________________
द्वारं-२, अध्ययनं -१,
४६७
अनवद्यः उच्छो-भैक्ष्यं गवेषयितव्यः - अन्वेषणीयः, इह चोञ्छशब्दस्य पुंल्लिङ्गत्वेऽपि प्राकृतत्वात् नपुंसकलिङ्गनिर्देशो न दोषायेति, उञ्छमेव विशेषयन्नाह -
'अकय' मित्यादि, अकृतः साधवर्थं दायकेन पाकतो न विहितः 'अकारिय'ति न चान्यैः कारितः 'अणाहूय'त्ति अनाहूतो गृहस्थेन साधारनिमन्त्रणपूर्वकं दीयमानः 'अनुद्दिट्ठो' यावन्तिकादिभेदवर्जितः 'अकीयकडं' तिन क्रीयते-नक्रयेण साध्वर्थं कृतः अक्रीतकृतः, एकदेव प्रपञ्चयति-नवभिश्च कोटिभिः सुपरिशुद्धः, ताश्चेमा ः- नहंति १ न घातयति २ घ्नन्तं नानुजानाति ३ न पचति ४ न पाचयति ५ पचन्तं नानुजानाति ६ न क्रीणाति ७ न क्रापयति ८ क्रीणन्तं नानुजानाति ९, तथा दशभिर्दोषैर्विप्रमुक्तः, ते चामी
॥ १ ॥ “ संकिय १ मक्खिय २ निक्कित्त ३ पिहिय ४ साहरिय ५ दायगु ६ म्मीसे ७ 1 अपरिणय ८ लित्त ९ छद्दिय १० एसणदोसा दस हवन्ति ॥"
'उग्गमुप्पायनेसणासुद्धं' ति उद्गमरूपा च या एषणा- गवेषणा तया शुद्धो यः स तथा, तत्रोदगमः षोडशविधः, आह च
119 11
“आहाकम्मु १ सय २, पूइकम्मे य ३ मीसजाए य ४ । ठवणा ५ पाहुडियाए ६, पाओयर ७कीय ८ पामिच्चे ९ ॥ परियट्टिए १० अभिहडे ११, उब्मिन्न १२ मालोहडे इय १३ । अच्छि १४ अनिसिठ्ठे १५, अज्झोयरए १६ य सोलसमे ॥” उत्पादनाऽपि षोडशविधैव, आह च
॥२॥
॥ १ ॥ “धाई १ दूइ २ निमित्ते ३ आजीव ४ वणीमगे ५ तिमिच्छा य ६ । कोहे ७ माणे ८ माया ९ लोभे य १० हदंति दस एए ॥
।। २ ।। पुवि पच्छा संथव ११-१२ विजा १३ मंते य १४ चुण्णजोगे य १५ । उपायणाय दोसा सोलसमे मूलकम्मे य १६ ॥”
'ववगयचुयचइयचत्त देह' त्ति व्यपगताः - स्वयं पृथग्भूताः देयवस्तुसम्भवा आगन्तुका वा कृम्यादयः च्युता - मृताः स्वतः परतो वा देयवस्त्वात्मकाः पृथिवीकायिकादयः 'चइय' त्ति त्याजिताः देयद्रव्यात् पृथक्कारिताः दायकेन 'चत्त' त्ति स्वयमेव दायकेन त्यक्ताः देयद्रव्यात् पृथक्कृता देहाःअभेदविवक्षया देहिनो यस्मादुञ्छात् स तथा सच, किमुक्तं भवति ? - प्राशुकश्च - प्रगतप्राणिकः, वृद्धव्याख्या पुनरेवम् - विगतः - ओघतः चेतनापर्यायदचेतनत्वं प्राप्तः च्युतो - जीवनादिक्रियाभ्यो भ्रष्टः च्यावितः - ताभ्य एव आयुः क्षयेण भ्रंशितः त्यक्तदेहः - परित्यक्तजीवसंसर्गसशक्तिजनिताहारादिपरिणामप्रभवोपचय इति,
उत्पादनादोषविवर्जित्वं प्रपञ्चयन्नाह - 'न निसज्ज कहापओयणक्खासुओणीयं' न-नैव निषद्य - गोचरगत आसने उपविश्य कथाप्रयोजनं-धर्मकथाव्यापारं यत्करोति तन्निषद्यकथाप्रयोजनं तस्मात् आख्याश्रुताच्च–आख्यानकप्रतिबद्धशुर्तात् दायकावर्जनार्थं नटेनेव प्रयुक्तात् यदुपनीतं-दायकेन दानार्थमुपहितं तत्तथा, भैक्षं गवेषयितव्यमिति सम्बन्धः,
न-नैव चिकित्सा च-रोगप्रतिकारी मन्त्रश्च चेटिकादिदेवाधिष्ठिताक्षरानुपूर्वी मूलंकृताञ्जल्याद्योषधिमूलं भैषजं च द्रव्यसंयोगरूपं हेतुः - कारणं लाभापेक्षया यस्य भैक्षस्य तत्तथा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International