Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 128
________________ द्वार-२, अध्ययनं-२, ४८१ रजोहरणस्य कव-ते उपसंहरन्नाह-अन्येषु च एवमादिषु बहुषु कारणशतेष्वित्यादि व्यक्तमेव ३ 'चउत्स्यन्ति चतुर्थंभावनावस्तु यत् 'न भाइयव्वं तिन भेत्तव्यं-नभयं विधेयं इति, यतो भीतं भयार्त्त प्राणिनं खुरिति वाक्यालङ्कारे भयानि-विविधा भीतयः ‘अतितित्ति आगच्छंति, किंभूतं भीतं? - 'लहुयंति लघुकं सत्त्वसारवर्जितत्वेन तुच्छं क्रियाविशेषणं वेदंतेन लघुकं-शीघ्रं, तथा भीतः अद्वितीयः-सहायो न भवतीत्यर्थः मनुष्यो--नरः, तथा भीतो भूतैर्वा-प्रेतैगृह्यतेअधिष्ठीयते, तथा भीतोऽन्यमपिभेषयेत्, तथा भीतः तपःप्रधानः संयमः तपःसंयमस्तमपि हुरलङ्कारे मुञ्चेत्-त्यजेत् अलीकमपि ब्रूयादिति हृदयं, अहिंसादिरूपत्वात् संयमस्य, तथा भीतश्च भरं न निस्तरेत, तथा सत्पुरुषनिषेवितंचमार्ग-धर्मादिपुरुषार्थोपायं भीतोनसमर्थोऽनुचरितुं-आसेवितु, यत एवं तस्मात् 'न भाइयव्वं तिन भेत्तव्यं भयस्स वत्ति भयहेतो ह्यात्दुष्टतिर्यङ्गमनुष्यदेवादेः, तथा आत्मोद्भवादपि नेत्याह-वाहिस्स बत्ति व्याघेः क्रमेण प्राणापहारिणः कुष्ठादेः रोगाद्वाशीघ्रतरप्राणापहारकाच्च ज्वरादे; जराया वा मृत्योर्वा अन्यस्माद्वा ताशाद्भयोत्पादकत्वेन व्याध्यादिसशाद् इष्टवियोगादेकस्मादिति, वाचनान्तरे इदमधीतं अन्यस्माद्वा एवमादीति, एतन्निगमयन्नाह-एवं धैर्येण-सत्त्वेन भावितो भवत्यन्तरात्मा-जीवः, किंविधः ? इत्याह'संजए त्यादि पूर्ववत् ४ । "पंचमगति पञ्चमकंभावनावस्त्विति गम्यते, यदुतहास्यं न सेवितव्यं-परिहासो न विधेयः, यतः अलीकानि-सद्भूतार्थनिलवरूपाणि असंतगाईति असन्ति असद्भूतार्थानि वचनानीति गम्यते अशोभनानि वा अशान्तानि वा अनुपशमप्रधानानि 'जल्पन्ति' ब्रुवते 'हासइत्त'त्ति हासवन्तः परिहासकारिणः परिभवकारणंच हास्यं-अपमाननाहेतुरित्यर्थः, परपरिवादः-अन्यदूषणाभिधानं प्रिय-इष्टो यत्र तत्तथा तद्विधं च हास्यं, परपीडाकारकंच हास्यमिति व्यक्तं, 'भेयविमुत्तिकारक चत्ति भेदः-चारित्रभेदो विमूर्तिश्च-विकृतनयनवदनादित्वेन विकृतशरीराकृतिः तयोः कारकं यत्तत्तथा, तच्च हास्यं, अथवा राजदन्तादिदर्शनाद्विमुक्तेः-मोक्षमार्गस्य भेदकारकमिति वाच्ये भेदविमुक्तिकारकमित्युक्तं, अन्योऽन्यजनितं च-परस्परकृतं च भवेद्धास्यं यतस्ततोऽन्योऽ. न्यगमनंच-परस्परस्याभिगमनीयं च भवेत्मर्म-प्रच्छन्नापारदार्यादि दुश्चेष्टितं, तथाऽन्योऽन्यगमनं च-परस्पराधिगम्यं च भवेत्कर्म- लोकनन्धजीवनवृत्तिरूपं 'कन्दप्पाभियोगगमणं च'त्ति कन्दपश्चि०कान्दर्पिका देवविशेषा हास्यकारिणो भाण्डप्राया आभियोग्याश्च-अभियोगार्हा आदेशकारिणो देवाः एतेषु गमनं गमनहेतुर्यत्तत्तथा तच्च भवेद्धास्य, अयमभिप्रायोहास्यरतिसाधुश्चारित्रलेशप्रभावाद्देवेषूत्पद्यमानः कान्दर्पिकेषु आभियोगिकेषु चोत्पद्यते न महर्द्धिकेष्विति हास्यमनायेति, आह च-- ॥१॥ "जो संजओवि एयासु अप्पसत्थासु वट्टइ कहिंचि ।। सो तब्बिहेसु गच्छइ नियमा भइओ चरणही णो॥" 'एयासु'त्ति कन्दादिभावनास्विति, तथा 'आसुरियं किब्विसततं च जणेज हासं'ति 'अरसुरियन्ति असुरभावं 'किव्विसत्तंति चाण्डालप्रायदेवविशेषत्वं वा विकल्पे जनयेत्–प्रापयेत् 731 For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192