Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 67
________________ ४२० प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६ वेदनया दुर्घटया-दुराच्छादया घट्टिताः-स्पृष्टा येतेतथा, विवर्णमुखं विरूपाचछवी-शरीरत्वक् येषां ते विवर्णमुखविच्छविकाः ततोऽनुबद्धेत्यादिपदानां कर्मधारयः, तथा विफला-अप्राप्तेप्सितार्थाः मलिनाः-मलीमसा दुर्बलाश्च-असमर्था ये ते तथा, क्लान्ता-ग्लानाः तथा काशमाना-रोगविशेषात् कुत्सितशब्दं कुर्वाणाः व्याधिताश्च-- सञ्जातकुष्ठादिरोगाःआमेन-अपक्वरसेनाभिभूतानि गात्राणि-अङ्गानि येषांतेतथा, प्ररूढानिवृद्धिमुपगतानि बद्धत्वेनासंस्कारात् नखकेशश्मश्रुरोमाणि येषा ते तथा, तत्र केशाः-शिरोजाः श्मश्रूणि कूर्चरोमाणिशेषाणितुरोमाणीति, छगमुत्तमित्तिपुरीषमूतरे निजकेषुखुत्तत्ति-निमग्नाः तत्रैव-चारकबन्धनेन मृताअकामकाः-मरणेऽनभिलाषाः, ततश्च बद्धा पादयोराकृष्टाः खातिकायां 'छूढ'त्ति क्षिप्ताः, तत्रतुखातिकायां वृकशुनकर गालकोलमारिवृन्दस्यसंदंशकतुण्डपिगणस्य च विविधमुखशतैर्विलुप्तानि गात्राणियेषांते तथा, कृताविहितावृकादिभिरेव विहंग'त्ति विभागः खण्डदशः कृता इत्यर्थः केचिद्-अन्ये किमिणा यत्ति कृमिवन्तश्च कुथितदेहाइति प्रतीतं, अनिष्टवचनैः शाप्यमानाः-आक्रोश्यमानाः, कथमित्याह-सुष्टु कृतं तत्कदर्थनमिति गम्यते यदिति यस्मात्कदर्थनान्मृतः पाप इति, अथवा सुष्ठु कृतं-सुष्टुं सम्पन्नं यन्मृत एष पाप इति, तथा तुष्टेन जनेन हन्यमाना लज्जामापयन्ति-प्रापयन्तीनि लज्जापनास्त एव कुत्सिता लज्जापनका लज्जावहा इत्यर्थः, ते च भवंति-जायन्ते न केवलमन्येषां ? स्वजनस्यापि च दीर्घकालं यावदिति, तथा मृताः सन्तःपुनर्मरणानन्तरं परलोकसमापन्नाः-जन्मान्तरसमापन्नाः निरये गच्छन्ति निरभिरामे, कथम्भूते ? अङ्गाराश्च प्रतीताः प्रदीप्तकं च-प्रदीपनकं तत्कल्पः तदुपमो यः अत्यर्थशीतवेदनश्वासातेन कर्मणा उदीरणानि-उदजीरितानि सततानि-अविच्छिन्नानि यानि दुःखशतानि तैः समभिभूतश्च-उपद्रुतो यः सतथा ततस्ततोऽपि नरकादुद्ववृताः पुनरपि प्रपद्यन्ते तिर्यग्योनि, तत्रापि नरयोपमामनुभवन्ति वेदनां ते-अनन्तरोदितादत्तग्राहिणः, अनन्तकालैन यदि नाम कथञ्चिन्मनुजभावं लभन्ते इति व्यक्तं, कथमित्याह-नैकेषु-बहुषु निरयगतौयानिगमनानि तिरश्चां च ये भवास्तेषां ये शतसहनसङ्ख्याः परिवस्तेि तथा तेष्वतिक्रान्तेषु सत्स्विति गम्यते, तत्रापि च-मनुजत्वलाभे भवन्ति-जायन्ते अनार्याः-शकयवनबर्बरादयः, किम्भूताः ? - नीचकुलसमुत्पत्राः,तथा आर्यजनेऽपि मगधादौ समुत्पन्नाइति शेषः लोकतबाह्या--जनवर्जनीया भवन्तीति गम्यं, तिर्यग्भूताश्च पशुकल्पा इत्यर्थः, कथमित्याह-अकुशलाः-तत्त्वेषु अनिपुणाः कामभोगतृषिता इति व्यक्तं, 'जहिंति नरकादिपरिवृत्तौ तत् मनुजत्वं लभते यत्र निबध्नन्तिचिन्तवन्ति निरयवर्त्तिन्यां-नरकमार्गे भवप्रपञ्चकरणेन-जन्मप्राचुर्यकरणेन ‘पणोल्लित्तिप्रणोदीनि तप्रवर्तकानि तेषां जीवानामिति हदयं यानि तानि तथा, अत्र द्वितीयाबहुवचनलोपो द्रष्टव्यः, पुनरपिआवृत्त्या संसारो-भवो नेमत्ति-मूलं येषांतानि तथा दुःखानीति भावः तेषां यानि मूलानि तानि तथा, कर्माणीत्यर्थः, तानि निबध्नन्तीतिप्रकृतं, इहच मूलाइंतिवाच्ये मूल इत्युक्तंप्राकृतत्वेन लिङ्गव्यत्ययादिति, किम्भूतास्ते मनुजत्वे वर्तमाना भवन्तीत्याह धर्मश्रुतिविवर्जिताः धर्मशास्त्रविकला इत्यर्थः अनार्याःआर्येतराः क्रूरा-जीवोपघातोपदेशकत्वात् क्षुद्रा तथा मिथ्यात्वमथाना-विपरीततत्त्वोपदेशका श्रुतिः-सिद्धान्तस्तां प्रपन्नाः-अभ्युपगता येते तथा ते च भवन्तीति, एकान्तदण्डरूचकःसर्वथा हिंसनश्रद्धा इत्यर्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192