________________
४१८
प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६
-
एतान्यपि प्रसिद्धानि एभिर्येप्रहारास्तैः सम्भग्नानि-आमतानिमथितानिच-विलोडितानि गात्राणि येषां ते तथा, अष्टादशकर्मकारणात्-अष्टादशचौरप्रसूतिहेतुना, तत्र चौरस्य तत्प्रसूतीनां च लक्षणमिदं॥१॥ “चौरः १ चौरापको २ मन्त्री ३, भेदज्ञः ४ काणकक्रयी ५।
अन्नदः ६ स्थानदश्चैव, चौरः सप्तविधः स्मृतः" तत्र काणकक्रयी-बहुमूल्यमपि अल्पमूल्येन चौराहृतं काणकं-हीनं कृत्वा क्रीणातीत्येवंशीलः, ॥१॥ "भलनं १ कुशलं २ तर्जा ३, राजभागो ४ ऽवलोकनम् ५ ।
___अमार्गदर्शनं ६शय्या ७ पदभङ्ग ८ स्तथैव च ।। ॥२॥ विश्रामः ९ पादपतन १० भासनं ११ गोपनं १२ तथा ।
खण्डस्य खादनं चैव १३, तथाऽन्यन्माहराजिकम् १४ ॥ ॥३॥ पद्या १५ ऽग्न्यु १६ दक १७ रज्जूनां १८, प्रदानं ज्ञानपूर्वकम् ।
एताः प्रसूतयो ज्ञेया, अष्टादश मनीषिभिः ।।" तत्रभलनं न भेतव्यंभवताअहमेव त्वद्विषयेभलिष्यामीत्यादिवाक्यैः चौर्यविषयंप्रोत्साहनं १, कुशलं मिलितानां सुखदुःखदितद्वार्ताप्रश्नः २, तर्जा-हस्तादिना चौर्यं प्रति प्रेषणादिसंज्ञाकरणं ३, राजभागोराजाभाव्यद्रव्यापह्नवः ४, अवलोकनं-हरतां चराणामुपेक्षाबुद्धया दर्शनं ५, अमार्गदर्शनं चौरमार्गप्रच्छकानां मार्गान्तरथ्कानेन तदज्ञापनं ६ शय्या-शयनीयसमर्पणादि ७ पदभङ्गः पश्चाच्चतुष्पदप्रचारादिद्वारेण ८
विश्रामः-स्वगृह एव वासकाद्यनुज्ञा ९ पादपतनंप्रणामादिगौरवं १०आसनं-विष्टटरदानं ११ गोपनं चौरापह्नवः १२ खण्डखादनं-खण्डमण्डकादिभक्तप्रयोगः १३ महाराजिकं -लोकप्रसिद्धं १४
पद्याग्न्युदकरज्जूनां प्रदानमिति प्रक्षालनाभ्यङ्गाभ्यां दूरमार्गागमजनितश्रमापनोदित्वेन पादेभ्यो हितं पद्यं-उष्णजलतैलादि तस्य १५ पाकाद्यर्थं चाग्नेः १६ पानाद्यर्थं च शीतोदकस्य १७ चौराहृतचतुश्पदादिबन्धनाद्यर्थं च रज्ज्याश्च १८,
प्रदानं-वितरणं ज्ञानपूर्वकंचेति सर्वत्रयोज्यं, अज्ञानपूर्वकस्य निरपराधित्वादिति, तथा यातिताङ्गोपाङ्गाः-कदर्थिताङ्गोपाङ्गाः तैः राजकिङ्गरैरिति प्रकृतं, करुणाः शुष्कौष्ठकण्ठगलतालुगलजिह्वाः याचमानाः पानीयं विगतजीविताशाः तृष्णार्दिता वराका इति स्फुटं, 'तंपियत्ति तदपि पानीयमपि न लभन्ते, वध्येषु नियुक्ता ये पुरुषा वध्या वा पुरुषा येषां ते वध्यपुरुषाः तैोड्य मानाः-प्रेर्यमाणाः तत्र च-घाडने खरपरुषः-अत्यर्थकठिनो यः पटहको-डिण्डिमकः तेनप्रचलनार्थ पृष्ठदेशेघट्टिताः प्रेरिता येते तथाकूटेग्रहः कूटग्रहस्तेनैव गाढरुष्टैर्निसृष्टं-अत्यर्थं परामृष्टा-गृहीता येते तथा, ततः कर्मधारयः, वध्यानां सम्बन्धि यत्करकुटीयुगं वस्त्रविशेषयुगलं तत्तथा तन्निवसिताः-परिहिता पाठान्तरे वध्याश्च करकुट्योः-हस्तलक्षणकुटीरकयोयुगं युगलं निवसिताश्च येते तथा,
सुरक्तकणवीरैः-कुसुमविशेषैर्गथितं-गुम्फितं विमुकुलं-विकसितं कण्ठे गुण इव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org