SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ द्वार-२, अध्ययनं-१, ४६५ नसिकाः,स्वार्थानीतभक्तेन लक्षमपि तृप्तितो भोजयतां यावदात्मना न तद्भुक्तं तावन्न क्षीयते तयेषां ते इति भावना, अतस्तैः, तथाऽतिशयचरणाच्चारणा-विशिष्टाकाशगमनलब्धियुक्ताः ते चजकाचारणा विद्याचारणाश्चेति, इह गाथाः “अइसयचरणसमत्था जंघाविजाहि चारणा मुणओ। जंघाहि जाइ पढमो निस्सं काउं रविकरेवि ।। ॥२॥ एगुप्पाएण गओ रुयगवरंमि उ ततो पडिनियत्तो । बीएणं नंदीसरमिहं तओ एइ तइएणं ।। ॥३॥ पढमेण पंडगवनं बिइउप्पाएण नंदनं एइ । तइउप्पाएण तओ इव जंघाचारणो एइ ।। ॥४॥ पढमेण माणुसोत्तरगणं स नंदीसरं बिईएणं । एइ तओ तइएणं कयचेइयवंदणो इहई ।। पढमेण नंदनवने बीउप्पाएण पंडगवणम्मि । एइ इहं तइएणं जो विजाचारणो होइ॥" 'चउत्थभत्तिएहिं' इह एवं यावत्करणात् 'छ?भत्तिएहिं अट्ठमभत्तिएहिं एवं दुसमदुवावलसचोद्दससोलसअद्धमासमासदोमासतिमासचउमास पंधमासा' इति द्रष्टव्यं, उत्क्षिप्तं-- पाकपिठरादुद्ध तमेव चरन्ति-गवेषयन्ति ये ते उत्क्षिप्तचरकाः, एवं सर्वत्र, नवरं निक्षिप्तंपाकस्थालीस्थं अन्तं-वल्लचरणकादि प्रान्तं तदेवभुक्तावशेष पर्युषितं वा रूक्षं निःस्नेहं समुदानभैक्ष्यं 'अन्नतिलाएहिति दोषान्नभोजिभिः 'मौनचरकैः' वाचंयमैः, संस्पृष्टेन हस्तेन भाजनेन च दीयमानमन्नादि ग्राह्यमित्येवंरूपः कल्कः-समाचारो येषां ते संसृष्टकल्पिकास्तैः, यत्प्रकारं देयं द्रव्यं तज्जातेन-तत्प्रकारेणद्रव्येण ये संसृष्टे हस्तभाजने ताभ्यां दीयमानं ग्राह्यमित्येवंरूपः कल्पःसमाचारो येषां ते तज्जातसंसृष्टकल्पिकास्तैः, उपनिधिना-प्रत्यासत्त्या चरन्ति-प्रत्यासन्नमेव गृह्णन्ति येते औपनिधिकाः तैः 'शुद्धैषणिकाः' शङ्कितादिदोषपरिहारचारिणस्तैः सङ्ख्याप्रधानाभिः पञ्चदादिपरिमाण-वतीभिर्दत्तिभिःसकृद्भक्तादिपात्रपातलक्षणाभिश्चरन्ति ये ते सङ्ख्यादत्तिकास्तैः, दत्तिलक्षणं चैतत्-- ॥१॥ “दत्तीओ जत्तिए वारे, खिवई होंति तत्तिया। अब्बोछिन्ननिवायाओ, दत्ती होति दवेतरा ।।" दृष्टिलाभिकाः-येश्यमानस्थानादानीतं गृह्णन्ति, अष्टिलाभिकाये अष्टपूर्वेण दीयमानं गृह्णह्वन्ति, पृष्टलाभिका ये कल्पते इदं इदं च भवते साधो ! इत्येवं प्रश्नपूर्वकमेव लब्धं गृह्णन्ति, भिन्नस्यैव-स्फोटितस्यैव पिण्डस्य-ओदनादिपिण्डस्य पातः--पात्रक्षेपो येषां ग्राह्यतपाऽस्ति ते भिन्नपिण्डपातिकः तैः, परिमितपिण्डपातिकैः-परिमितगृहप्रवेशादिना वृत्तिसङ्केपवभिः, ___अंताहारे'त्यादि अन्तादीनि पदानि प्राग्वदेव नवरं पूर्वत्र चरणं गवेषणमात्रमुक्तमिह वाहारो भोजनंजीवनंतु-तथैवाजन्मापिप्रवृत्तिरिति विशेषोऽवसेयः, तथाअरसं-हिङ्गवादिभिरसंस्कृतं विरसं-पुराणत्वात् गतरसं तथा तुच्छं–अल्पं, तथा उपशान्तजीविभिः अन्तर्वृत्त्यपेक्षया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy