________________
४५६
प्रश्नव्याकरणदशाङ्गसूत्रम् १/५/२३
उक्त लक्षणाः अन्ये चैवमादयः परिग्रहं सञ्चिन्वन्ति-पिण्डयन्ति,
किम्भूतं?-अनन्तंअपरिमाणत्वात् अशरणंआ पद्भयो रक्षणासमर्थत्वात् दुरन्तंपर्यवसानदारुणत्वात् अध्रुवं नावश्यंभाविनमादित्योदयवत् अनित्यं न नित्यमस्थिरत्वात् अशाश्वतं प्रतिक्षणं विशरारुत्वात् ‘पावकम्मनेम्म'न्ति पापकर्मणां-ज्ञानावरणादीनां मूलं ‘अवकिरियव्वं ति जिनागमाअनाञ्जितबुद्धिचक्षुषामवकरणीयं-विक्षेपणीयं त्याज्यमितियावत् विशालमूलं वधबन्धपरिक्लेशबहुलं अनन्तक्लेशकारणमिति च कण्ठ्यं, नवरं सङ्कलेश:-चित्ताविशुद्धिः, ते देवादयः तं धनकनकरलनिचयं पिण्डयन्तश्चैव लोभग्रस्ता संसारमतिपतन्ति अतिव्रजन्ति वा इतिव्यक्तं, किम्भूतं? -सर्वदुखानि सन्निलीयन्ते-आश्रितानि भवन्ति यत्र स तथा तं सर्वदुःखसनिलयनमिति।
अथ यथा परिग्रहः क्रियते तदाह-परिग्रहस्यैव चार्थाय शिल्पशतं शिक्षतेबहुजनं इति कण्ठ्यं, किन्तु शिल्पं-आचार्योपदेश प्राप्यं चित्रादि कलाश्च-द्विसप्ततिः सुनिपुणा लेखादिकाः शकुनरुतावसानाः-शकुनरुतपर्यवसानाः गणितप्रधाना इति व्यक्तं, तथा चतुःषष्टिं च महिलागुणान्, आलिङ्गनादीनामष्टानां क्रियाविशेषाणां वात्स्यायनाभिहितानां प्रत्येकमष्टभेदत्वाचतुःषष्टिमहिलागुणाभवन्तीति, गीतनृत्यादयोवास्त्रीजनोचिता वात्स्यायनाभिहिताश्चतुःषष्टिरेवेति, तांध किंविधान् ?
-रतिजननानिति प्रतीतं, तथा सिप्पसेवं तिशिल्पेन सेवा-वृत्त्यर्थिना राजादीनामवलगनं शिल्पसेवा तां शिक्षते इति सम्बन्धः, तथा 'असिमसिकिसिवाणिज्जति ‘असि'त्ति खङ्गाभ्यास 'मसि'ति मषीकृत्यमक्षरलिपिविज्ञानं कृषि क्षेत्रकर्षणकर्म वाणिज्यं वणिग्व्यवहारं तथा व्यवहारं-विवादच्छेदनं 'अस्थसत्थईसत्थच्छरुप्पगर्य'ति अर्थशास्त्रं-अर्थोपायप्रतिपादनं शास्त्रं राजनीत्यादि 'ईसत्यंति इषुशास्त्रं धनुर्वेदं सरुप्रगतं-क्षुरिकादिमुष्टिग्रहणोपायजातं विविधांश्च योगयोजनान् बहुप्रकारांश्च वशीकरणादियोगान् परिग्रहाय शिक्षत इति प्रतीतं,
-तथा अन्येषु एवमादिकेषु-एवंप्रकारेषु बहुषु कारणशतेषु-परिग्रहोपादानहेतुशतेषु अधिकरणभूतेषुप्रवर्तमाना इति गम्यं, यावजीवं-आजन्म 'नडिजए'त्ति बहुवचनार्थत्वादेकवचनस्यनट्यन्ते-विनट्यन्ते,तथा सञ्चिन्वन्ति अबुद्धयोमन्दबुद्धयोवादुष्टबुद्धियुक्ता; परिग्रहमिति प्रस्तुतं, तथा परिग्रहस्यैव चाय कुर्वन्ति प्राणानां-जीवानां वधकरणं-हननक्रिया, तथा 'अलीकनिकृतिसातिसम्प्रयोगान्' तत्रालीकं-मृषावादः निकृतिः अत्यन्तादरकरणेन परवञ्चनं सातिसम्प्रयोगो--विगुणद्रव्यस्य द्रव्यान्तरमीलनेन गुणोत्कर्षभ्रमोत्पादनं 'परदव्वाभिज्झत्ति परधनलोभं परद्रव्याभिधानं वा, प्रथमान्तत्वं च प्राकृतत्वात्,
तथा सपरदारगमणंसेवणाए आयासविसूरणं तिखदारगमने आयासं-शरीरमनोव्यायाम कुर्वन्तीति प्रकृतं, परदारसेवनायां च विसूरणंअप्राप्तौ मनः खेदं परस्य वा मनःपीडां कुर्वन्तीति, 'कलहभण्डनवैराणिच' तत्र कलहो-वाचिकः भण्डनं कायिकं वैर-अनुशयानुबन्धः, 'अपमानविमाननाः' तत्रापमाननानि-विनयभ्रंशाः विमाननाः-कदर्थनाः, किंभूताः सन्तः कुर्वन्तीत्याह'इच्छमहिच्छपिवाससययतिसिय'त्ति इच्छा-अभिलाषमात्रं महेच्छा-महाभिलाषश्चक्रवादीनामिवतेएव पिपासा–पानेच्छा तयासततं संततंतृषिता येतेतथा, तथा 'तण्हगेहिलोभ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org