Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 103
________________ ४५६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/५/२३ उक्त लक्षणाः अन्ये चैवमादयः परिग्रहं सञ्चिन्वन्ति-पिण्डयन्ति, किम्भूतं?-अनन्तंअपरिमाणत्वात् अशरणंआ पद्भयो रक्षणासमर्थत्वात् दुरन्तंपर्यवसानदारुणत्वात् अध्रुवं नावश्यंभाविनमादित्योदयवत् अनित्यं न नित्यमस्थिरत्वात् अशाश्वतं प्रतिक्षणं विशरारुत्वात् ‘पावकम्मनेम्म'न्ति पापकर्मणां-ज्ञानावरणादीनां मूलं ‘अवकिरियव्वं ति जिनागमाअनाञ्जितबुद्धिचक्षुषामवकरणीयं-विक्षेपणीयं त्याज्यमितियावत् विशालमूलं वधबन्धपरिक्लेशबहुलं अनन्तक्लेशकारणमिति च कण्ठ्यं, नवरं सङ्कलेश:-चित्ताविशुद्धिः, ते देवादयः तं धनकनकरलनिचयं पिण्डयन्तश्चैव लोभग्रस्ता संसारमतिपतन्ति अतिव्रजन्ति वा इतिव्यक्तं, किम्भूतं? -सर्वदुखानि सन्निलीयन्ते-आश्रितानि भवन्ति यत्र स तथा तं सर्वदुःखसनिलयनमिति। अथ यथा परिग्रहः क्रियते तदाह-परिग्रहस्यैव चार्थाय शिल्पशतं शिक्षतेबहुजनं इति कण्ठ्यं, किन्तु शिल्पं-आचार्योपदेश प्राप्यं चित्रादि कलाश्च-द्विसप्ततिः सुनिपुणा लेखादिकाः शकुनरुतावसानाः-शकुनरुतपर्यवसानाः गणितप्रधाना इति व्यक्तं, तथा चतुःषष्टिं च महिलागुणान्, आलिङ्गनादीनामष्टानां क्रियाविशेषाणां वात्स्यायनाभिहितानां प्रत्येकमष्टभेदत्वाचतुःषष्टिमहिलागुणाभवन्तीति, गीतनृत्यादयोवास्त्रीजनोचिता वात्स्यायनाभिहिताश्चतुःषष्टिरेवेति, तांध किंविधान् ? -रतिजननानिति प्रतीतं, तथा सिप्पसेवं तिशिल्पेन सेवा-वृत्त्यर्थिना राजादीनामवलगनं शिल्पसेवा तां शिक्षते इति सम्बन्धः, तथा 'असिमसिकिसिवाणिज्जति ‘असि'त्ति खङ्गाभ्यास 'मसि'ति मषीकृत्यमक्षरलिपिविज्ञानं कृषि क्षेत्रकर्षणकर्म वाणिज्यं वणिग्व्यवहारं तथा व्यवहारं-विवादच्छेदनं 'अस्थसत्थईसत्थच्छरुप्पगर्य'ति अर्थशास्त्रं-अर्थोपायप्रतिपादनं शास्त्रं राजनीत्यादि 'ईसत्यंति इषुशास्त्रं धनुर्वेदं सरुप्रगतं-क्षुरिकादिमुष्टिग्रहणोपायजातं विविधांश्च योगयोजनान् बहुप्रकारांश्च वशीकरणादियोगान् परिग्रहाय शिक्षत इति प्रतीतं, -तथा अन्येषु एवमादिकेषु-एवंप्रकारेषु बहुषु कारणशतेषु-परिग्रहोपादानहेतुशतेषु अधिकरणभूतेषुप्रवर्तमाना इति गम्यं, यावजीवं-आजन्म 'नडिजए'त्ति बहुवचनार्थत्वादेकवचनस्यनट्यन्ते-विनट्यन्ते,तथा सञ्चिन्वन्ति अबुद्धयोमन्दबुद्धयोवादुष्टबुद्धियुक्ता; परिग्रहमिति प्रस्तुतं, तथा परिग्रहस्यैव चाय कुर्वन्ति प्राणानां-जीवानां वधकरणं-हननक्रिया, तथा 'अलीकनिकृतिसातिसम्प्रयोगान्' तत्रालीकं-मृषावादः निकृतिः अत्यन्तादरकरणेन परवञ्चनं सातिसम्प्रयोगो--विगुणद्रव्यस्य द्रव्यान्तरमीलनेन गुणोत्कर्षभ्रमोत्पादनं 'परदव्वाभिज्झत्ति परधनलोभं परद्रव्याभिधानं वा, प्रथमान्तत्वं च प्राकृतत्वात्, तथा सपरदारगमणंसेवणाए आयासविसूरणं तिखदारगमने आयासं-शरीरमनोव्यायाम कुर्वन्तीति प्रकृतं, परदारसेवनायां च विसूरणंअप्राप्तौ मनः खेदं परस्य वा मनःपीडां कुर्वन्तीति, 'कलहभण्डनवैराणिच' तत्र कलहो-वाचिकः भण्डनं कायिकं वैर-अनुशयानुबन्धः, 'अपमानविमाननाः' तत्रापमाननानि-विनयभ्रंशाः विमाननाः-कदर्थनाः, किंभूताः सन्तः कुर्वन्तीत्याह'इच्छमहिच्छपिवाससययतिसिय'त्ति इच्छा-अभिलाषमात्रं महेच्छा-महाभिलाषश्चक्रवादीनामिवतेएव पिपासा–पानेच्छा तयासततं संततंतृषिता येतेतथा, तथा 'तण्हगेहिलोभ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192