Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 114
________________ द्वारं-२, अध्ययनं -१, ४६७ अनवद्यः उच्छो-भैक्ष्यं गवेषयितव्यः - अन्वेषणीयः, इह चोञ्छशब्दस्य पुंल्लिङ्गत्वेऽपि प्राकृतत्वात् नपुंसकलिङ्गनिर्देशो न दोषायेति, उञ्छमेव विशेषयन्नाह - 'अकय' मित्यादि, अकृतः साधवर्थं दायकेन पाकतो न विहितः 'अकारिय'ति न चान्यैः कारितः 'अणाहूय'त्ति अनाहूतो गृहस्थेन साधारनिमन्त्रणपूर्वकं दीयमानः 'अनुद्दिट्ठो' यावन्तिकादिभेदवर्जितः 'अकीयकडं' तिन क्रीयते-नक्रयेण साध्वर्थं कृतः अक्रीतकृतः, एकदेव प्रपञ्चयति-नवभिश्च कोटिभिः सुपरिशुद्धः, ताश्चेमा ः- नहंति १ न घातयति २ घ्नन्तं नानुजानाति ३ न पचति ४ न पाचयति ५ पचन्तं नानुजानाति ६ न क्रीणाति ७ न क्रापयति ८ क्रीणन्तं नानुजानाति ९, तथा दशभिर्दोषैर्विप्रमुक्तः, ते चामी ॥ १ ॥ “ संकिय १ मक्खिय २ निक्कित्त ३ पिहिय ४ साहरिय ५ दायगु ६ म्मीसे ७ 1 अपरिणय ८ लित्त ९ छद्दिय १० एसणदोसा दस हवन्ति ॥" 'उग्गमुप्पायनेसणासुद्धं' ति उद्गमरूपा च या एषणा- गवेषणा तया शुद्धो यः स तथा, तत्रोदगमः षोडशविधः, आह च 119 11 “आहाकम्मु १ सय २, पूइकम्मे य ३ मीसजाए य ४ । ठवणा ५ पाहुडियाए ६, पाओयर ७कीय ८ पामिच्चे ९ ॥ परियट्टिए १० अभिहडे ११, उब्मिन्न १२ मालोहडे इय १३ । अच्छि १४ अनिसिठ्ठे १५, अज्झोयरए १६ य सोलसमे ॥” उत्पादनाऽपि षोडशविधैव, आह च ॥२॥ ॥ १ ॥ “धाई १ दूइ २ निमित्ते ३ आजीव ४ वणीमगे ५ तिमिच्छा य ६ । कोहे ७ माणे ८ माया ९ लोभे य १० हदंति दस एए ॥ ।। २ ।। पुवि पच्छा संथव ११-१२ विजा १३ मंते य १४ चुण्णजोगे य १५ । उपायणाय दोसा सोलसमे मूलकम्मे य १६ ॥” 'ववगयचुयचइयचत्त देह' त्ति व्यपगताः - स्वयं पृथग्भूताः देयवस्तुसम्भवा आगन्तुका वा कृम्यादयः च्युता - मृताः स्वतः परतो वा देयवस्त्वात्मकाः पृथिवीकायिकादयः 'चइय' त्ति त्याजिताः देयद्रव्यात् पृथक्कारिताः दायकेन 'चत्त' त्ति स्वयमेव दायकेन त्यक्ताः देयद्रव्यात् पृथक्कृता देहाःअभेदविवक्षया देहिनो यस्मादुञ्छात् स तथा सच, किमुक्तं भवति ? - प्राशुकश्च - प्रगतप्राणिकः, वृद्धव्याख्या पुनरेवम् - विगतः - ओघतः चेतनापर्यायदचेतनत्वं प्राप्तः च्युतो - जीवनादिक्रियाभ्यो भ्रष्टः च्यावितः - ताभ्य एव आयुः क्षयेण भ्रंशितः त्यक्तदेहः - परित्यक्तजीवसंसर्गसशक्तिजनिताहारादिपरिणामप्रभवोपचय इति, उत्पादनादोषविवर्जित्वं प्रपञ्चयन्नाह - 'न निसज्ज कहापओयणक्खासुओणीयं' न-नैव निषद्य - गोचरगत आसने उपविश्य कथाप्रयोजनं-धर्मकथाव्यापारं यत्करोति तन्निषद्यकथाप्रयोजनं तस्मात् आख्याश्रुताच्च–आख्यानकप्रतिबद्धशुर्तात् दायकावर्जनार्थं नटेनेव प्रयुक्तात् यदुपनीतं-दायकेन दानार्थमुपहितं तत्तथा, भैक्षं गवेषयितव्यमिति सम्बन्धः, न-नैव चिकित्सा च-रोगप्रतिकारी मन्त्रश्च चेटिकादिदेवाधिष्ठिताक्षरानुपूर्वी मूलंकृताञ्जल्याद्योषधिमूलं भैषजं च द्रव्यसंयोगरूपं हेतुः - कारणं लाभापेक्षया यस्य भैक्षस्य तत्तथा For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192