधर्मोपग्रहाभयदानभेदात्त्रीणि, 'किमिरागोव्व कंबलाणं' ति कम्बलानांवासविशेषाणां मध्ये कृमिराग इव-कृमिरागरक्तकम्बल इव प्रवरमिदं व्रतानां, तथा 'संहनने चेव वज्ररिसह' त्ति संहनानां चतुरस्रसंस्थानमिवेदं प्रवरं व्रतानां, तथा ध्यानेषु च परमशुक्लध्यानंशुक्लध्यान चतुर्थभेदरूपं यथा प्रवरमेवमिदं व्रतेष्विति गम्यं 'नाणेसु य परमकेवलं तु सिद्धं ति ज्ञानेषु - आभिनिबोधिकादिषु परमं च तत्केवलंच - परिपूर्ण विशुद्धं वा मतिश्रुतावधिमनः पर्यायापेक्षया परमकेवलं क्षायिकज्ञानमित्यर्थः तुरेवकारार्थः सिद्धं - प्रवरतया प्रसिद्धं यथा तथेदमपि व्रतेष्विति गम्यं, तीर्थकरश्चैव यथा मुनीनां प्रवरस्तथैवेदं व्रतानां, वर्षेषु-क्षेत्रेषु यथा महाविदेहस्तथेदं व्रतेषु, 'गिरिराया चेव मंदरवरे 'ति चेवशब्दास्य यथार्थत्वात् यथा मन्दरवरो - जम्बूद्वीपमेरुगिरिराजस्तथेदं व्रतराजः, वनेषु भद्रशालनन्दसौमनसपण्डकाभिधानेषु मेरुसम्बन्धिषुयथा नन्दनवनं प्रवरमेवमिदमिति, द्रुमेषु-तरुषु मध्ये यथा जम्बूः सुदर्शनेति - सुदर्शनाभिधाना विश्रुतयशाः - विख्याता एवमिदमिति, किम्भूता जम्बू : ? – यस्या नाम्नाऽयं द्वीपः जम्बूद्वीप इत्यर्थः, यथा तुरगपतिर्गजपती रथपतिर्नरपतिः यथा विश्रुतश्चैव राजा तथेदमपि विश्रुतमिति भावः, रथिकश्चैव यथा महारथगतःपराभिभावी भवतीत्येवमिहस्थः कर्मरिपुसैन्याभिभावी भवतीति, निगमयन्नाह एवं उक्तक्रमेणानेके गुणाः प्रवरत्वविश्रुतत्वादयोऽनेकनिदर्शनाभिधेयाः अहीनाः - प्रकृष्टा अधीना वा स्वायत्ता भवन्ति, कवेत्याह-एकस्मिन् ब्रह्मचर्ये चतुर्थे व्रते, तथा यस्मिंश्च ब्रह्मचर्ये आराधिते - पालिते आराधितं - पालितं व्रतमिदं-निर्ग्रन्थप्रव्रज्यालक्षणं सर्वं - अखण्डं, तथा शीलं - समाधानं तपश्च विनयश्च संयमश्च क्षान्तिर्गुप्तिर्मुक्तिः - निर्लोभता सिद्धिर्वा तथैवेति समुच्चये तथा एहिवालौकिकयशांसि च कीर्त्तयश्च प्रत्ययश्च आराधिता भवन्तीति प्रक्रमः तत्र यशः- पराक्रमकृतं कीर्त्तिः- दानपुण्यफलभूता अथवा सर्वदिग्गामिनी प्रसिद्धिर्यशः एकदिग्गामिनी कीर्त्तिः प्रत्ययः - साधुरयं इत्यादिरूपा जनप्रतीतिरिति यत एवंभूतं तस्मान्निभृतेन- स्तिमितेन ब्रह्मचर्यं चरितव्यं-आसेवनीयं, किंभूतं ? - सर्वतो-मनःप्रभृतिकरणत्रययोगत्रयण विशुद्धं निरवद्यं यावज्जीवया प्रतिज्ञया For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192