Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 102
________________ अध्ययनं - ५, ४५५ ततः कर्मधारयोऽतस्तान्नानविधकामरूपविकुर्विताप्सरोगणसंघातान्, 'चेइयाणि 'त्ति चैत्यवृक्षान् आरामादीनां विशेषः प्राग्वदवगन्तव्यः 'कित्तणाई' ति कीत्यते - संशब्यते यैः कारयिता तानि कीर्त्तनानि - देवकुलादीन्येव तानि च ममायन्ते इति प्रकृतं, ततश्च परिगृह्य परिग्रह, किम्भूतमित्याह - विपुलद्रव्यसारं - प्रभूतकस्तुप्रधानं 'देवावि सईदग' त्ति सइन्द्रका अपि देवाः, इन्द्रा देवाश्च किल महर्द्धयो वाञ्छितार्थप्राप्तिसमर्था दीर्घायुषश्च भवन्ति न च ते तथाविधा अपि सन्तस्तुष्टयादिकं लभन्ते कुतः पुनरितरे इति प्रतिपादनार्थं देयावि सइंदगा इत्युक्तमिति, 'न तित्तिं न तुट्ठि उवलभति' त्ति तृप्तिं - इच्छाविनिवृत्तिं तुष्टिं तोषमानन्दं न लभन्ते अपरापरविशेषप्राप्तयाकाङ्क्षवाचितत्वात् किम्भूतास्ते इत्याह० अत्यन्तविपुललोभाभिभूता संज्ञा-संज्ञानं येषां ते तथा वर्षधरेषु - हिमवदादिषु पर्वतेषु इषुकारेषु घातकीखण्डपुष्करवरद्वीपार्द्धयोः पूर्वापरार्द्धकारिषु दक्षिणोत्तरायतेषु पर्वतविशेषेषु वृत्तपर्वतेषु - शब्दापातिविकटापात्यादिषु वर्तुलविजयार्द्ध पर्वतेषु कुण्डले - जम्बूद्वीपादेकादशकुण्डलाभिधानद्वीपान्तर्वर्त्तिनि कुण्डलाकारपर्वते रुचकवरे - जम्बूद्वीपात्रयोदशरुचकवराभिधानद्वीपान्तर्वर्तिनि मण्डलाकारपर्वते तथा मानुषोत्तरे - मनुष्य क्षेत्रावारके मण्डलाकारपर्वते कालोदधौ-द्वितीयसमुद्रे - 'लवण' त्ति लवणसमुद्रे 'सलिल' त्ति सलिलासु गङ्गादिमहानदीषु हृदपतिषु नदप्रधानेषु पद्ममहापद्मादिषु महाह्रदेषु रतिकरेषु-नन्दीश्वराभिधानष्टमद्वीपचक्रवालविदिक्चतुष्टयव्यवस्थितेषु चतुर्षु झल्लरीसंस्थितेषु पर्वतेषु अञ्जनकेषु नन्दीश्वरचक्रवालमध्यवर्त्तिषु पर्वतेषु दधिमुखेषुअञ्जनकचतुष्टयपार्श्ववर्त्तिपुष्करिणीषोडशमध्यभागवर्त्तिषु षोडशस्वेव पर्वतेषु अवपाताः - येषु वैमानिका देवा अवपतन्ति अवपत्य च मनुष्यक्षेत्रादावागच्छन्ति उत्पाताश्च-येभ्यो भवनपतय उत्पत्य मनुष्यक्षेत्रं समागच्छन्ति ते चानेके तिगिञ्छिकूटादयस्तेषु काञ्चनेषु -उत्तरकुरुमध्ये देवकुरुमध्येच प्रत्येकं पञ्चानां महाह्रदानां प्रत्येकमुभयोः पार्श्वयोः दशसु दशसु सर्वाग्रेण द्विशतीपरिमाणेषु काञ्चनमयपर्वतेषु 'चित्तविचित्त'त्ति निषधाभिधानवर्षधरप्रत्यासन्नयोः शीतोदाभिधानमहानद्युभयतटवर्त्तिनोश्चित्रविचित्रकूटाभिधानयोः पर्वतयोः 'जमगवर' त्ति नीलबद्वर्षधरप्रत्यासन्नयोः शीताभिधानमहानद्युभयतटवर्त्तिनोर्यमकचराभिधानपर्वतयोः शिखरेषु - समुद्रमध्यवर्त्तिगोस्तूपादिपर्वतेषु कूटेषु च - नन्दनवनकूटादिषु वस्तुं शीलं येषां ते वर्षधरादिवासिनो देवा न लभन्ते तृप्तिमिति प्रक्रमः, तथा - 'वक्खारअकम्मभूमीसु 'त्ति वक्षस्काराः - चित्रकूटादयो विजयविभागकारिणः अकर्म्मभूमयः - हैमवतादिकभोगभूमयः तासु ये वर्त्तन्त इति गम्यते, तथा सुविभक्तभागा देशाजनपदा यासु तासु कर्म्मभूमिषु - कृष्यादिकर्म्मस्थानभूतासु भरतादिकासु पञ्चदशपरिमाणासु, किमित्याह-येऽपि च नराश्चतुरन्तचक्रवर्त्तिनो वासुदेवा बलदेवाः प्रतीताः माण्डलिका-महाराजा ईश्वरा - युवराजादयः भोगिका इत्यन्ये तलवराः - कृतपट्टबन्धाः राजस्तानीयाः सेनापतयःसैन्यनायका इभ्या - यावतो द्रव्यस्योत्करेणान्तरितो हस्ती न दृश्यते तावद्रव्यपतयः श्रेष्ठिनःश्रीदेवतालङ्कृ तशिरोवेष्टनकवन्तो वणिग्नायकाः राष्ट्रिका राष्ट्रचिन्तानियुक्तकाः पुरोहिताःशान्तिकर्मकारिणः कुमारा- राज्याहः दण्डनायकाः- तन्त्रपालाः माडम्बिकाः - प्रत्यन्तराजानः सार्थवाहाः -- प्रतीताः कौटुम्बिका--ग्राममहत्तराः सन्तो ये सेवका अमात्या-राजचिन्तका एते तच For Private & Personal Use Only www.jainelibrary.org द्वारं-१, Jain Education International

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192