________________
द्वारं-२, अध्ययनं ४,
४९३
बंभचारिं नमसंति दुक्करं जं करिंति ते ।।”
'पउमसरतलागपालिभूयं 'ति सरः- स्वतः - सम्भवो जलाशयविशेषः तडागश्च स एव पुरुषादिकृत इति समाहारद्वन्द्वः पद्मप्रधानं सरस्तडागं पद्मसरस्तडागं पद्मसरस्तडागमिव • मनोहरत्वेनोपादेयत्वात् पद्मसरस्तडागं-धर्मस्तस्य पालिभूतं-रक्षकत्वेन पालिकल्पं यत्तत्तथा, तथा महाशकटारका इव महाशकटारकाः - क्षान्तायादिगुणास्तेषां तुम्बभूतं - आधारसमार्थ्यान्नाभिकल्पं यत्तत्तथा, महाविटपवृक्ष इव-अतिविस्तारभूरुह इव महाविटपवृक्षः - आश्रितानां परमोपकारत्व साधर्म्याद्धर्म्मः तस्य स्कन्धभूतं - तस्मिन् सति सर्वस्य धर्मशाखिन उपपधद्यामानत्वेन नालकल्पं यत्तत्तथा
'महानगरपागारकवाडफलिहभूयं 'ति महानगरमिव महानगरं विविधसुखहेतुत्वसाधर्म्याद्धर्मः तस्य प्राकार इव कपाराटमिव परिधमिव यत्तत्त महानगरकपाटपरिघभूतमिति, रज्जुपिनद्धइव इन्द्रकेतुः - रश्मिनियन्त्रितेवेन्द्रयष्टिः विशुद्धानेकगुणसंपिनद्धं निर्मलदहुगुणपरिवृतं, यस्मिंश्च यत्र च ब्रह्मचर्ये भग्ने विराधिते भवति सम्पद्यते सहसा - अकस्मात् सर्वं सर्वथा सम्भग्नं घट इव मथितं दधीव विलोडितं चूर्णितं चणक इव पिष्टं कुशल्यितं - अन्तः प्रविष्टतोमरादिशल्यशरीरमिव सञ्जातदुष्टशल्यं 'पल्लट्ट' त्ति पर्वतशिखराद् गण्डशैल इव स्वाश्रयाच्चलितं पतितं - प्रासादशिखरादेः कलशादिरिवाधो निपतितं खण्डितं दण्ड इव विभागेन छिन्ने परि शतिं कुष्ठाद्युपहताङ्गमिव विध्वस्तं विनाशितं च-भस्मीभूतपवनविकीर्णदार्विव निरसत्ताकतां तं एषां समाहारद्वन्द्वः कर्मधारयो वा,
किमेवंविधं भवतीत्याह - विनयशीलतपोनियमगुणसमूह - विनयशीलतपो नियमलक्षणानां गुणानां वृन्दं, इह च समूहशब्दस्य छान्दसत्वान्नपुंसकनिर्देशः, 'त' मिति तदेवंभूतं ब्रह्मचर्य भगवन्तंभट्टारकं, तथा ग्रहगणनक्षत्रतारकाणां वा यथा उडुपतिः - चन्द्रः प्रवर इति योगस्तथेदं व्रतानामिति शेषः, वाशब्दः पूर्वविशेषणापेक्षया समुच्चये, तथा मणयः -- चन्द्रकान्ताद्याः मुक्ता - मुक्ताफलानि शिलाप्रवालानि - विद्रुमाणि रक्तरत्नानि - पद्मरागादीनि तेषामाकरा - उत्पत्तिभूमयो ये ते तथा तेषां वा यथा समुद्रः प्रवरस्तथेदं व्रतानामिति शेषः सर्वत्र दश्यः, वैडूर्यं चैव रत्नविशेषो यथा मणीनां यथा मुकुटं चैव भूषणानां वस्त्राणामिव क्षौमयुगलं कार्पासिकवस्त्रस्य प्रधानत्वात्,
इह चेवशब्दो यथार्थो द्रष्टव्यः, 'अरविंदं चेव' त्ति अरविन्दं पद्मं तथा पुष्पज्येष्ठमेवमिदं व्रतानां, 'गोसीसं चेव' त्ति गोशीर्षाभिधानं चन्दनं यथा चन्दनानां 'हिमवंतं चेव' त्ति हिमवानिव औषधीनां, यथा हिमवान् गिरिविशेषः औषधीनां - अद्भुतकार्यकारिवनस्पतिविशेषाणामुत्पत्तिस्थानमेवं ब्रह्मचर्यमौषधीनां - आमर्षोशौषध्यादीनामागमप्रसिद्धानामुत्पत्तिस्थानमिति भावः, 'सीतोदा चेव' त्ति शीतोदेव निम्नगानां नदीनां यथा नदीनां शीतोदा प्रवरा तथेदं व्रतानामित्यर्थः, उदधिषु यथा खयम्भूरमणः - अन्तिमसमुद्रो महत्त्वे प्रवरः एवमिदं व्रतानां प्रवरमिति 'रुयगवरे चेव मंडलिए पव्वयाण पवरे 'त्ति यथा माण्डलिकपर्वतानां मानुषोत्तरकुण्डलवररुचकवराभिधानानां मध्ये रुचकवरः - त्रयोदशद्वीपवर्ती प्रवरः एवमिदं व्रतानां प्रवरमिति भावः,
तथा ऐरावण इव शक्रगजो यथा कुञ्जराणां प्रवरः एवमिदं व्रतानां, सिंहो वा यथा मृगाणांआटव्यपशूनां प्रवरः- प्रधानः एवमिदं व्रतानां 'पवगाणं चेव' त्ति प्रवकाणामिव-प्रक्रमात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org