________________
,
प्रश्नव्याकरणदेशाङ्गसूत्रम् २/४/३९ सुपर्णकुमाराणां यथा वेणुदेवः प्रवरः तथा व्रतानां ब्रह्मचर्यमिति प्रकृतं, तथा धरणो यथा पन्नगेन्द्राणांभुजगवराणां नागकुमाराणां राजा पन्नगेन्द्रराजः पन्नगानां प्रवरः एवमिदं व्रतानामिति प्रक्रमः, कल्पानामिव-देवलोकानां यथा ब्रह्मलोकः - पञ्चमदेवलोकः तत्क्षेत्रस्य महत्त्वात् तदिन्द्रस्यातिशुभपरिणामत्यात् प्रवरः एवमिदं व्रतानां सभासु च प्रतिभवनविमानभाविनीषु सुधर्मसभा उत्पादसभा अभिषेकसभा अलङ्कारसभा व्यवसायसभा चेत्येवंलक्षणासु पञ्चसु मध्ये यथा सुधर्मा भवति प्रवरा तथेदं व्रतानामिति, स्थितिषु - आयुष्केषु मध्ये लवसप्तमा- अनुत्तरसुरभवस्थिति; वाशब्दो यथाशब्दार्थः ततो यथा प्रवरा - प्रधाना तथेदं व्रतानामिति, तत्रैकोनपञ्चाशत उच्छ्वासानां लवो भवति, व्रीह्यादिस्तम्बलवनं वा लवस्तव्यमाणः कालोऽपि लवः, ततो लवैः सप्तमैः- सप्तप्रमाणैः सप्तसङ्घयैर्विवक्षिताध्यवसायविशेषस्य मुक्तिसम्पादकस्या पूर्यमाणैर्या स्थितिर्बध्यते सा लवसप्तमत्यभिधीयते, तथा 'दानाणं चेव अभयदाणं' ति दानानां मध्येऽभयदानमिव प्रवरमिदं,
४९४
तत्र दानानि ज्ञानधर्मोपग्रहाभयदानभेदात्त्रीणि, 'किमिरागोव्व कंबलाणं' ति कम्बलानांवासविशेषाणां मध्ये कृमिराग इव-कृमिरागरक्तकम्बल इव प्रवरमिदं व्रतानां, तथा 'संहनने चेव वज्ररिसह' त्ति संहनानां चतुरस्रसंस्थानमिवेदं प्रवरं व्रतानां, तथा ध्यानेषु च परमशुक्लध्यानंशुक्लध्यान चतुर्थभेदरूपं यथा प्रवरमेवमिदं व्रतेष्विति गम्यं 'नाणेसु य परमकेवलं तु सिद्धं ति ज्ञानेषु - आभिनिबोधिकादिषु परमं च तत्केवलंच - परिपूर्ण विशुद्धं वा मतिश्रुतावधिमनः पर्यायापेक्षया परमकेवलं क्षायिकज्ञानमित्यर्थः तुरेवकारार्थः सिद्धं - प्रवरतया प्रसिद्धं यथा तथेदमपि व्रतेष्विति गम्यं, तीर्थकरश्चैव यथा मुनीनां प्रवरस्तथैवेदं व्रतानां, वर्षेषु-क्षेत्रेषु यथा महाविदेहस्तथेदं व्रतेषु, 'गिरिराया चेव मंदरवरे 'ति चेवशब्दास्य यथार्थत्वात् यथा मन्दरवरो - जम्बूद्वीपमेरुगिरिराजस्तथेदं व्रतराजः, वनेषु भद्रशालनन्दसौमनसपण्डकाभिधानेषु मेरुसम्बन्धिषुयथा नन्दनवनं प्रवरमेवमिदमिति,
द्रुमेषु-तरुषु मध्ये यथा जम्बूः सुदर्शनेति - सुदर्शनाभिधाना विश्रुतयशाः - विख्याता एवमिदमिति, किम्भूता जम्बू : ? – यस्या नाम्नाऽयं द्वीपः जम्बूद्वीप इत्यर्थः, यथा तुरगपतिर्गजपती रथपतिर्नरपतिः यथा विश्रुतश्चैव राजा तथेदमपि विश्रुतमिति भावः, रथिकश्चैव यथा महारथगतःपराभिभावी भवतीत्येवमिहस्थः कर्मरिपुसैन्याभिभावी भवतीति, निगमयन्नाह
एवं उक्तक्रमेणानेके गुणाः प्रवरत्वविश्रुतत्वादयोऽनेकनिदर्शनाभिधेयाः अहीनाः - प्रकृष्टा अधीना वा स्वायत्ता भवन्ति, कवेत्याह-एकस्मिन् ब्रह्मचर्ये चतुर्थे व्रते, तथा यस्मिंश्च ब्रह्मचर्ये आराधिते - पालिते आराधितं - पालितं व्रतमिदं-निर्ग्रन्थप्रव्रज्यालक्षणं सर्वं - अखण्डं, तथा शीलं - समाधानं तपश्च विनयश्च संयमश्च क्षान्तिर्गुप्तिर्मुक्तिः - निर्लोभता सिद्धिर्वा तथैवेति समुच्चये तथा एहिवालौकिकयशांसि च कीर्त्तयश्च प्रत्ययश्च आराधिता भवन्तीति प्रक्रमः तत्र यशः- पराक्रमकृतं कीर्त्तिः- दानपुण्यफलभूता अथवा सर्वदिग्गामिनी प्रसिद्धिर्यशः एकदिग्गामिनी कीर्त्तिः प्रत्ययः - साधुरयं इत्यादिरूपा जनप्रतीतिरिति यत एवंभूतं तस्मान्निभृतेन- स्तिमितेन ब्रह्मचर्यं चरितव्यं-आसेवनीयं, किंभूतं ? -
सर्वतो-मनःप्रभृतिकरणत्रययोगत्रयण विशुद्धं निरवद्यं यावज्जीवया प्रतिज्ञया
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International