Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 127
________________ ४८० प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३७ एवं बितियंसंवरदारं फासियंपालियंसोहियंतीरियं किट्टियं अणुपालियंआणाए आराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं पवियं पसिद्धसिद्धवरसासणमिणं आघवितं सुदेसियं पसत्थं बितियं संवरदारं समत्तं तिबेमी।। वृ. 'इमंचे'त्यादि इमंच प्रत्यक्षप्रवचनितियोगःअलीकं असद्भूतार्थंपिशुनं-परोक्षस्य परस्य दूषणाविष्करणरूपंपरुष-अश्राव्यभाषंकटकं-अनिष्टारअतंचपलं--उत्सकतयाऽसमीक्षितं यद्वचनं वाक्यंतस्य परिरक्षणलक्षणोयोऽर्थस्तस्यभावस्तत्तातस्यैच अलीकपिशुनपरुषकटुकचपलवचनपरिरक्षणार्धतायैप्रावचन-प्रवचनं शासनमित्यर्थः, भगवताश्रीमन्महावीरेण सुष्टु कथितं सुकथितमित्यादि ‘पररक्खणछायाए'त्ति यावत् पूर्ववत्, नवरं द्वितीयस्य व्रतस्य-अलीकवचनस्येति विशेषः, 'पढमति प्रथमं भावनावस्तु अनुविचिन्त्यसमितियोगलक्षणं, तच्चैवं श्रुत्वा-आकण्य सद्गुरुसमीपे ‘संवरटुं'ति संवरस्यप्रस्तावेन मृषावादविरतिलक्षणस्य अर्थः-प्रयोजनं मोक्षलक्षणं प्रस्तुतसंवराध्ययनस्य वाऽर्थःअभिधेयस्संवरार्थस्तं, श्रवणाच्च ‘परमटुं सुटु जाणिऊणंति परमार्थं हेयोपादेयवचनैदम्पर्य सुष्टु-सम्यक् ज्ञात्वा न-नैव वेगितं-वेगवत् विकल्पव्याकुलतयेत्यर्थः वक्तव्यामिति योगः, न त्वरितं वचनचापल्यतः न कटुकमर्थतः न परुषं वर्णतः न साहसं-साहसप्रधानमतर्कितं वा न च परस्य-जन्तोः पीडाकर सावध-सपापं यत्, वचनविधिं निषेधतोऽभिधाय साम्प्रतं विधित आह-सत्यं च सदभतार्थं हितंच-पथ्यं मितं-परिमिताक्षरं ग्राहकंच-प्रतिपाद्यस्यविवक्षितारअआथप्रतीतिजनकंशुद्धं-पूर्वोक्तवचनदोषरहितं सङ्गतं उपपत्तिभिरबाधितं अकाहलंच-अमन्मनाक्षरंसमीक्षितं-पूर्वबुद्धया पर्यालोचितं संयतेन-संयमवता काले च-अवसरे वक्तव्यं नान्यथा, एवमुक्तेन भाषणप्रकारेण 'अणुवीइसमितिजोगेणं'ति अनुविचिन्त्य--पर्यालोच्य भाषणरूपा या समितिः-सम्यक्प्रवृत्तिः साऽनुविचिन्त्यसमितिः तया योगः-सम्बन्धः तद्रूपो वा व्यापारोऽनुविचिन्त्यसमितियोगस्तेन भावितो भवन्त्यन्तरात्मा जीवः, किंविधइत्याह-संयतकरचरणनयनवदनः सूरः सत्यार्जवसंपन्न इति प्रतीतमिति । _ 'बिइयं ति द्वितीयं भावनावस्तु यत्क्रोधनिग्रहणं, एतदेवाह-क्रोधो न सेवितव्यः, कस्मात्कारणादित्याह-क्रुद्धः-कुपितः चाण्डिक्यं-रौद्ररुपत्वं सञ्जातमस्येति चाण्डिक्यितो मनुष्योऽलीकंभणेदित्यादि सुगम, नवरं वैरं-अनुशयानुबन्धविकथां-परिवादरूपांशीलं-समाधि 'वेसो'त्ति द्वेष्यः-अप्रियो भवेत् एष वस्तु-दोषावासः गम्यः परिभवस्थानं, निगमनमाह-'एयंति अलीकादिकंगृह्यते, तदन्यस्य भणनक्रियाया अविषयत्वात्, अन्यच्च-उक्तव्यतिरिक्तमेवमादिकंएवंजातीयं भणेत् क्रोधाग्निसंप्रदीप्तः सन् 'तम्हे त्यादि सम्पत्रो' इत्येतदन्तं व्यक्तं २ । __ 'ततियं तितृतीयं भावनावस्तु, किं तदित्याह-लोभो न सेवितव्यः, कस्मादित्यत आहलुब्धो-लोभवान् लोलो-व्रते चञ्चलो भणेदलीकं, एतदेव विषयभेदेनाह-क्षेत्रस्य वा-ग्रामादेः कृषिभूमेर्वा वास्तुनोगृहस्य 'कएणत्ति कृते-हेतोः लुब्धो लोलो भणेदलीकं, एवमन्यान्यप्यष्टसूत्राणिनेतव्यानि, नवरंकीर्तिः ख्यातिः लोभसा-औषधादिप्राप्तेःकृते तथा ऋद्धेः-परिवारादिकायाः सौख्यस्य-शीतलच्छायादिसुखहेतोः कृते तथा शय्याया-वसते; यत्र वा प्रसारितपादैः सुप्यतेसाशय्या तस्यै संस्तारकस्यवा-अर्द्धतृतीयहस्तस्य कम्बलखण्डादेः कृते पादप्रोज्छनस्य For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192