Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 142
________________ द्वार-२, अध्ययन-४, ४९५ यावज्जीवतया वाआजन्मेत्यर्थः, एतदेवाह-यावत्श्वेतास्थिसंयतइति, श्वेतास्थिताचसाधोप॑तस्य क्षीणमांसादिभावे सतीति, इतिशब्दो विवक्षितवाक्यार्थसमाप्ती, भङ्गयन्तरेण ब्रह्मचर्य व्रतं स्तोतुं प्रस्तावयति-‘एवं वक्ष्यमाणेन वचनेन भणितं व्रतं ब्रह्मलक्षणं भगवता श्रीमहावीरेण तंच इमंत्ति तच्चेदं वचनं पद्यत्रयप्रभृतिकमू. (४०) पंचमहब्बयसुब्बयमूलं, समणमनाइलसाहुसुचिनं । वेरविरामणपज्जवसाणं, सव्वसमुद्दमहोदधितित्थं ।। वृ. 'पञ्चमहब्बयसुब्बयमूलं पञ्चमहाव्रतनामकानियानि सुव्रतानि तेषां मूलमिव मूलं यत् अथवा पञ्चमहाव्रताः-साधवस्तेषांसम्बन्धिनांशोभमनियमानांमूलं यत्अथवापञ्चानांमहाव्रतानां सुव्रतानां च-अणुव्रतानां मूलं यत्तत्तथा, अथवा हे पञ्चमहाव्रतसुव्रत ! मूलमिदं ब्रह्मचर्यमिति प्रकृतं, 'समणमणाइलसाहुसुचिण्णं' 'समणं'ति सभावं यथा भवतीत्येवं अनाविलैः-अकलुषैः शुद्धस्वभावैः साधुभिः-यतिभिः सुष्ठु चरितं-आसेवितं यत्तत्तथा, 'वेरविरमणपञ्जवलसाणं' वैरस्य परस्परानुशयस्यविरमणं-विरामकरणमुपशमनयन० निवर्त्तनंपर्यवसानं-निष्ठाफलं यस्य तत्तथा, सव्वसमुद्दमहोदहितित्थं सर्वेभ्यःसमुद्रेभ्यः सकाशात् महानुदधि;-स्वयंभूरमण इत्यर्थः तद्वद्यहुनिस्तरत्वेन तत्सर्वसमुद्रमहोदधिस्तथा तीर्थमिव तीर्थं-पवित्रताहेतुर्यत्र तत्तथा, अथवा सर्वसमुद्रमहोदधिः-संसारोऽतिदुस्तरत्वात्तन्निस्तरणे तीर्थमिव-तरणोपाय इव तत्तथेति वृत्तार्थः॥ मू. (४१) तित्थकरेहि सुदेसियमग्गं, नरयतिरिच्छविवजियमगं। सव्वपवित्तिसुनिम्मियसारं, सिद्धिविमाणअवंगुयदारं। वृ.तित्थयरेहि सुदेसियमग्गं तितीर्थकरैः-जिनैःसुदेशितमार्ग-सुष्ठुदर्शितगुप्तयादितत्पालनोपाय, निरयतिरिच्छविवज्जियमग्गं' नरकतिरश्चांसम्बन्धी विवर्जितो-निषिद्धोमार्गो-गतिर्येन तत्तथा, 'सब्बपवित्तसुनिम्मियसारसर्वपवित्राणि-समस्तपावनानि सुनिर्मितानि-सुष्ठुविहितानि साराणि-प्रधानानि येन तत्तथा, सिद्धिविमाणअवंगुयदारं सिद्धेर्मिमानानांचाप्रवृत्तं-अपगतावरणीकृतमुद्घाटितमित्यर्थो द्वारं-प्रवेशमुखं येन तत्तथेति वृत्तार्थः॥ मू. (४२) देवनरिंदनमंसियपूर्य, सव्वजगुत्तममंगलमग्गं । दुद्धरिसं गुणनायकमेकं, मोक्खपहस्स वडिंसकभूयं ।। वृ. 'देवनरिंदमंसियपूर्य' देवानांनराणांचेन्दैनमस्यिता-नमस्कृता येतेषां पूज्यं-अर्चनीयं यत्तत्तथा, 'सव्वजगुत्तममंगलमग्गं' सर्व जगदुत्तमानां मङ्गलानां मार्गः-उपायोऽऽयं वा-प्रधानं यत्तत्तथा, 'दुद्धरिसं गुणनायकमेक्कं' दुर्द्धर्षं-अनभिभवनीयं गुणान्नयति-प्रापयतीति गुणनायकमेकं-अद्वितीयमसदृशं, 'मोक्खपहस्सऽवडिंसगभूअं' मोक्षपथस्यसम्यग्दर्शनादेरवतंसकभूतं-शेखरकल्पं प्रधानमित्यर्थः इति दोधकार्थः ॥ मू. (४३) जेण सुद्धचरिएण भवइ सुबंभणो सुसमणो सुसाहू सइसी समुणी ससंजए स एव भिक्खू जो सुद्धं चरति बंभचेरं, इमं च रतिरागदोसमोहपबड्डणकरं किंमज्झपमायदोसपासस्थसीलकरणं अदभगणाणि यतेल्लमजणाणि य अभिक्खाणं कामयपीसकरचरणवदनधोवणसंबा. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192