________________
द्वारं-१, अध्ययनं ३,
४१९
कण्ठेगुणः कण्ठसूत्रसध्शमित्यर्थः वध्यदूत इव वध्यदूतः वध्यचिहनमित्यर्थः आविद्धं परिहितं माल्यमदामकुसुममाला येषां ते तथा, मरणभयादुत्पन्नो यः खेदः तेनायतं - आयामो यथा भवतीत्येवं स्नेहेन उत्तुपितानीवस्नेहितानीव क्लिन्नानीव आर्द्रीकृतानि गात्राणि येषां ते तथा, चूर्णेनाङ्गारादीनां गुण्डितं शरीरं येषां ते तथा, रजसा - वातोत्खातेन रेणुना च - धूलीरूपेण भरिताश्च भृताः केशा येषां ते तथा, कुसुम्भकेन - रागविशेषेण उत्कीर्णा- गुण्डिता मूर्धजा येषां ते तथा, छिन्नजीविताशा इति प्रतीतं, धूर्णमानाः भयविह्वलत्वात् वध्याश्च - हन्तव्याः प्राणप्रीताश्च- उच्छ्वासदिप्राणप्रियाः प्राणपीता वा-भक्षितत्राणा ये तथा, पाठान्तरेण 'वज्झयाणमीय'त्ति वधकेभ्यो भीता इत्यर्थः,
'तिलं तिलं चैव छिज्ज्रमाणा' इति व्यक्तं, शरीराद्विकृत्तानि - छिन्नानि लोहितावलिप्तानिरक्तलिप्तानि यानि काकिणीमांसानि - लक्ष्णखण्डपिशितानि तानि तथा खाद्यमानाः पापाः - पापिनः खरकरशतैः श्लक्ष्णपाषाणभृतचर्मकोशकविशेषशतैः स्फुटितवंशशतैर्वा ताड्यमानदेहा वातिकनरनारीसम्परिवृताः- वातो येषामस्ति ते वातिका वातिका इव वातिका अनियन्त्रिता इत्यर्थः तैर्नरैर्नारीभिश्च समन्तात्परिवृता ये ते तथा, प्रेक्ष्यमाणाश्च नागरजनेनेति व्यक्तं, वध्यनेपथ्यं सञ्जातं येषां ते वध्यनेपध्यिताः प्रनीयन्ते - नीयन्ते नगरमध्येन - सन्निवेशमध्यभागेन कृपणानां मध्ये करुणाः कृष्णकरुणाः अत्यन्तकरुणा इत्यर्थः अत्राणाः अनर्थप्रतिघातकाभावात् अशरणा अर्थप्रापकाभावात् अनाथाः योगक्षेमाणाः पश्यन्तः दिशोदिशन्ति - एकस्या दिशोऽन्यां दिशं पुनस्तस्या अन्यां दिशमित्यर्थः,
मरणभयेनोद्विग्ना ये ते तथा 'आघायण' त्ति आघातनस्य वध्यभूमिमण्डलस्य प्रतिद्वारं-द्वारमेव समप्राप्ति - नीता ये ते तथ, अधन्याः शूलाग्रेशूलिकान्ते विलग्नः - अवस्थितो भिन्नो- विदारितो देहो येशां ते तथा, तत्रेति० आघातने क्रियन्ते विधीयन्ते, तथा परिकल्पिताङ्गोपाङ्गाः- छिन्नावयवाः उल्लम्ब्यन्ते वृक्षसाखासु केचित् करुणानि वचनानीति गम्यते विलपन्त इति, तथा अपरे चतुर्षु अङ्गेषु - हस्तपादलक्षणेषु धणियं गाढं बद्धा ये ते तथा, पर्वतकटकात् भृगोः प्रमुच्यन्ते - क्षिष्यन्ते दूरात् पातं - पतनं बहुविषमप्रसत्रेषु -- अत्यन्तासमपाषाणेषु सहन्ते ये ते तथा, तथाऽन्येच - अपरे गजचरणमलनेन निर्मर्द्दिता- दलिता येते तथा, ते क्रियन्ते पापकारिणःचौर्यविधायिनः अष्टादशसु स्थानेषु खण्डिताः ये ते तथा, ते च क्रियन्ते कैरित्याह- मुसुण्ढपरशुभिः - मुण्डकुठारैः, तीक्ष्णैर्हि तैः अत्यन्तं वेदनोत्पद्यत इति मुण्ड इति विशेषणमिति, तथा केचित् अन्ये उत्कृत्तकर्णोष्ठनाशाः - छिन्नश्रवणदशनच्छदघ्राणाः उत्पाटितनयनदशनवृषणा इति प्रतीतं जिह्वा - रसना आञ्छिता- आकृष्टा छिन्नी कर्णौ शिरश्च शिरा वा- नाड्यो येषां ते तथा प्रनीयन्ते आघातस्थानमिति गम्यते, छिद्यन्ते, असिना- खङ्गेन, तथा निर्विषया- देशान्निष्कासिता छिन्नहस्तपादाश्च परमुच्यन्ते - राजकिङ्करैस्त्यज्यन्ते, छिन्नहस्तपादा देशान्निष्काल्यन्त इति भावः,
तथा यावज्जीवबन्धनाश्च क्रियन्ते केचिद् - अपरे, के इत्याह--परद्रव्यहरणलुब्धा इति प्रतीतं, कारार्गलया - चारकपरिधेन निगलयुगलैश्च रुद्धा-नियन्त्रिता येते तथा, तेच कवेयाह- 'चारगाए 'त्ति चारके - गुप्तौ, किंविधाः सन्त इत्याह- हतसाराः - अपहतद्रव्याः स्वजनविप्रमुक्ता मित्रजननिराकृता निराशाश्चेति प्रतीतं, बहुजनधिक्कारशब्देन लज्जापिताः - प्रापितलज्जा येते तथा, अलज्जा - विगलितलज्जाः, अनुबद्धक्षुधा- सततबुभुक्षया प्रारब्धा - अभिभूताः अपराद्धा वा ये ते तथा शीतोष्णतृष्णा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org