________________
४६४
प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३४
॥१॥ "रिजु सामन्नं तम्मत्तगाहिणी रिजुमई मणोनाणं ।
पायं विसेसविमुहं घडमेत्तं चिंतियं मुणति ॥"त्ति वचनात् मतिः-मनःपर्यायज्ञानविशेषो येषां ते ऋजुमतयस्तैरपि दृष्टा-अवलोकिता विपुलमतयो मनोविशेषग्राहिमनःपर्यायज्ञानिनः, उक्तंच॥१॥ "विउलं वत्थुविसेसणमाणं तग्गाहिणी मई विउला ।
चिंतियमणुसरइ घडं पसंगओ पनवसएहिं॥" तैरपि विदिताज्ञाता पूर्वधरैरधीता-श्रुतनिबद्धा सती पठिता, 'वेउव्वीहिं पइन्न'त्ति विकुर्विभिः-वैक्रियकारिभिःप्रतीर्णा-निस्तीर्णाआजन्म पालितेत्यर्थः, 'आभिनिबोहियनाणीही'त्यादि “समणुचिन्ने'त्येतदन्तं सुगमं, नवरं 'आमोसहिपत्तेहिंति आमर्शः-संस्पर्शः स एवैषधिरिवौषधिः-सर्वरोगापहारित्वात्तपश्चरणप्रभवो लब्धिविशेषः तां प्राप्ता ये ते तथा तैः,
एवमुत्तरत्रापि,
नवरं खेलो-निष्ठीवनंजल्लः-शरीरमलः 'विपोसहि'त्ति विप्रुषो-मूत्रपुरीषावयवाः अथवा वित्ति-विट् विष्ठा पत्ति-प्रश्रवणं मूत्रं, शेषं तथैव, 'सव्वोसहि'त्ति सर्व एवानन्तरोदिता आम
दियोऽन्येच बहव औषधयः सर्वोषधयः, बीजकल्पाबुद्धिर्येषांते बीजबुद्धयः-अर्थमात्रमवाप्यनानार्थसमूहाभ्यूहिका वुद्धिर्येषातेइत्यर्थः, कोष्ठ इवबुद्धिर्येषांतेकोष्ठबुद्धयः सकृज्ञाताविनष्टबुद्धय इत्यर्थः, पदेनैकेन पदशतान्यनुसरन्ति पदानुसारिणः, इह गाथा भवन्ति॥१॥ “संफरिसणमामोसो मुत्तुपुरीसाण विपुसो विप्पा ।
अन्ने विडत्ति विट्ठा भासंतिय पत्ति पासवणं ॥ ॥२॥ एए अन्ने य बहू जेसिं सव्वे य सुरभओऽवयवा ।
रोगो वसमसमत्था ते होंति तओसहिप्पत्ता॥ जो सुत्तपएण बहुंसुयमणुधावइ पयाणुसारी सो।
जो अत्थपएणऽत्यं अनुसरइ स बीयबुद्धीओ॥ कोट्टयधनसुनिग्गल सुत्तत्था कोट्ठबुद्धीया" तथा सम्मिन्नं-सर्वतःसर्वशरीरावयवैः श्रृण्वन्तीति सम्भित्रश्रोतारःअथवा संभिन्नानि प्रत्येकं ग्राहकत्वेन शब्दादिविषयैः व्याप्तानि श्रोतांसि इन्द्रियाणियेषांतेसंभिन्न श्रोतसःसामस्त्येन वाभिन्नान-परस्परभेदेन शब्दान्श्रृणवन्तीति सम्भिन्नश्रोतारस्तैः, इह गाथा॥१॥ “जो सुणइ सव्वओ मुनि सव्वविसए व सव्वसोएहिं।
सुणइ बहुए व सद्दे भन्नइ संभिन्नसोओ सो॥" मनोबलिकैः-निश्चलमनोभिः वाग्बलिकैः-द्धप्रतिज्ञैःकायबलिकैः-परीशहापीडितशरीरैः ज्ञानादिबलिकैः-दृढज्ञानादिभिः क्षीरमिव मधुरं वचनमाश्रवन्ति-क्षरन्ति ये ते क्षीराश्रवालब्धिविशेषवन्तस्तैः, एवमन्यदपि पदद्वयं, इह गाथार्द्ध
खीरमहुसप्पिसाओवमा उ वयणे तदासवा हुंति॥" महानसं-रसवतीस्थानमुपचाराद्रसवत्यपि अक्षीणं महानसं येषां ते अक्षीणमहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org