________________
अध्ययनं - ५,
४५५
ततः
कर्मधारयोऽतस्तान्नानविधकामरूपविकुर्विताप्सरोगणसंघातान्, 'चेइयाणि 'त्ति चैत्यवृक्षान् आरामादीनां विशेषः प्राग्वदवगन्तव्यः 'कित्तणाई' ति कीत्यते - संशब्यते यैः कारयिता तानि कीर्त्तनानि - देवकुलादीन्येव तानि च ममायन्ते इति प्रकृतं, ततश्च परिगृह्य परिग्रह, किम्भूतमित्याह - विपुलद्रव्यसारं - प्रभूतकस्तुप्रधानं 'देवावि सईदग' त्ति सइन्द्रका अपि देवाः, इन्द्रा देवाश्च किल महर्द्धयो वाञ्छितार्थप्राप्तिसमर्था दीर्घायुषश्च भवन्ति न च ते तथाविधा अपि सन्तस्तुष्टयादिकं लभन्ते कुतः पुनरितरे इति प्रतिपादनार्थं देयावि सइंदगा इत्युक्तमिति, 'न तित्तिं न तुट्ठि उवलभति' त्ति तृप्तिं - इच्छाविनिवृत्तिं तुष्टिं तोषमानन्दं न लभन्ते अपरापरविशेषप्राप्तयाकाङ्क्षवाचितत्वात् किम्भूतास्ते इत्याह० अत्यन्तविपुललोभाभिभूता संज्ञा-संज्ञानं येषां ते
तथा वर्षधरेषु - हिमवदादिषु पर्वतेषु इषुकारेषु घातकीखण्डपुष्करवरद्वीपार्द्धयोः पूर्वापरार्द्धकारिषु दक्षिणोत्तरायतेषु पर्वतविशेषेषु वृत्तपर्वतेषु - शब्दापातिविकटापात्यादिषु वर्तुलविजयार्द्ध पर्वतेषु कुण्डले - जम्बूद्वीपादेकादशकुण्डलाभिधानद्वीपान्तर्वर्त्तिनि कुण्डलाकारपर्वते रुचकवरे - जम्बूद्वीपात्रयोदशरुचकवराभिधानद्वीपान्तर्वर्तिनि मण्डलाकारपर्वते तथा मानुषोत्तरे - मनुष्य क्षेत्रावारके मण्डलाकारपर्वते कालोदधौ-द्वितीयसमुद्रे
- 'लवण' त्ति लवणसमुद्रे 'सलिल' त्ति सलिलासु गङ्गादिमहानदीषु हृदपतिषु नदप्रधानेषु पद्ममहापद्मादिषु महाह्रदेषु रतिकरेषु-नन्दीश्वराभिधानष्टमद्वीपचक्रवालविदिक्चतुष्टयव्यवस्थितेषु चतुर्षु झल्लरीसंस्थितेषु पर्वतेषु अञ्जनकेषु नन्दीश्वरचक्रवालमध्यवर्त्तिषु पर्वतेषु दधिमुखेषुअञ्जनकचतुष्टयपार्श्ववर्त्तिपुष्करिणीषोडशमध्यभागवर्त्तिषु षोडशस्वेव पर्वतेषु अवपाताः - येषु वैमानिका देवा अवपतन्ति अवपत्य च मनुष्यक्षेत्रादावागच्छन्ति उत्पाताश्च-येभ्यो भवनपतय उत्पत्य मनुष्यक्षेत्रं समागच्छन्ति ते चानेके तिगिञ्छिकूटादयस्तेषु काञ्चनेषु -उत्तरकुरुमध्ये देवकुरुमध्येच प्रत्येकं पञ्चानां महाह्रदानां प्रत्येकमुभयोः पार्श्वयोः दशसु दशसु सर्वाग्रेण द्विशतीपरिमाणेषु काञ्चनमयपर्वतेषु 'चित्तविचित्त'त्ति निषधाभिधानवर्षधरप्रत्यासन्नयोः शीतोदाभिधानमहानद्युभयतटवर्त्तिनोश्चित्रविचित्रकूटाभिधानयोः पर्वतयोः 'जमगवर' त्ति नीलबद्वर्षधरप्रत्यासन्नयोः शीताभिधानमहानद्युभयतटवर्त्तिनोर्यमकचराभिधानपर्वतयोः शिखरेषु - समुद्रमध्यवर्त्तिगोस्तूपादिपर्वतेषु कूटेषु च - नन्दनवनकूटादिषु वस्तुं शीलं येषां ते वर्षधरादिवासिनो देवा न लभन्ते तृप्तिमिति प्रक्रमः,
तथा - 'वक्खारअकम्मभूमीसु 'त्ति वक्षस्काराः - चित्रकूटादयो विजयविभागकारिणः अकर्म्मभूमयः - हैमवतादिकभोगभूमयः तासु ये वर्त्तन्त इति गम्यते, तथा सुविभक्तभागा देशाजनपदा यासु तासु कर्म्मभूमिषु - कृष्यादिकर्म्मस्थानभूतासु भरतादिकासु पञ्चदशपरिमाणासु, किमित्याह-येऽपि च नराश्चतुरन्तचक्रवर्त्तिनो वासुदेवा बलदेवाः प्रतीताः माण्डलिका-महाराजा ईश्वरा - युवराजादयः भोगिका इत्यन्ये तलवराः - कृतपट्टबन्धाः राजस्तानीयाः सेनापतयःसैन्यनायका इभ्या - यावतो द्रव्यस्योत्करेणान्तरितो हस्ती न दृश्यते तावद्रव्यपतयः श्रेष्ठिनःश्रीदेवतालङ्कृ तशिरोवेष्टनकवन्तो वणिग्नायकाः राष्ट्रिका राष्ट्रचिन्तानियुक्तकाः पुरोहिताःशान्तिकर्मकारिणः कुमारा- राज्याहः दण्डनायकाः- तन्त्रपालाः माडम्बिकाः - प्रत्यन्तराजानः सार्थवाहाः -- प्रतीताः कौटुम्बिका--ग्राममहत्तराः सन्तो ये सेवका अमात्या-राजचिन्तका एते तच
For Private & Personal Use Only
www.jainelibrary.org
द्वारं-१,
Jain Education International