________________
४६६
प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३४
प्रशान्तजीविभीः बहिर्वृत्त्यपेक्षया, विविक्तैः-दोषविकलैर्भक्तादिभिर्जीवन्ति ये ते विविक्तजीवनिनस्तैः, अक्षीरमधुसर्पिष्कैः-दुग्धक्षौद्रघृतवर्जकैः ‘ठाणाइएहिंति स्थानं-ऊर्ध्वस्थानं निषीदनस्थानं त्वग्वर्तनस्थानं तदभिग्रहविशेषेणाददति-विदधति येते तथा तै;,
एतदेव प्रपञ्चयति-'प्रतिमास्थायिभिः' प्रतिमया-कायोत्सर्गेण भिक्षुप्रतिमया वा मासिक्यादिकया तिष्ठन्ति ये ते तथा तैः, स्थानमुत्कटुकं येषां ते स्थानोत्कटुकास्तैः वीरासनंभून्यस्तापादस्यसिंगासनोपवेशनमिव तदस्तियेषांते वीरासनिकास्तैः निषधासमपुतोपवेशनादिका तया चरन्तीति नैषधिकास्तैः, दण्डस्येवायत् संस्थानंयेषामस्तितेदण्डातिकास्तैः, लगंडं-दुःसंस्थितं काष्ठं तद्वच्छिरःपार्णीनां भूलग्नेन शेरते ये ते लगण्डशायिनस्तैः, उक्तं च॥१॥ "वीरासणं तुसीहासणे व्व जह मुक्कजाणुग निविट्ठो।
दंडगलगंडउवमा आयत कुञ्ज य दोण्हपि ।।" एक एव पार्यो भूम्या सम्बध्यते येषां न द्वितीयेन पाइँन भवन्तीत्येकपालिकास्तैः, आतापनैः-आतापनाकारिभिरिति, आतापना च त्रिविधा, यत आह॥१॥ “आयावणा उतिविहा उक्कोसा मज्झिमा जहन्ना य ।
उकोसा उ निवन्ना निसन मज्झा ठिय जहन्ना।" अनावृत्तैः-प्रावरणवर्जितैः ‘अनिट्ठभएहिंति अनिष्ठीवकैर्मुखश्लेष्मणोऽपरिष्ठापकैः 'अकण्डूयकैः' अकण्डूयनकारकैः ‘धूतकेशश्मश्रुरोमनखैः' धूताः-संस्कारापेक्षया त्यक्ताः केशाःशिरोजाः श्मश्रूणि-कूर्चाः केशाः रोमाणि-कक्षादिलोमानि नखाश्वप्रसिद्धायैस्तेतथातैः सर्वगात्रप्रतिकर्मविप्रमुक्तैः अभ्यङ्गादिवर्जनात् ‘समणुचिन्न'त्ति समनुचार्णाआसेवितेत्यर्थः, तथा श्रुतधराःसूत्रधराः विदितोऽर्थकायः-अर्थराशिःश्रुताभिधयोययासातथासा विदितार्थकाया बुद्धिःमतिर्येषां तेतथाततः कर्मधारय श्रुतधरविदितार्थकायबुद्धयस्तैसमनुपालितेतिसम्बन्धः, तथाधीरा-स्थिरा अक्षोभा वा मतिः-अवग्रहादिका बुद्धिश्चा-उत्पत्तित्यादिका येषां ते तथा, तेच येते इत्युद्देशः,
आशीविषा-नागास्ते च ते उग्रतेजसश्च-तीव्रप्रभावास्तीव्रविषा इत्यर्थः तत्कल्पाः-- तत्सदृशाः शापेनोपघातकारित्वात्, तथा निश्चयो-वस्तुनिर्णय व्यवसायः-पुरुषकारस्तयोः पर्याप्तयोः-परिपूर्णयोः कृता-विहिता मतिः-बुद्धिर्यैस्ते तथा, पाठान्तरेण निश्चयव्यवसायौ विनीतौ-आत्मानि प्रापितो यैः पर्याप्ता च-कृता मतिर्यैस्ते तथा, नित्यं-सदा स्वाध्यायोवाचनादिध्यानं च-चित्तनिरोधरूपं येषां ते तथा, ध्यानविशेषोपदर्शनार्थमाह-अनुबद्धं-सत्तं धर्मध्यानं आज्ञाविचयादिलक्षणं येषां तेऽनुबद्धधर्मध्यानाः ततः कर्मधारयः, पञ्चमहाव्रतरूपं यच्चरित्रं तेन युक्ता ये ते तथा, समिताः-सम्यक्प्रवृत्ताः समितिषश्वीर्यासमित्यादिषु शमितपापाः--क्षपितकिल्विषाःषड्विधजगद्वत्सलाः-षड्जीवनिकायहिताः 'निश्चमप्पमत्ता' इति कण्ठ्यं 'एएहि अत्ति ये ते पूर्वोक्तगुणा एतैश्चान्येश्चानुकूललक्षणैर्गुणवमिर्याऽसावनुपालिता भवगती अहिंसा प्रथमं संवरद्वारमिति हृदयं ।
अथाहिंसापालनोद्यतस्य यद्विधेयं तदुच्यते-'इमं चेत्यादि, अयं च वक्ष्यमाणविशेषण उञ्छो गवेषणीयइतिसम्बन्धः, किमर्थमतआह-पृथिव्युदकाग्निमारुततरुगणत्रसस्थावरसर्वभूतेषु विषये या संयमदया-संयमात्मिका घृणा न तुमिथ्याशामिव बन्धात्मिका तदर्थं तद्धेतोःशुद्धः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org