________________
द्वारं-१, अध्ययनं ४,
४३१
सुखकारीणि माला- आभरणविशेषः कटकानि - कङ्कणानि पाठान्तरेण कुण्डलानि - प्रतीतानि अङ्गदानि - बाह्वाभरणविशेषाः तुटिका- बाहुरक्षिकाः प्रवरभूषणानिच- मुकुटादीनि मालादीन्येव वा प्रवरभूषणानि पिनद्धानि - बद्धानि देहे येषां ते तथा,
एकावली - विचित्रमणिका एकसरिका कण्ठे-गले सुरचिता वक्षसि-हृदये येषां ते तथा, प्रलम्बो - १ दीर्घः प्रलम्बमानो - लम्बमानः सुकृतः - सुरचितः पटशाटकः- उत्तरीयं उपरिकायवस्त्रं यैस्ते तथा मुद्रिकाभिः - अङ्गुलीयकैः पिङ्गलाः- पिङ्गः अङ्गुल्यो येषां ते तथा, ततः कर्म्मधारयः, उज्ज्वलं नेध्यं-वेषो रचितं रतिदं वा 'चिल्लगं 'ति लीनं दीप्यमानं वा विराजमानं - शोभमानं येषां तेन वा विराजमाना ये ते तथा, तेजसा दिवाकर इव दीप्ता इति प्रतीतं, शारदं- शरत्कालीनं यत् नवं- उत्पद्यमानावस्थं न तु विरामावस्थं स्तनितं - मेघगर्जितं तद्वन्मधुरो गम्भीरः स्निग्धश्च घोषो येषां ते तथा, वाचनान्तरे 'सागरनवे' त्यादि दृश्यते, उत्पन्नसमस्तरन्ताश्च ते चक्ररत्नाप्रधानाश्चेति विग्रहः, रत्नानि च तेषां चतुर्द्दश, तद्यथा
॥ १ ॥ “ सेनाचइ १ गाहावइ २ पुरोहिय ३ तुरग ४ वड्ढइ ५ गय ६ इत्थी ७ । चक्क ८ छत्तं ९ चम्म १० मणि ११ कागणि १२ खग्ग १३ दंडो य १४ ॥ - नवनिधिपतयः, निधयश्चैवम्, -
119 11
"नेसप्यं १ पंडु २ पिंगलय ३ सव्वरयणे ४ तहा महापउमे ५ । काले य ६ महाकाले ७ माणवग महानिही ८ संखे ९ ।। "
समृद्धकोशा इति प्रतीतं चत्वारोऽन्ता - भूविभागाः पूर्वसमुद्रादिरूपा येषां ते तथा ते एव चातुरन्ताः तथा चतुर्भिरंशैः - हस्त्यश्वरथपदातिलक्षणैरुपेताश्चातुर्यस्ताभिः सेनाभिः समनुयायमानमार्गाः समनुगम्यमानपथाः, एतदेव दर्शयति - तुरगपतय इत्यादि, विपुलकुलाश्च ते विश्रुतयशसश्च प्रतीतख्यातय इति विग्रहः, शारदशशी यः सकलः -- पूर्णस्तद्वत्सौम्यं वदनं येषां ते तथा, शूराः - शौनण्डरैलोक्यनिर्गतप्रभावाश्च ते लब्धशब्दाश्च-प्राप्तख्यतय इति विग्रहः, समस्त भरताधिपा नरेन्द्रा इति प्रतीतं, सह शैलैः - पर्वतैः वनैः - नगरविप्रकृष्टैः काननैश्चनगरासनैर्यत्तत्तथा हिमवत्सागरान्तं धीरा भुक्त्वा भरतवर्ष जितशत्रवः प्रवरराजसिंहाः पूर्वकृततपःप्रभावा इति प्रतीतं, निर्विष्टं - परिभुक्तं सञ्चितं - पोषितं सुखं यैस्ते तथा, अनेकवरर्षशतायुष्मन्तः भार्याभिश्च जनपदप्रधानाभिर्लाल्यमानाः- विलास्यमानाः अतुला- निरुपमा ये शब्दास्पर्शसरूपगन्धास्ते तथा तांश्चानुभूय, तेऽपि आसतामपरे, उपनमन्ति प्राप्नुवन्ति मरणधर्ममृत्युलक्षणं जीवपर्यायं अवितृप्ताः - अतृप्ताः कामानां - अब्रह्माङ्गानाम् ।
मू. (१९ - वर्तते) भुज्जो भुज्जो बलदेववासुदेवा य पवरपुरिसा महाबलपरक्कमा महाधवियट्टका महासत्तसागरा दुद्धरा धणुद्धरा नरवसभा रामकेसवा भायरो सपरिसा वसुदेवसमुद्दविजय- मादियदसाराणं पज्जुनपतिवसंबअनिरुद्धनिसहउम्मुयसारणगयसुमुहदुम्मुहादीण जायवाणं अद्धद्वाणवि कुमारकोडीणं हिययदयिया देवीए रोहिणीए देवीए देवकीए य आनंदहिययभावनंदनकरा सोलसरायवरसहस्साणुजातमग्गा सोलसदेवीसहस्सवरणयणहिययदइया
नानामणिकणगरयणमोत्तियपवालधणधन्नसंचयरिद्धिसमिद्धकोसा हयगयरहसह
रससामीगामागरनगरखेडकब्बडमडंबदोणमुहपट्टण समसंबाहसहस्सथिमियणिब्बुयपमुदितज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org