Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 80
________________ द्वारं-१, अध्ययनं-४, ४३३ अथवा बलदेवादीनेव नामान्तरेणाह- 'रामकेसव'त्ति नामान्तरेण रामकेशवाः, अथ कीशास्ते इत्याह-भ्रातरौ द्वन्द्वापेक्षया सपरिषदः-सपरिवाराः तथा वसुदेवसमुद्रविजयौआदी येषांतेवसुदेवसमुद्रविजयादिकास्तेच तेदशाश्चेिति समासस्तेषां हृदयदयिता इति योगः, एषांच समुद्रविजय आद्यो वसुदेवश्च दशमः, आह च ॥१॥ "समुद्रविजयोऽक्षोभ्यः, स्तिमितः सागरस्तथा। हिमवानचलश्चैव, धरणः पूरणस्तथा ॥' अभिचन्द्रश्च नवमो, वसुदेवश्च वीर्यवान् ।।" इति, तथा प्रद्युम्नप्रतिवशम्बानिरुद्धनिषघौल्मुककसारणगजसुमुखदुर्मुखादीनां यदोरपत्यानां अध्युष्टानामपि-अर्द्धाधिकतिसृणामपि कुमारकोटीनां हृदयदयिता-वल्लभाः, इदं चान्तिमबलदेवाद्याश्रितमपि विशेषणं समुदायविशेषणतया अवसेयं, तथा 'राजताः सौवर्णाश्च कुलपर्वता भवन्ती'त्यत्र सौवर्णा इति मेरुविशेषणमपि पर्वतानां, एवमुत्तरत्रापीति, तथा देव्या रोहिण्या-राममातुर्देव्या देवक्याश्च-कृष्णमातुःआनन्दलक्षणो यो हृदयभावस्तस्य नन्दनकरावृद्धिकरा ये ते तथा, षोडशराजवरसहानुयातमार्गाः, षोडशानां देवीसहस्राणां वरनयनानां हदयदयिता-वल्लभायेते तथा, इदंचविशेषणं वासुदेवापेक्षमेव, तथा नानामणिकनकरत्नमौक्तिप्रवालधनधान्यानां ये सञ्चयास्तल्लक्षणा या ऋद्धिः-लक्ष्मीस्तया समृद्धो-वृद्धिमुपगतः कोशःभाण्डागारंयेषांतेतथा, तत्रमणयः-चन्द्रकान्ताद्याः रत्नानि कर्केतानादीनिप्रवालानि-विद्रुमाणि धनं-गणिमादि चतुर्विधमिति, तथा हयगजरथसहस्वामिन इति प्रतीतं, ग्रामाकरनगरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमसंवाहानां व्याख्यातरूपाणां सहस्राणि यत्र भरताद्धे स्तिमितनिवृत्तप्रमुदितजनाः-स्थिरस्वस्थप्रमोदवल्लोका विविधशस्यैः-नानाविधधान्यैर्निष्पद्यमाना-जायमाना मेदिनीच भूमिर्यत्र सरोभिः-जलाशयविशेषैः सरिद्भिश्च-नदीभिः तडागैः-प्रतीतैः शैलैः-गिरिभिः काननैः-सामान्यवृक्षोपेतनगरासन्नवनविशेषैः आरामैःदम्पतिरतिस्थान लतागृहोपेतवनविशेषैः उद्यानैश्चपुष्पादिमवृक्षसङ्कुलबहुजनभोग्यवनविशेषैः मनोऽभिरामैः परिमण्डितंच यद्मरतार्द्ध तत्तथा तस्य, तथा दक्षिणार्द्धच तद्विजयाईगिरिविभक्तं चेति विग्रहस्तस्य, तथा लवणजलेन-लवणसमुद्रेण परिगतं-वेष्टितं देशतो यत्तत्तथा तस्य, तथा षड्विधस्य कालस्य ऋतुषट्कपस्य ये गुणाः-कार्याणि तैः क्रमेण-परिपाट्या युक्तं--सङ्गतं यत्तत्तथा तस्य, कस्येत्याह-अर्द्धभरतस्य-भरतार्द्धस्य, किं? -स्वामिका-नाथाः,तथा धीराणां सतां या कीर्तिस्तप्रधाना : पुरुषा धीरकीर्तिपुरुषाः ओधेन-प्रवलाहेणाविच्छिन्नं बलं-प्राणो येषांतेतथा, पुरुषान्तरबलान्यतिक्रान्ताअतिबलाः, ननिहताअनिहताअपराजितान्-अपरिभूतान् शत्रूनुमर्दयन्तियेतेतथा, अतएव रिपुसहमानमथनाइतिव्यक्तं, सानुक्रोशाः-सदयाअमत्सरिणः.. परगुणग्राहिणः अचपलाः-कायिकादिचापल्यरहिताः अचण्डाः-कारणविकलकोपविकलाःमितः -परिमितो मञ्जलो-मधुरः प्रलापो-जल्पो येषां ते तथा, हसितं गम्भीरमनट्टहासं मधुरं च भणितं येषां ते तथा, पाठान्तरेण मधुरपरिपूर्णसत्यवचनाः, अभ्युपगतवत्सला इति प्रतीतं, 'सरण्ण'त्ति शरणदायकत्वात् शरण्याः, तथा लक्षण-पुरुषलक्षणशास्त्राभिहितं यथा ॥१॥ “अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । 7 [28] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192