Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 76
________________ द्वारं १, अध्ययनं-४, ४२९ ऋषिवादिकाः भूतवादिकाः क्रन्दिता महाक्रन्दिताः कूष्माण्डाः पतङ्गा इत्यष्टौ व्यन्तरनिकायानामुपरिवर्त्तिनो व्यन्तरजातिविशेषा एव एषामपि द्वन्द्वस्ते तच ते देवाश्चेति कर्मधारयः तथा पिशाचादयोऽष्टौ व्यन्तरभेदाः प्रतीताः, 'तिरियजोतिसविमाणवासि'त्ति तिरश्चितिर्यग्लोके यानि ज्योतिष्कविमानानि तेषुनिवसन्ति येते तथा ज्योतिष्का इत्यर्थः मनुजा-मानवा एतेषां द्वन्द्वः ततस्तेषां ये गणाः-समूहास्ते तथा, जलचरादयः मोहप्रतिबद्धचित्ता इति प्रतीतं, अवितृष्णाः-प्राप्तेषु कामेषु अविगततृष्णा इत्यर्थः, कामभोगतृषिता-अप्राप्तकामभोगेच्छवः, एतदेव प्रपञ्चयत्राह-तृष्णया भोगाभिलाषेण बलवत्या-तीव्रया महत्या-महाविषयया समभिभूताः-परिभूताः ग्रथिताश्च-विषयैः सह सन्दर्भिताः अतिमूर्छिताश्च-विषयदोषदर्शनं प्रत्यतिमूढतामुपगताः अब्रह्मणि अवसन्नाः पङ्क इव निमग्ना तामसेन भावेन अज्ञानपरिणामेनानुनममुक्ता-अविमुक्ताः __ -तथा दर्शनचारित्रमोहस्य-द्विरूपमोहनीयकर्मणः बन्धनमिति गम्यते पञ्चरमिवआत्मशकुनेर्बन्धनस्थानमिव कुर्वन्ति-विदधति सुरादय इति प्रकृतं, कथं? – ‘अन्योऽन्यस्य' परस्परस्यासेवनया-अब्रह्माश्रितभोगेन, क्वचित्पाठः ‘अन्नोऽन्नं सेवमाण'त्ति कण्ठ्यश्च, पूर्वोक्तप्रपञ्चार्थमेवाह-भूयः-पुनरदीपं विशेषेणाभिधीयते-असुरसुरतिर्यङ्गानुष्येभ्यो ये भोगाःशब्दादयस्तेषु या रतिः-आसक्तिस्तत्प्रधाना ये विहाराः-विचित्रक्रीडाः तैः सम्प्रयुक्ता ये ते तथा, -ते च के ते इत्याह-चक्रवर्तिनःराजातिशयाः ससागरां भुक्त्वा वशुधां मण्डलिकत्वं च भुक्त्वा भरतवर्ष चक्रवर्तित्वेऽतुलशब्दादींश्चानुभूयोपमन्ति मरणधर्मं अवितृप्ताः कामानामिति सम्बन्धः किंविधास्ते इत्याह-सुरनरपतिभिः सुरेश्वरनरेश्वरैः सत्कृताः-पूजिताः येते तथा, के इवानुभूयेत्याह-सुरवरा इव-देवप्रवरा इव, कत्र ? -देवलोके-स्वर्गे, तथा भरतस्य-भारतवर्षस्य सम्बन्धिनां नगानां-पर्वतानां नगराणां-करविरहितस्थानानां निगमानां-वणिग्जनप्रधानस्थानानां जनपदानां-देशानां पुरवराणां-राजधानीरूपाणां द्रोणमुखानां-जलस्थलपथयुक्तानां खेटानां-धूलीप्राकाराणां कर्बटानां-कुनगराणां मडम्बानां दूरस्थितसन्निवेशान्तराणां संवाहानां-रक्षार्थं धान्यादिसंवहनोचितदुर्गविशेषरूपाणां पत्तनानां च-जलपथस्थलपथयोरेकतरयुक्तानां सहैमण्डिता या सा तथा तां, स्तिमितमेदिनीकां-निर्भयत्वेन स्थिरविश्वम्भराश्रितजनांएकमेवछत्रंयत्रएकराजत्वात्सा एकछत्रा तांससागरांतां भुक्त्वा-पालयित्वावसुधां-पृथ्वी भरतादिरूपां माण्डलिकत्वे, एतच पदद्वयमुत्तरत्र ‘हिमवन्त सागरंतं धीरो भोत्तूणंभरहवास'मिति समस्तभरतक्षेत्रभोक्तृत्वापेक्षया भणनादवसीयते, नरसिंहाः शूरत्वात् नरपतयः तत्सावमित्वात् नरेन्द्राः तेषां मध्ये ईश्वरत्वात् नरवृषभा गुणैः प्रदानत्वात्मरुद्वषभकल्पाः-देवनाथभूताः मरुजवृषभकल्पावा-मरुदेशोत्पन्नगवयभूता अङ्गीकृतकार्यभारनिर्वाहकत्वात् अभ्यधिकं अत्यर्थं राजतेजोलक्ष्म्या दीप्यमानाः सौम्या-अदारुणा नीरुजा वा राजवंशतिलकाः-तन्मण्डनभूताः, तथा रविशश्यादीनि वरपुरुशलक्षणानि येधारयन्ति ते तथा, तत्र रविः शशी शङ्खो वरचक्रं स्वस्तिकं पताका यवो मत्स्यश्च प्रतीताः कूर्मकः-कच्छपः रथवरः-प्रतीतः भगो-योनिः भवनं-- Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192