Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
४८७
द्वार-२, अध्ययन-३, पालनं स एवार्थस्तद्भावस्तत्ता तस्यैव प्रवचन-शासनमित्यादि वक्तव्यं यावत् ‘परिरक्खण
ट्ठयाए'त्ति
'पढमति प्रथम भावनावस्तु विविक्तवसतिवासो नाम, तत्राह-देवकुलं-प्रतीतं सभामहाजनस्थानंप्रपा-जलदानस्थानंआवसथः-परिव्राजकस्थानं वृक्षमूलंप्रतीतंआरामो-माधवील ताद्युपतो दम्पतिरमणाश्रयो वनविशेषः कन्दरा-दरी आकरो-लोहाधुत्पत्तिस्थानं गिरिगुहा--प्रतीता कर्मअन्तर्यत्र सुधादि परिकर्म्यते उद्यानं-पुष्पादिमवृक्षसङ्कुलमुत्सवादी बहुजनभोग्यं यानशाला-रथादिगृहं कुपितशाला-तूल्यादिगृहोपस्करशाला मण्डपो-यज्ञादिमण्डपः शून्यगृहं श्मशानं च प्रतीतं लयनं-शैलगृहं आपणः-पण्यस्थानं एतेषां समाहारद्वन्द्वस्ततस्तत्र अन्यस्मिंश्चैवमादिके-एवंप्रकारे उपाश्रये भवति विहर्त्तव्यमिति सम्बन्धः, किंभूते? -दकं-उदकं मृत्तिका-पृथिवीकायः बीजानि-शाल्यादीनि हरितं-दूर्वादिवनस्पतिस्त्रसप्राणा-द्वीन्द्रियादयः तैरसंसक्तः-असंयुक्तो यः स तथा तत्र, यथाकृते-गृहस्थेन स्वार्थं निर्वर्त्तिते 'फासुए'त्ति पूर्वोक्तगुणयोगादेव पासुके-निर्जीवे विविक्ते-स्त्र्यादिदोषरहितेअत एव प्रशस्ते उपाश्रये वसतो भवति विहर्त्तव्ध-आसितव्यं,यादशेपुनर्नासितव्यंतथाऽसावुच्यते–'आहाकम्मबहुलेय'त्ति आधया साधूनां मनस्याधानेन साधूनाश्रित्येत्यर्थः यत्कर्म-प्रथिव्याद्यारम्भक्रिया तदाधाकर्म, आह च--
“हिययंमि समाहेउं एगमणेगं च गाहगं जंतु
वहणं करेइ दाया कायाण तमाहकम्मं तु॥" तेन बहुलः-प्रचुरस्तद्वा बहुलं यत्रसतथा, 'जे से'त्तिय एवंविध; स वर्जयितव्य एवोपाश्रय इति सम्बन्धः, अनेन मूलगुणाशुद्धस्यपरिहार उपदिष्टः, तथा 'आसिय'त्तिआसिक्तं आसेचनमीषदुदकच्छट्टक इत्यर्थः ‘संमज्जिय'त्ति सम्मार्जनं-शलाकाहस्तेन कचवरशोधनं उत्सिक्तं-अत्यर्थं जलाभिषेचनं 'सोहिय'त्ति शोभनं चन्दनमालाचतुष्कपूरणादिना शोभाकरणं 'छायण'त्ति छादनं-दर्भादिपटलकरणं 'धूमण'त्ति सेटिकया धवलनं लिंपणं'ति छगणादिना भूमेः प्रथमतो लेपनं 'अनुलिंपणं ति सकृल्लिप्ताया भूमेः पुनर्लेपनं जलणं तिशीत्यापनोदाय वैश्वानरस्य ज्वलनं शोधनार्थं वा प्रकाशकरणायवादीपप्रबोधनं भंडचालण'त्तिभाण्डादीनां-पीठरकादीनांपण्यादीनां वातत्र गृहस्थस्थापितानांसाध्वर्थंचालनं-स्थानान्तरस्थापनमेतेषां समाहारद्वन्द्वः विभक्तिलोपश्च दृश्यः ,
ततआसिक्तादिरूपः अन्तर्बहिश्च-उपाश्रयस्य मध्ये अमध्येच असंयमो-जीवविराधना यत्र-यस्मिन्नुपाश्रये वर्त्तते-भवति संयतानां-साधूनामर्थाय हेतवे 'वजेयव्यो हुत्ति वर्जितव्य एव उपाश्रयो-वसतिः स ताशः सूत्रप्रतिकुष्ट:-आगमनिषिद्धः, प्रथमभावनां निगमयत्राह-- एवमुक्तेनानुष्ठानप्रकरेण विविक्तो-लोकद्वयाश्रितदोषवर्जितो विविक्तानां वा-निर्दोषाणां वासो-निवासो यस्यां सा विविक्तावासा सा चासौ वसतिश्च विविक्तवासवसतिस्तद्विषया या समितिः-सम्यक्प्रवृत्तिस्तया यो योगः-सम्बन्धस्तेन भावितो भवत्यन्तरात्मा, किंविध इत्याह-नित्यं सदाऽधिक्रियते-अधिकारीक्रियतेदुर्गतावात्मा येनतदधिकरणं-दुरनुष्ठानं तस्य यत्करणं कारापणं च तदेव पापकर्म-पापोपादनक्रिया तयोर्विरतो यःस तथा, दत्तोऽनुज्ञातश्च योऽवग्रह:-अवग्रहणीय वस्तु तत्र रुचिर्यस्य स तथेति १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192