Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 78
________________ द्वारं-१, अध्ययनं ४, ४३१ सुखकारीणि माला- आभरणविशेषः कटकानि - कङ्कणानि पाठान्तरेण कुण्डलानि - प्रतीतानि अङ्गदानि - बाह्वाभरणविशेषाः तुटिका- बाहुरक्षिकाः प्रवरभूषणानिच- मुकुटादीनि मालादीन्येव वा प्रवरभूषणानि पिनद्धानि - बद्धानि देहे येषां ते तथा, एकावली - विचित्रमणिका एकसरिका कण्ठे-गले सुरचिता वक्षसि-हृदये येषां ते तथा, प्रलम्बो - १ दीर्घः प्रलम्बमानो - लम्बमानः सुकृतः - सुरचितः पटशाटकः- उत्तरीयं उपरिकायवस्त्रं यैस्ते तथा मुद्रिकाभिः - अङ्गुलीयकैः पिङ्गलाः- पिङ्गः अङ्गुल्यो येषां ते तथा, ततः कर्म्मधारयः, उज्ज्वलं नेध्यं-वेषो रचितं रतिदं वा 'चिल्लगं 'ति लीनं दीप्यमानं वा विराजमानं - शोभमानं येषां तेन वा विराजमाना ये ते तथा, तेजसा दिवाकर इव दीप्ता इति प्रतीतं, शारदं- शरत्कालीनं यत् नवं- उत्पद्यमानावस्थं न तु विरामावस्थं स्तनितं - मेघगर्जितं तद्वन्मधुरो गम्भीरः स्निग्धश्च घोषो येषां ते तथा, वाचनान्तरे 'सागरनवे' त्यादि दृश्यते, उत्पन्नसमस्तरन्ताश्च ते चक्ररत्नाप्रधानाश्चेति विग्रहः, रत्नानि च तेषां चतुर्द्दश, तद्यथा ॥ १ ॥ “ सेनाचइ १ गाहावइ २ पुरोहिय ३ तुरग ४ वड्ढइ ५ गय ६ इत्थी ७ । चक्क ८ छत्तं ९ चम्म १० मणि ११ कागणि १२ खग्ग १३ दंडो य १४ ॥ - नवनिधिपतयः, निधयश्चैवम्, - 119 11 "नेसप्यं १ पंडु २ पिंगलय ३ सव्वरयणे ४ तहा महापउमे ५ । काले य ६ महाकाले ७ माणवग महानिही ८ संखे ९ ।। " समृद्धकोशा इति प्रतीतं चत्वारोऽन्ता - भूविभागाः पूर्वसमुद्रादिरूपा येषां ते तथा ते एव चातुरन्ताः तथा चतुर्भिरंशैः - हस्त्यश्वरथपदातिलक्षणैरुपेताश्चातुर्यस्ताभिः सेनाभिः समनुयायमानमार्गाः समनुगम्यमानपथाः, एतदेव दर्शयति - तुरगपतय इत्यादि, विपुलकुलाश्च ते विश्रुतयशसश्च प्रतीतख्यातय इति विग्रहः, शारदशशी यः सकलः -- पूर्णस्तद्वत्सौम्यं वदनं येषां ते तथा, शूराः - शौनण्डरैलोक्यनिर्गतप्रभावाश्च ते लब्धशब्दाश्च-प्राप्तख्यतय इति विग्रहः, समस्त भरताधिपा नरेन्द्रा इति प्रतीतं, सह शैलैः - पर्वतैः वनैः - नगरविप्रकृष्टैः काननैश्चनगरासनैर्यत्तत्तथा हिमवत्सागरान्तं धीरा भुक्त्वा भरतवर्ष जितशत्रवः प्रवरराजसिंहाः पूर्वकृततपःप्रभावा इति प्रतीतं, निर्विष्टं - परिभुक्तं सञ्चितं - पोषितं सुखं यैस्ते तथा, अनेकवरर्षशतायुष्मन्तः भार्याभिश्च जनपदप्रधानाभिर्लाल्यमानाः- विलास्यमानाः अतुला- निरुपमा ये शब्दास्पर्शसरूपगन्धास्ते तथा तांश्चानुभूय, तेऽपि आसतामपरे, उपनमन्ति प्राप्नुवन्ति मरणधर्ममृत्युलक्षणं जीवपर्यायं अवितृप्ताः - अतृप्ताः कामानां - अब्रह्माङ्गानाम् । मू. (१९ - वर्तते) भुज्जो भुज्जो बलदेववासुदेवा य पवरपुरिसा महाबलपरक्कमा महाधवियट्टका महासत्तसागरा दुद्धरा धणुद्धरा नरवसभा रामकेसवा भायरो सपरिसा वसुदेवसमुद्दविजय- मादियदसाराणं पज्जुनपतिवसंबअनिरुद्धनिसहउम्मुयसारणगयसुमुहदुम्मुहादीण जायवाणं अद्धद्वाणवि कुमारकोडीणं हिययदयिया देवीए रोहिणीए देवीए देवकीए य आनंदहिययभावनंदनकरा सोलसरायवरसहस्साणुजातमग्गा सोलसदेवीसहस्सवरणयणहिययदइया नानामणिकणगरयणमोत्तियपवालधणधन्नसंचयरिद्धिसमिद्धकोसा हयगयरहसह रससामीगामागरनगरखेडकब्बडमडंबदोणमुहपट्टण समसंबाहसहस्सथिमियणिब्बुयपमुदितज Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192