Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 123
________________ ४७६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३६ जिनादिभिर्यत्तत्तथा, वैमानिकैर्वा साधितं-कृतमासेवितं समर्थितं वा यत्तत्तथा, महार्थं महाप्रयोजनं, एतदेवाह-मन्त्रौषधीविद्यानांसाधनमर्थ;--प्रयोजनं यस्य तद्विना तस्याभावात्तत्तथा, तथा चारणगणानां-विद्याचारणादिवृन्दानां श्रमणानां च सिद्धाः विद्या आकाशमनवैक्रियकरणादिप्रयोजना यस्मात्तत्तथा, मनुजगणानांच वन्दनीयं-स्तुत्यं अमरगणानां चार्चनीयं-पूज्यं असुरगणानां च पूजनीयं अनेकपाखण्डिपरिगृहीतं-नानाविधव्रतिभिरङ्गीकृतं यत्तल्लोके सारभूतं गम्भीरतरं महासमुद्रादतिशयेनाक्षोभ्यत्वात्स्थिरतरकंमेरुपर्वतात् अचलितत्वेन सौम्यतरं चन्द्रमण्डलात्अतिशयेन सन्तापोपशमहेतुत्वात्दीप्ततरंसूरमण्डलात् यथावद्वस्तुप्रकाशनात्तेजस्विनांचात्यन्तानभिभवनीयत्वाविमलतरंशरन्ननभस्तलादतिनिर्दोषत्वात् सुरभितरमिव सुरभितरं गन्धमादनाद्-गजदन्तकगिरिविशेषः सददयानामतीव हृदयावर्जकत्वात् येऽविच लोकेऽपरिशेषा-निःशेषा मन्त्राः--हरिणेगमेषिमन्त्रादयः योगाः-वशीकरणादिप्रयोजनाः द्रव्यसंयोगाः जपाश्च मन्त्रविद्याजपनानि विद्याश्च-प्रज्ञप्तयादिकाः जृम्भकाश्चतिर्यग्लोकवासिनो देवविशेषाः अस्त्राणिच-नाराचादीनिक्षेप्यायुधानि सामान्यानि वा शास्त्राणि च-अर्थशास्त्रादीनि शस्त्राणि वा-खगदीन्यक्षेप्यायुधानि शिक्षाश्च-कलाग्रहणानि आगमाश्चसिद्धान्ताः सर्वाण्यपि तानि सत्ये प्रतिष्ठितानि, असत्यवादिनां न केऽपि मन्त्रादयोऽर्थाः स्वसाध्यसाधकाः प्रायो भवन्तीतिभावः,तथा सत्यमपि सद्भूतार्थमात्रतया संयमस्योपरोधकारकबाधकं किञ्चिद्-अल्पमपि न वक्तव्यं, किंरूपं तदित्याह-हिंसया-जीववधेन सावद्येन च-पापेन आलापादिना सम्प्रयुक्तं यत्तत्तथा, आह च “तहेव काणं काणित्ति, पंडगं पंडगत्ति य । वाहियं वा विरोगित्ति तेणं चोरित्ति नो वए।" भेदः-चारित्रभेदस्तत्कारिका विकथाः-स्त्र्यादिकथाः तत्कारकं यत्तत्तधा, तथा अनर्थवादो-निष्प्रयोजनो जल्पः कलहश्च-कलिस्तत्कारकं यत्तत्तथा, अनार्य-अनार्यप्रयुक्तं अन्यायंच-अन्यायोपेतं अपवाद:-परदूषणाभिधानं विवादो-विप्रतिपत्तिस्तत्सम्प्रयुक्तं यत्तत्तथा, वेलम्ब-परेषां विडम्बनकारी ओजो-बलं धैर्यं च धृष्टता ताभ्यां बहुलं-प्रचुरमोजोधैर्यबहुलं निर्लज्जे-अपेतलज्जू लोकगईणीयं-निन्द्यं दुदृष्टं-असम्यगीक्षितं दुःश्रुतं-असम्यगाकर्णितं दमुणितं-असम्यग्ज्ञातं आत्मनः स्तवना-स्तुतिः परेषां निन्दा-गर्दा, __निन्दामेवाह-'नसि ति नासि न भवसि त्वमिति गम्यते मेधावी-अपूर्वश्रुतद्दष्टग्रहणशक्तियुतः तथा न त्वमसि धन्यो-धनं लब्धा तथा नासि-न भवसि प्रियधर्मा-धर्मप्रियः तथा न त्वं कुलीनः-कुलजातः तथा नासि-न भवसि दानपतिर्दानदातेत्यर्थः, तथा न त्वमसि सूरःचारभटः तथा न त्वमसि न भवसि प्रतिरूपो-रपवान्न त्वमसि लष्टः-सौभाग्यवान्न पण्डितोबुद्धिमान् न बहुश्रुतः-आकर्णिताधी तबहुशास्त्रः बहुसुतो वा-बहुपुत्रो बहुशिष्यो वा नापि च त्वं तपस्वी-क्षपकः न चापि परलोकविषये निश्चिता-निःसंशया मतिरस्येति परलोकनिश्चितमतिरसि-भवसि सर्वकालं-आजन्मापीति, किंबहुनोक्तेन?, वर्जनीयवचनविषयमुपदेशसर्वस्वमुच्यते, जातिकुलरूपव्याधिरोगेण चापीति, इह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192