Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं - २, अध्ययनं - २,
४७५
सिध्यन्तिति भावः स्वर्गमार्गस्य सिद्धिपथस्य च देशकं-प्रवर्त्तकं यत्तत्तथा अवितथं वितथरहितं
'तं सच्चं उज्जुगं'ति सत्याभिधानं यद् द्वितीयं संवरद्वारमभिहितं तदृजुकं ऋजुभावप्रवर्त्तितत्वात् तथा अकुटिलं अकुटिलस्वरूपत्वात् भूतः - सद्भूतोऽर्थः -- अभिधेयो यस्य तद्भूतार्थं अर्थतः - प्रयोजनती विशुद्धं - निर्दोषं प्रयोजनापन्नमिति भावः, उद्योतकरं - प्रकाशकारि, कथं यतः प्रभाषकं-प्रतिपादकं भवति केषां कस्मिन्नित्याह- सर्वभावनां जीवलोके - जीवाधारे क्षेत्रे, प्रभाषकमिति विशिनष्टि- अविसंवादि - अव्यभिचारि यथार्थमितिकृत्वा मधुरं - कोमलं यथार्थमधुरं प्रत्यक्षं दैवतमिव - देवतेव यत्तदाश्चर्यकारकं चित्तविस्मयकरकार्यकारकं तदीदृशं केषु केषामित्याह- अवस्थान्तरषु - अवस्थाविशेषेषु बहुषु मनुष्याणां यदाह"सत्येनाग्निर्भवेच्छती, गाधं दत्तेऽम्बु सत्यतः । नासिश्चिनत्ति सत्येन, सत्याद्रज्जूयते फणी ।।"
1|91|
एतदेवाह - सत्येन हेतुना महासमुद्रमध्ये तिष्ठन्ति न निमज्जन्ति, 'मूढाणियावि'त्ति मूढं-नियतदिग्गमनाप्रत्ययं 'अणियं' ति अग्रं तुण्डं अनीकं वा तत्प्रवर्त्तकं जनसैन्यं येषां ते तथा तेऽपि पोता-- बोधिस्था:, तथा सत्येन च उदकसम्भ्रमेऽपि -सम्भ्रमकारणत्वादुदकप्लवः उदकसम्भ्रमस्तत्रापि 'न बुज्झइ 'त्ति वचनपरिणामान्तोरह्यन्ते-न प्लाव्यन्ते न च म्रियन्ते स्ताधं च-गाधं च ते लभन्ते, सत्येन चाग्निसम्भ्रमेऽपि - प्रदीपनकेऽपि न दह्यन्ते, ऋजुका - आर्जवोपेताः मनुष्या - नराः सत्येन च तप्ततैलत्रपुलोहसीसकानि प्रतीतानि 'छिवंति' त्ति छुपंति धारयन्ति हस्ताञ्जलिभिरिति गम्यते न च दह्यन्ते मनुष्याः, पर्वतकटकात् पर्वतैकदेशाद् विमुच्यन्ते न च म्रियन्ते, सत्येन च परिगृहीता युक्ता इत्यर्थः असिपञ्जरे-शक्तिपञ्जरे गताः खङ्गशक्तिव्यग्रकर-रिपुरुषवेष्टिता इत्यर्थः समरादपि - रणादपि 'निंति' त्ति निर्यान्ति-निर्गच्छन्ति, अनघाश्च - अक्षतशरीरा इत्यर्थः,
+
के इत्याह सत्यवादिनः - सत्यप्रतिज्ञाः वदबन्धाभियोगवैरधोरेभ्यः - ताडनसंयमनबलात्कारघोरशात्रवेभ्यः प्रमुच्यन्ते अमित्रमध्यात् शत्रुमध्यान्निर्यान्ति अनघाश्च निर्दोषाः सत्यवादिनः, सादेव्यानि च-- सान्निध्यानि च देवताः कुर्वन्ति सत्यवचनरतानां, आह च-119 11 “प्रियं सत्यं वाक्यं हरति हृदयं कस्य न जने ?, गिरं सत्यां लोकः प्रतपदमिमार्थयति च । सुराः सत्यद्वाक्याद्दतति मुदिताः कामिकफलमतः सत्याद्वाक्याद्रतमभिममतं नास्ति भुवने ।।"
'त' मिति यस्मादेवं तस्मात्सत्यं द्वितीयं महाव्रतं भगवद्-भट्टारकं 'तीर्थकरसुभाषितं' जिनैः सुष्हूक्तं दशविधं - दशप्रकारं जनपदसम्मतसत्यादिभेदेन दशवैकालिकादिप्रसिद्धं चतुर्द्दशपूर्विभिः प्राभृतार्थवेदितं पूर्वगतांशविशेषाभिधेयतया ज्ञातं महर्षीणां च समयेन- सिद्धान्तेन 'पइन्नं'ति प्रदत्तं समयप्रतिज्ञा वा- समाचारभ्युपगमः, पाठान्तरे 'महरिसिसमय पइन्नचिन्नं'ति महर्षिभिः समयप्रतिज्ञा- सिद्धान्ताभ्युपगमः समाचाराभ्युपगमो वेति चरितं यत्तत्तथा, देवेन्द्रनरेन्द्रैर्भाषितः जनानामुक्तोऽर्थः - पुरुषार्थस्तसत्साध्यो धर्मादिर्यस्य तत्तथा, अथवा देवेन्द्रनरेन्द्राणां भासितः - प्रतिभासितोऽर्थः - प्रयोजनं यस्य तत्तथा, अथवा देवेन्द्रा दीनां भाषिताः अर्था-जीवदयो जिवनचनरूपेण येन तत्तथा, तथा वैमानिकानां ससाधितं प्रतिपादितमुपा देवतया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192