Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
४४४
प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९
अविरला निर्मला दशना-दन्ता यासां तास्तथा, रक्तोत्पलवद्रक्ते पद्मपत्रवच्च सुकुमाले तालुजिह्वे यासां तास्तथा, करवीरमुकुलमिवाकुटिला - अवक्रा क्वचिदभ्युन्नता - अग्रे उच्चा ऋजुः - सरला तुङ्गा च उच्चा तदन्यत्र नासा - घोणो यासां तास्तथा, शरदि भवं शारदं नवकमलंच- आदित्यबोध्यं कुमुदं च चन्द्रविकाश्यं कुवलयं च - नीलोत्पलं पद्मं एषां यो दलनिकस्तत्सदशे लक्षणप्रशस्ते अजिह्मे - अमन्दे कान्ते नयनेयासां तास्तथा, आनामितचापवदुचिरे कृष्णाभ्रराज्या सङ्गते - अनुगते सदृश्यावित्यर्थः सुजाते तनू कृष्णे स्निग्धे च भ्रुवौ यासां तास्तथा,
--
आलीनप्रमाणयुक्त श्रवणाः सुश्रवणा इति च प्राग्वत्, पीना - उपचिता मृषा - शुद्धा गण्डरेखा- कपोलपाली यासां तास्तथा, चतुरङ्गुलं- चतुरङ्गुलमानं विशालं विस्तीर्णं समं - अविषमं ललाटं यासां तास्तथा, कौमुदी - कार्त्तिकी तस्या यो रजनीकरः- चन्द्रस्तद्वद्विमलं परिपूर्ण सौम्यं च वदनं यासां तास्तथा, छत्रोन्नतोत्तमाङ्गाः अकपिलसुस्निग्धदीर्घशिरोजा इति कण्ठ्यं,
छत्रं १ ध्वजः २ यूपः ३ स्तूपः ४ एतान्यन्यान्यपि प्रायः प्रसिद्धानि 'दामणि' त्ति रूढिगम्यं ४ कमण्डलु ६ कलशो ७ वापी ८ स्वस्तिकः ९ पताका १० यवो ११ मत्स्यः १२ कूर्मः - कच्छपः १३ रथवरी १४ मकरध्वजः - कामदेवः १५ अंको - रूढिगम्यः १६ स्थालं १७ अङ्कुशः १८ अष्टापदं - द्यूतफलकं १९ सुप्रतिष्ठकं - स्थापनकं २० (अमर: ) मयूरः अमरो वा २१ श्रियाऽभिषेको-लक्ष्म्यभिषेकः २२ तोरणं २३ मेदिनी २४ उदधिः २५ वरप्रवरभवनं- वराणां प्रवरगेहं २६ गिरिवरः २७ वरादर्श - वरदर्पणः २८ सललिताश्च - लीलावन्तो ये गजाः २९ ऋषभः ३० सिंह ३१ स्तथा चामरं ३२ एतानि प्रशस्तानि द्वात्रिंशल्लक्षणानि धारयन्ति यास्तास्तथा,
--
हंससदक्षगतयः कोकिलमधुरगिरश्चेति कण्ठ्यं, कान्ताः - कमनीयाः सर्वस्य जनस्य अनुमताः - अभिमताः व्यपगतवलीपलितव्यङ्गा दुर्वर्णव्याधिदौर्भाग्य शोकमुक्ताश्च यास्तास्तथा, उच्चत्वे नराणां स्तोकोनमुच्छिरिताः किञ्चिन्यूनत्रिगव्यूतोच्छ्रिता इत्यर्थः शृङ्गारस्य- रसविशेषस्य अगारमिवागारं चारुवेषाश्च - सुनेपथ्याः, ततथा सुन्दराणि स्तनजघनवदनकरचरणनयनानि यासां तास्तथा, लावण्येन - स्पृहणीयतया रूपेण- आकारविशेषेण नवयौवनेन गुणैश्चोपपेता यास्तास्तथा, नन्दवनविवरचारिण्य इव अप्सरसो - देव्यः तत्र नन्दनवनं - मेरोर्द्वितीयवनं, उत्तरकुरुषु मानुष्यरूपा अप्रस यास्तास्तथा, आश्चर्यं - अनुतमिति प्रेक्ष्यन्ते यास्तास्तथा, 'तिन्नी' त्यादि 'कामाणं ति यावत्कण्ठ्यं, उक्तं च
11911
“तिर्यञ्चो मानवा देवाः, केचित् कान्तानुचिन्तनम् । मरणेऽपि न मुञ्चन्ति, सद्योगं योगिनो यथा ।।"
तदेवमेतावता ग्रन्थेनाब्रह्मकारिणो दर्शिताः । अथ यथा तत्क्रियते तत्फलं च, तदेवं द्वारद्वयं युगपद् दर्शयितुमाह
मू. (२०) मेहुणसन्नासंपगिद्धा य मोहभरिया सत्थेहिं हणंति एक्कमेक्कं विसयविस उदीरएसु, अवरे परदारेहिं हम्मति विसुणिया धणनासं सयणविप्पणासं च पाउणंति,
परस्स दाराओ जे अविरया मेहुणसन्नसंपगिद्धा य मोहभरिया अस्सा हत्थी गवा य महिसा मिगाय मारेति एकमेक्क, मणुयगणा वानरा य पक्खी य विरुज्झंति, मित्ताणि खिप्पं भवंति सत्तू समये धम्मे गणे य भिंदंति पारदारी, धम्मगुणरया यं बंभयारी खणेण उल्लोट्ठए चरित्ताओ जसमंतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192