________________
४२०
प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६ वेदनया दुर्घटया-दुराच्छादया घट्टिताः-स्पृष्टा येतेतथा, विवर्णमुखं विरूपाचछवी-शरीरत्वक् येषां ते विवर्णमुखविच्छविकाः ततोऽनुबद्धेत्यादिपदानां कर्मधारयः,
तथा विफला-अप्राप्तेप्सितार्थाः मलिनाः-मलीमसा दुर्बलाश्च-असमर्था ये ते तथा, क्लान्ता-ग्लानाः तथा काशमाना-रोगविशेषात् कुत्सितशब्दं कुर्वाणाः व्याधिताश्च-- सञ्जातकुष्ठादिरोगाःआमेन-अपक्वरसेनाभिभूतानि गात्राणि-अङ्गानि येषांतेतथा, प्ररूढानिवृद्धिमुपगतानि बद्धत्वेनासंस्कारात् नखकेशश्मश्रुरोमाणि येषा ते तथा, तत्र केशाः-शिरोजाः श्मश्रूणि कूर्चरोमाणिशेषाणितुरोमाणीति, छगमुत्तमित्तिपुरीषमूतरे निजकेषुखुत्तत्ति-निमग्नाः तत्रैव-चारकबन्धनेन मृताअकामकाः-मरणेऽनभिलाषाः, ततश्च बद्धा पादयोराकृष्टाः खातिकायां 'छूढ'त्ति क्षिप्ताः, तत्रतुखातिकायां वृकशुनकर गालकोलमारिवृन्दस्यसंदंशकतुण्डपिगणस्य च विविधमुखशतैर्विलुप्तानि गात्राणियेषांते तथा, कृताविहितावृकादिभिरेव विहंग'त्ति विभागः खण्डदशः कृता इत्यर्थः केचिद्-अन्ये किमिणा यत्ति कृमिवन्तश्च कुथितदेहाइति प्रतीतं, अनिष्टवचनैः शाप्यमानाः-आक्रोश्यमानाः, कथमित्याह-सुष्टु कृतं तत्कदर्थनमिति गम्यते यदिति यस्मात्कदर्थनान्मृतः पाप इति, अथवा सुष्ठु कृतं-सुष्टुं सम्पन्नं यन्मृत एष पाप इति, तथा तुष्टेन जनेन हन्यमाना लज्जामापयन्ति-प्रापयन्तीनि लज्जापनास्त एव कुत्सिता लज्जापनका लज्जावहा इत्यर्थः, ते च भवंति-जायन्ते न केवलमन्येषां ? स्वजनस्यापि च दीर्घकालं यावदिति, तथा मृताः सन्तःपुनर्मरणानन्तरं परलोकसमापन्नाः-जन्मान्तरसमापन्नाः निरये गच्छन्ति निरभिरामे, कथम्भूते ? अङ्गाराश्च प्रतीताः प्रदीप्तकं च-प्रदीपनकं तत्कल्पः तदुपमो यः अत्यर्थशीतवेदनश्वासातेन कर्मणा उदीरणानि-उदजीरितानि सततानि-अविच्छिन्नानि यानि दुःखशतानि तैः समभिभूतश्च-उपद्रुतो यः सतथा ततस्ततोऽपि नरकादुद्ववृताः पुनरपि प्रपद्यन्ते तिर्यग्योनि,
तत्रापि नरयोपमामनुभवन्ति वेदनां ते-अनन्तरोदितादत्तग्राहिणः, अनन्तकालैन यदि नाम कथञ्चिन्मनुजभावं लभन्ते इति व्यक्तं, कथमित्याह-नैकेषु-बहुषु निरयगतौयानिगमनानि तिरश्चां च ये भवास्तेषां ये शतसहनसङ्ख्याः परिवस्तेि तथा तेष्वतिक्रान्तेषु सत्स्विति गम्यते, तत्रापि च-मनुजत्वलाभे भवन्ति-जायन्ते अनार्याः-शकयवनबर्बरादयः, किम्भूताः ? - नीचकुलसमुत्पत्राः,तथा आर्यजनेऽपि मगधादौ समुत्पन्नाइति शेषः लोकतबाह्या--जनवर्जनीया भवन्तीति गम्यं, तिर्यग्भूताश्च पशुकल्पा इत्यर्थः, कथमित्याह-अकुशलाः-तत्त्वेषु अनिपुणाः कामभोगतृषिता इति व्यक्तं, 'जहिंति नरकादिपरिवृत्तौ तत् मनुजत्वं लभते यत्र निबध्नन्तिचिन्तवन्ति निरयवर्त्तिन्यां-नरकमार्गे भवप्रपञ्चकरणेन-जन्मप्राचुर्यकरणेन ‘पणोल्लित्तिप्रणोदीनि तप्रवर्तकानि तेषां जीवानामिति हदयं यानि तानि तथा, अत्र द्वितीयाबहुवचनलोपो द्रष्टव्यः, पुनरपिआवृत्त्या संसारो-भवो नेमत्ति-मूलं येषांतानि तथा दुःखानीति भावः तेषां यानि मूलानि तानि तथा, कर्माणीत्यर्थः, तानि निबध्नन्तीतिप्रकृतं, इहच मूलाइंतिवाच्ये मूल इत्युक्तंप्राकृतत्वेन लिङ्गव्यत्ययादिति, किम्भूतास्ते मनुजत्वे वर्तमाना भवन्तीत्याह
धर्मश्रुतिविवर्जिताः धर्मशास्त्रविकला इत्यर्थः अनार्याःआर्येतराः क्रूरा-जीवोपघातोपदेशकत्वात् क्षुद्रा तथा मिथ्यात्वमथाना-विपरीततत्त्वोपदेशका श्रुतिः-सिद्धान्तस्तां प्रपन्नाः-अभ्युपगता येते तथा ते च भवन्तीति, एकान्तदण्डरूचकःसर्वथा हिंसनश्रद्धा इत्यर्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org