________________
द्वार-१, अध्ययनं-३,
४१७ इति, तेच सञ्चूर्णिताङ्गोपाङ्गाश्चेति समासः, आज्ञप्तिकिकरैः-यथादेशकारिकिंकुर्वाणैः केचित्केचन अविराधिताएव–अनपराद्धा एव वैरिका येते तथा तचैर्यमपुरुषन्निभैः प्रहता इति प्रकटं, तेअदत्तहारिणःतत्र-चारकबन्धने मन्दपुण्या-निर्भाग्याःचडवेला-चपेटाः वर्धपट्टः-चर्मविशेषपट्टिका पाराईति-लोहकुसीविशेषःछिवा-श्वश्रणकषः कषः-चर्मयष्टिका लता लम्बा वस्त्रा०चममयी महारज्जुः वेत्रो जलवंशः एभिर्ये प्रहारास्तेषां यानि शतानि तैस्ताडितान्यङ्गोपाङ्गानि येषां ते तथा, कृपणाःदुःस्था लम्बमानचर्माणि यानि व्रणानि-क्षतानि तेषु या वेदना-पडा तया विमखीकृतं-चौर्याद्विरचितं मनो येषां ते तथा, धनकुट्टेनअयोधनताडनेन निवृत्तं धनकुट्टिमं तेन निगडयुगलेनं प्रतीतेन सङ्कोटिताः-सङ्कोचिताङ्गाः मोटिताश्च-भग्नाङ्गा येते तथा तेच क्रियन्तेविधीयन्ते आज्ञप्तिकिङ्करैरितिप्रकृतं, किंभूताः?-निरुच्चाराः-निरुद्धपुरीषोत्सर्गाः अविद्यमान सञ्चरणा नष्टवचनोच्चारणा वाएता अन्याश्च एवमादिका-एवंप्रकाराः वेदनाः पापाः-पापफलभूताः पापकारिणोवाप्राप्नुवन्त्यदान्तेन्द्रियाः 'वसदृ'त्तिवसेन-विषयपारतन्त्र्येण ऋताः-पीडितावशात्त बहुमोहमोहिताः परधने लुब्धा इति प्रतीतं,
स्पर्शनेन्द्रियविषये स्त्रीकडेवरादौ तीव्र-अत्यर्थं गृद्धा-अध्युपपन्ना येते तथा, स्त्रीगता ये रूपशब्दरसगनअधास्तेषु इष्टा--अभिमता या रतिः तथा स्त्रीगत एव मोहितो-वाञ्छितो यो भोगो-निधुवनंतयोर्या तृष्णा-आकाशतया अर्दिता-बाधिता येते तथा, तेच धनेन तुष्यन्तीति धनतोषकाः गृहीताश्च राजपुरुषैरिति गम्यं, ये केचन नरगणाः-चौरनरसमूहाः 'पुनरवित्ति एकदा ते मौल्मिकनराणां समर्पितास्तैश्च विवधबन्धनबद्धाः क्रियन्ते इत्युक्तं,
ततःतेभ्यः सकाशात पुनरपिते कर्मदुर्विदग्धाः कर्मसु-पापक्रियासुविषये फलपरिज्ञानं प्रति अविज्ञा उपनीता-दौकिताः राजकिङ्कराणां, किंविधानां ? – 'तेसिं'ति ये निर्दजयादिधमयुक्तास्तेषां, तथा वधशास्त्रपाठकानां इति व्यक्तं, 'विलउलीकारकाणां' तिविटपोल्लककर्तृणां विलोकनाकारकाणांवा 'लञ्चाशतग्राहकाणां तत्र लञ्चा-उत्कोटाविशेषस्तथाकूट-मानादीनामन्यथाकरणं कपट-वेषभाषावैपरीत्यकरणं माया-प्रतारणबुद्धिः निकृतिः-वञ्चनक्रिया मायायावा प्रच्छादना(मायाक्रियैव एतासांयदाचरणं प्रणिधिना-तदेकाग्रचित्तप्रधानेन यद्वश्चनं प्रणिधानं वा-गूढपुरुषाणां यद्वञ्चनं तच्च योर्विशारदाः-पण्डिता येते तथा तेषां,
बहुविधालीकशतजल्पकानां परलोकपरागुमखानां निरयगतिगामिकानामिति व्यक्तं, तैश्च राजकिकरैः आज्ञप्तं-आदिष्टंजीयन्ति-दुष्टनिग्रहविषयमाचरितं दण्डश्च-प्रतीतः जीतदण्डो वा-रूढदण्डोजीवदण्डोवा-जीवितनिग्रहलक्षणोयेषांतेतथा, त्वरितंशीघ्रमुद्घाटिताः-प्रकाशिता. पुरवरे श्रृङ्गाटकादिषु, तत्र श्रृङ्गाटक-सिङ्घाटकं सिकाटकाकारं त्रिकोणं स्थानमित्यर्थः त्रिकंरध्यात्रयमीलनस्थानं चतुष्कं-रध्याचतुष्कमीलनस्थानं चत्वरं-अनेकरथ्यापतनस्थान चतुर्मुखं-तथाविधदेवकुलिकादिमहापथो राजमार्गः पन्थाः-सामान्यमार्गः,किंविधाः सन्तः प्रकाशिता इत्याह ?___वेत्रदण्डो लकुटः काष्ठं लेष्टुः प्रस्तरश्च प्रसिद्धाः ‘पणालि त्ति प्रकृष्टा नाली-शरीरप्रमाणा दीर्घतरा यष्टिः ‘पणोल्लित्ति प्रणोदी प्राजनकदण्डः मुष्टिलता पाणिः पादपार्ष्ण, जानुकूपर च 7127
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org