Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं-१, अध्ययनं ४,
४३७
पाञ्चजन्याभिधानः चक्रं-सुदर्सनं गदा च - कौमोदकी नामा शक्तिश्च - त्रिशूलविशेषः नन्दकश्चनन्दकाभिधानः खङ्गः एतान् धारयन्ति ये ते तथा,
7
इदं च विशेषणं वासुदेवाश्रयं प्रवरोज्ज्वलो -वरशुक्लः सुकृतः --सुरचितो विमलोनिर्मलः - कौस्तुभो - वक्षोमणिस्तिरीटं च- मुकुटं धारयन्ति ये ते तथा, कुण्डलोद्योतितानना इति व्यक्तं, पुण्डरीकं-सितपद्मं तद्वन्नयने येषां ते तथा, एकावली कण्ठे रचिता वक्षसि-हृदये येषां ते तथा, श्रीवत्सः प्रतीतः स एव शोभनं लाञ्छनं येषां ते तथा, वरयशस इति व्यक्तं, सर्वर्त्तुकैः सुरभिभिः कुसुमैः सुरचिता प्रलम्बा शोभमाना विकसन्ती चित्रा च वनमाला - मालाविशेषो रचितारतिदा वा वक्षसि येषां ते तथा, अष्टशतेन विभक्तलक्षणानां विविक्तस्वस्तिकादिचिह्नानां प्रशस्तानि सुन्दराणि विराजितानि च अङ्गोपाङ्गानि येषां ते तथा, मत्तस्य गजवराणामिन्द्रस्य-सर्वगजप्रधानस्य यो ललितो- विलासवान् विक्रमः - चङ्क्रमणं तद्वद्विलासिता - सञ्जाताविलासा गतिर्येषां ते तथा,
2
'कडीसुतग' त्ति कटीसूत्रप्रधानानि नीलानि पीतानि च कौशेयकानिवस्त्रविशेषरूपाणि वासांसि येषां ते तथा तत्र नीलकौशेया बलदेवाः पीतकौशेयाश्च वासुदेवा इति, प्रवरदीप्ततेजस इति व्यक्तं, शारदं यत्रवं स्तनितं - मेघगर्जितं तद्वन्मधुरो गम्भीरः स्निग्धो घोषो येशषां ते तथा, नरसिंहा इति प्रतीतं, सिंहस्येव विक्रमश्च गतिश्च येषां ते तथा, 'अत्थमिय'त्ति प्रथमव्याख्यापक्षे येषु बलदेवादिषु मध्ये अस्तमितौ अस्तं गतौ रामकेशवाविति प्रकृतं, किंविधौ ? प्रवरराजसिंही, द्वितीयव्याख्याने तु अस्तमिताः प्रवरराजसिंहा येभ्यस्तेऽस्तमितप्रवरराजसिंहाः, दीर्घत्वं च प्राकृतशैलीवशात्, सौम्या इति व्यक्तं, द्वारावती नगरी तस्या आनरकत्वेन पूर्णचन्द्रा इव पूर्णचन्द्रा ये ते तथा 'पुव्वकडतवप्पभावा निविट्ठसंचितसुहा' इत्यादि तु चक्रवर्त्तिवर्णनदवगन्तव्यं, यावद् 'अवितत्ता कामाणं' ति ॥
मू. (१९ - वर्तते) भुजो मंडलियनरवरेंदा सबला सअंतेउरा सपरिसा सपुरोहियामच्चदंडनायकसेणावतिमंतनीतिकुसला नानामणिरयणविपुलधणधन्नसंचयनिहीसमिद्धकोसा रज्जसिरिं विपुलमणुभवित्ता विक्कोसंता बलेण मत्ता तेवि उवणमंति मरणधम्मं अवित्तता कामाणं ।
भुजो उत्तरकुरुदेवकुरुवणविवरपादचारिणो नरगणा भोगुत्तमा भोगलक्खणधरा भगसस्सिरीया पसत्थसोमपडिपुण्णरुवदर सणिज्जा सुजातसव्वंगसुंदरंगा रतुप्पलपत्तकंतकरचरणकोमलतला सुपइट्टियकुम्मचारुचलणा अणुपुव्यसुसंहयंगुलीया उन्नयतणुतंबनिद्धनखा संठितसुसिलिट्ठगूढगोंफा एणीकुरुविंदवत्तवट्टाणुपुव्विजंघा समुग्गनिसग्गगूढजाणू वरवारणमत्ततुल्लविक्कमविलासितगती वरतुरगसुजायगुज्झदेसा आइन्नहयव्व निरुवलेवा पमुइवरतुरगसीहअतिरेगवट्टियकडी गंगावत्तदाहिणावत्ततरंगभंगुररविकिरणबोहियविकोसायंतयम्हगंभीरविगडनाभी साहतसोणंदमुसलदप्पणनिगरियवरकणगच्छरुसरिसवरवइरवलियमज्झा
उज्जुगसमसहियजच्चतणुकसिणणिद्ध आदेज्जलडहसूमालमउयरोमराई झसविहगसुजातपीणकुच्छी झसोदरा पम्हविगडनाभा संनतपासा संगयपासा सुंदरपासा सुजातपासा मितमाइयपीरइयपासा अकरंडुयकणगरुयगनिम्मलसुजायनिरुवहयदेहधारी कणगसिलातलपसत्थसमतल उवइयविच्छिन्नपिहुलवच्छा जुयसंनिभपीणरइयपीवरपउट्ठसंठि- यसुलिगविसिट्ठल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192