Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
४५०
प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/२०
दर्शितेषु राजसु रागमकुर्वती तूर्यवादकानां मध्ये व्यवस्थितेन समुद्रविजयादीनामनुजेन देशान्तरसञ्चारिणा तत्रायातेन वसुदेवेन राजसूनुना पाणविकाकारं बिभ्रता॥१॥ मुग्धमृगनयनयुगले ! शीघ्रमिहागच्छ मैव चिरयस्य ।
कुलविक्रमगुणशालिनि ! त्वदर्थमहमागतो यदिह ॥ इत्यक्षरानुकारिध्वनौ प्रवादिते पणवे समुत्फुल्ललोचना सञ्जातानुरागा सरभसमुपश्रुत्य स्वहस्तेन वसुदेवस्य गले मालामवलम्बितवती, ततस्ते राजानईशिल्यवितुद्यमानमानसा वसुदेवेन सार्द्धसङ्ग्रामायोपतस्थुः, तेन च रणरङ्गरसिकेन सर्वान् विनिर्जित्य रोहिणी परिणीता, जातश्च तस्या रामाभिधानो बलदेवः सूनुरिति ।
अन्येषु च एवमादिकेषु-एवंप्रकारेषु बहवः सङ्ग्रामा इति सम्बन्धः महिलाकृतेषुस्त्रीप्रयोजनेष श्रयन्ते अतिक्रान्ताः-अतीताः सङ्ग्रामाः ग्रामधर्ममूलाः-विषयहेतवः, ते चाब्रह्मसेविन इहलोकेतावनष्टाः परदाराभिगमनेनाकीर्तिप्राप्तेः तथा परलोकेऽपिच नष्टाः, किम्भूता इत्याह
'महयामोहतमिसंधयारे'त्ति महामोह एव तमिान्धकारं-अत्यन्ततमो यत्र स तथा तत्र घोरे- दारुणे, केषु जीवस्थानेषु नष्टा इत्याह-त्रसस्थानवरसूक्ष्मबादरेषु समयप्रसिद्धेषु पर्याप्तकापर्याप्तकसाधारणशरीरप्रत्येकशरीरेषुचसमयप्रसिद्धेष्वेव तथा अण्डजाः-पक्षिमत्स्यादयः पोतमिव-वस्त्रमिवजरायुवर्जितत्वेन पोतादिव वा-बोधित्थादिव जाताः पोतजा-हस्त्यादयः ते च जरायुः--गर्भवेष्टनंतत्र जाताः जरायुजाः-मनुष्यादयः तेच रसे-तीमनारनालादौ जाता रसजाः तेच संस्वेदेन निर्वृत्ताः संखेदिमा-यूकामत्कुणादयः तेचसम्मूञ्जेन निर्वृत्ताः सम्मूर्छिमाः-दर्दुरादयस्ते च उद्भिद्य भुवं जाता उद्भिज्जाः-स्वञ्जनकादयः तेच उपपाते भवा औपपातिका–देवनारकास्ते चेति द्वन्द्वोऽतस्तेषु च, एतानेव सङ्ग्राहेणाह-नरकतिर्यग्देवमनुष्येषु जरामरणरोगशोकबहुले परलोके चेति प्रकृतं, कियन्तं कालं यावत्ते तत्र नष्टा भवन्तीत्युच्यते-पल्योपमसागरोपमाणि बहूनीति गम्यते, तथा अनादिकमनवदनं अनन्तं, एतदेवाह-'दीहमद्धति दीर्घाद्धं दीर्घकलं दीर्घाध्वं वा-दीर्घमार्गं चातुरंतं-चतुर्गतिकं संसारकान्तारं अनुपरिवर्तन्ते जीवा महामोहवशेन सन्निविष्टा अब्रह्मणि ये ते तथा, ‘एसो' इत्यादि पूर्ववदिति ॥
अधर्मद्वारे - अध्ययनं -- ४ - समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणअगसूत्रे अधर्मद्वारे चतुर्थअध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता ।
___-अधर्मद्वारे - अध्ययनं -- ५ - परिग्रह :वृ. अथ परमं व्याख्यायते--अस्य चैवं पूर्वेण सहाभिसम्बन्धः -अनन्तराध्ययने अब्रह्मस्वरूपमुक्तं, तच्च परिग्रहे सत्येव भवतीति परिग्रहस्वरूपमत्रोच्यते इत्येवंसम्बन्धस्यास्येदं परिग्रहस्वरूपप्रतिपादनप्रस्तावनापरमादिसूत्रम्
मू. (२१) जंबू ! इत्तो परिग्गहो पंचमो उ नियमा नानामणिकणगरयणमहरिहमोमलमपुतदारपरिजण दामीदासभयगपेसहयगयगोमहिसउट्टखरअयगवेलगसीयासगडाजाणजगारंदणसवणासणवाहणकृवियधणधन्नपाणभोयणाच्छायणगंधमल्लभायणभवणविहिं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192