Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 115
________________ ४६८ प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३४ इहरापार न-नैवलक्षणं--शब्दप्रमाणस्त्रीपुराषवास्त्वादिलक्षणंउत्पाताः-प्रकृतिविकाराः रक्तवृष्टायादयः स्वप्नो-निद्राविकारः ज्योतिषं-नक्षत्रचन्द्रयोगादिज्ञानोपायशास्त्रं निमित्तं-चूडामण्याधुपदेशेनातीतादिभावसंवादनंकथा अर्थकथादिका कुहकं परेषां विस्मयोत्पादनप्रयोगः एभिराक्षिप्तेन यत्प्रयुक्त-दानाय दायकेन व्यापारितं भैक्षं तत्तथा, तथा नापि दम्भनया-दम्भन मायाप्रयोगेण नापि रक्षणया दायकस्य पुत्रतर्णकगृहादीनां नापी शासनया-शिक्षणया नाप्युक्तत्रय- समुदायेनेत्याह-'नवी'त्यादि भैक्षं-भिक्षासमूहो गवेषयितव्यंअन्वेषणीयं, नापि वन्दनेन-स्तवनेन यथा॥१॥ “सो एसो जस्स गुणा वियरंति अवारिया दसदिसासु । इहरा कहासु सुब्बसि पच्चक्खं अज्ज दिट्ठोऽसि ।।" नापि माननाय-आसनदानादिप्रतिपत्त्या नापि पूजनया-तीर्थनिर्माल्यदानमस्तकगन्धक्षेपमुखवस्त्रिकानमस्कारमालिकादानादिलक्षणया नाप्युक्तत्रयोगोनेत्याह–'नवी' त्यादि, तथा नापि हीलनया-जात्युद्घट्टनतः नापि निन्दनया-देवदायकदोषोद्घट्टनेन नापि गर्हणयालोकसमक्षदायकादिन्दिया, नाप्येतत्रितयेनेत्याह-'नवी'त्यादि, नापि भेषणया-अदित्सतो भयोत्पादनेन नापि तर्जनया-तर्जनीचालनेन ज्ञास्यसि रे दुष्ट ! इत्यादिभणरूपया नापि ताडनया-चपेटादिदा-नतः, नाप्यक्तत्रययोगेनेत्याह-'नवी'त्यादि, नापि गौरवेण-गर्वेण राजपूजितोऽहमित्याद्यभिमानेन नापि कुरुधनतया-दारिद्रयभावेन प्राकृतत्वेन वा क्रोधनतया नापि वनीपकतयारङ्गवल्लल्लिव्याकरणेन नाप्युक्तत्रयमीलनेनेत्याह-'नवी' त्यादि, नापि मित्रतया--मित्रभावमुपगम्यत्यतः गपिप्रार्थनया याञ्चया अपितु साधुरूपसन्दर्शनेन, आह च–“पडिरूवेण एसित्ता, मियंकालेण भरखए।"नापि सेवनया-खामिनोभृत्यवत्, नापियुगपदुक्तत्रयमीलन-केनेत्याह'नवी' त्यादि, यद्येवमेव च न गवेषयति भैक्षं भिक्षुस्तर्हि तद्गवेषणायां किंविधोऽसौ भवेदित्याह अज्ञातः-स्वयं स्वजनादिसम्बन्धाकथनेन गृहस्थैरपरिज्ञातस्वजनादिभावः तथा 'अगदिए'त्ति अग्रथितः परिज्ञानेऽपि तेषु तेन सम्बन्धिकनाऽप्रतिबदअधः आहारे वाऽगृद्धः 'अदुढे'त्ति आहारे दायके वाऽद्धिष्टः अदुष्टो वा 'अद्दीण'त्ति अद्रीणः-अक्षुभितः अविमना-न विगतमानसः अलाभादिदोषात् अकरुणो-न दयास्थानं न्यग्वृत्तित्वात् अविषादी-अविषादवान् अदीन इत्यर्थः अपरितान्ताः-अश्रान्ताः योगा-मनःप्रभृतयः सदनुष्ठानेषुयस्य सोऽपरितान्तयोगी अत एव यतनं-प्राप्तेष संयमयोगेष प्रयत्न उद्यमः घटनंच-अप्राप्तसंयमयोगप्राप्यते यत्न एव ते कुरुतेयः सयतनघटनकरणः तथा चरितः-सेवितो विनयोयेन सचरितविनयः, तथा गुणयोगेनक्षमादिगुणसम्बन्धेन सम्प्रयुक्तो यः स तथा, ततः पदत्रयस्य कर्मधारयः, भिक्षुर्भिक्षषणायां निरतो भवेदिति गम्यते, 'इमं च त्ति इदं पुनः पूर्वोक्तगुणभैक्षातदिप्रतिपादनपरं प्रवचमिति योगः सर्वजगजीवरक्षणरूपा या दया तदर्थं प्रावचनं-प्रवचनं शासनं भगवता श्रीमन्महावीरेण सुकथितं न्यायाबाधितत्वेन आत्मनां-जीवानां हितं आत्महितं 'पेच्चाभावियंत्ति प्रेत्य-जनमान्तरे भवति-शुद्धफलतया परिणमतीत्येवंशीलं प्रेत्यभाविकं आगमिष्यति काले भद्रं-कल्याणं यतस्तदागमिष्यद्भद्रं शुद्धं-निर्दोषं नेआउयंति नैयायिकं न्यायवृत्ति अकुटिलं-मोक्षं प्रति ऋजु अनुत्तरं सर्वेषां For Private & Personal Use Only Jain Education International For Private & Pers www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192