Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 77
________________ ४३० प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ भवनपतिदेवावासो विमानं-वैमानिकनिवासः तुरहगस्तोरणं गोपुरं च प्रसिद्धानि मणिःचन्द्रकान्तादिरत्नं-कर्केतनादि नन्द्यावर्तो-नवकोणः स्वस्तिकविशेषः मुशवलं लागलंच प्रसिद्ध सुरचितः-सुष्टुकृतःसुरतिदोवा-सुखकरोयोवरः कल्पवृक्षः-कल्पद्रुमः स तथा मृगपतिः-सिंहो भद्रासनं-सिंहासनं सुरूची रूढिगम्या आभरणविशेष इति केचित् स्तूपः-प्रतीतः वरमुकुटंप्रवरशेखरः 'सरिय'तिमुक्तावली कुण्डलं कर्णाभरणं कुञ्जरोवरवृषभश्च प्रतीतौ द्वीपो-जलभृतो भूदेशो मन्दरो-मेरुः मन्दिरंवागृहं गरुडः-सुपर्णः ध्वजः-केतुः इन्द्रकेतुःइन्द्रयष्टिः दर्पणआदर्सः अष्टापदं-धूतफलकं कैलाशः पर्वतविशेषो वाचापंच-धनुः बाणो-मार्गणः नश्रत्रं मेघश्च प्रतीतौ मेखला-काञ्ची वीणा-प्रतीता युगं-यूपः छत्रं-प्रतीतं दाम--माला दामिनी--लोकरूढिगम्या __-कमण्डलुः-कुण्डिका कमलंघण्टाचप्रतीतेवरपोतो-बोधित्यः शूची-प्रतीता सागरःसमुद्रः कुमुदाकर:-कुमुदखण्ड: मकरो-जलचरविशेषः हारः-प्रतीतः 'गागर'त्ति स्त्रीपरिधानविशेषः नूपुरं--पादाभरणं नगः-पर्वतो नगरंप्रतीतं वैरं-वज्रं किन्नरो-वाद्यविशेषो देवविशेषो वामयूरवरराजहंससारसचकोरचक्रवाकमिथुनानि प्रसिद्धानिचामरं-प्रकीर्णकं खेटकं-फवलकं पव्वीसकं विपञ्ची वाद्यविशेषौ वरतालवृन्तं-व्यञ्जनविशेषः श्रीकीभिषेको-- लक्ष्म्यभिषेचनं मेदिनी-पृथ्वी खगः-असिअडशश्च-सृणिविमलकलशो भृङ्गराश्च भाजनविशेषः वर्द्वमानकं-शरावं पुरुषारूढः पुरुषो वा एतेषां द्वन्द्वः तत एतानि प्रशस्तानि--माङ्गल्यानि उत्तमानि-प्रधानानि विभक्तानि च-विविक्तानि यानि वरपुरुषाणां लक्षणानि तानि धारयन्ति येते तथा, तथा द्वात्रिंशता राजवराणांसहनैरनुयातः-अनुगतोमार्गोयेषांतेतथा, चतुःषष्टिःसहस्राणि यासांतास्तथाताश्चताःप्रवरयुवतयश्च-तरुण्यइति समासःतासांनयनकान्ताः-लोचनाभिरामाः परिणयनभर्तारो वा रक्ता लोहिता आभा-प्रभा येषां ते रक्ताभाः ‘पउमपम्ह'त्ति पद्मगर्भाः कोरण्टकदाम-कोरण्टकाभिधानपुष्पम्नक्चम्पकः-कुसुमविशेषः सुतप्तवरकनकस्य योनिकषोरेखा स तथा तत एतेषामिव वर्णो येषां ते तथा, सुजातानि-सुनिष्पन्नानि सर्वाण्यङ्गानि-अवयवा यत्र तदेवंविधं सुन्दरमशू-शरीरं येषां ते तथा महार्धाणि महामूल्यानि वरपत्तनोगतानि-प्रवरक्षेत्रविशेषोत्पन्नानि विचित्ररागाणिविविधरागरञ्जितानि एणी-हरिणीप्रेणीच-तद्विशेष एव तन्त्रर्मनिर्मितानि यानि वस्त्राणि तानि एणीप्रेणीनिर्मितानि उच्यन्ते, श्रूयन्ते च निषीथे 'कालमृगाणि नीलमृगाणि चे'त्यादिभिवचनैर्मृगचर्मवस्त्राणीति, तथा दुकूलानीतिदुकूलो-वृक्षविशेषस्तस्य वल्कंगृहीत्वा उदूखले जलेन सह कुट्टयित्वाबुसीकृत्य सूत्रीकृत्य चवूयन्तेयानितानिदुकूलानिवरचीनानीति-दुकूलवृक्षवल्कस्यैव यानि अभ्यन्तरहीरैर्निष्पाद्यन्ते सूक्ष्मतराणि च भवति तानि चीनदेशोत्पन्नानि वा चीनान्युच्यन्ते, पट्टसूत्रमयानि-पट्टानि कौशेयकानि-कौशेयककारोद्भवानिवस्त्राणि श्रोणीसूत्रकं-कटीसूत्रकं एभिर्विभूषितान्यङ्गानि येषां ते तथा, वाचनान्तरे निर्मितस्थाने क्षोमिक इति पठ्यते, तत्र क्षौमिकाणि-कासिकानि वृक्षेभ्यो निर्गतानीत्यन्ये अतसीमयानीत्यपरे, तथा वरसुरभिगन्धाः-प्रधानमनोज्ञपुटपाकलक्षणा गन्धाः तथा वरचूर्णरूपावासास्ताडिता इत्यर्थः वरकुसुमानि च प्रतीतानि तेषां भरितानि-भृतानि शिरांसि-मस्तकानि येषां ते तथा, कल्पितानि-ईप्सितानि छेकाचार्येण- निपुणशिल्पिना सुकृतानि-सुष्टु विहितानि रतिदानि-- Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192