________________
४१६
प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६
आकष्टपरिधानवस्त्राः मलिनं दण्डिखंडरूपं वसनं-वस्त्रं येषां ते तथा,
उत्कोटालंचयोः द्रव्यस्य बहुत्वेतरादिभिर्लोकेप्रतीतभेदयोः पाद्-गुप्तिगतनरसमीपाद् यन्मार्गणं-याचनं तत्परायणाः-तन्निष्ठा ये ते तथा तैः गौल्मिकभटैः कर्तृभिर्विविधैः बन्धनैः करणभूतैर्बध्यन्ते इति सम्बन्धः, _ 'किंतेत्ति तद्यथा ‘हड्डि'त्ति काठविशेषः निगडानि-लोहमयानि वालरज्जूका गवादिवालमयी रज्जुः कुदण्डकं-काष्ठमयं प्रान्तरज्जुपाशं वरत्रा-चर्ममयी महारज्जुः लोहसङ्कला-प्रतीता हस्तान्दुकं-लोहादिमयंहस्तयन्त्रणंवर्धपट्टः-चर्मपट्टिका दामकं-रज्जुमयपादसंयमनं निष्कोटनं च-बन्धनविशेष इति द्वन्द्वः ततस्तैरन्यैश्च-उक्तव्यतिरिक्तैरेवमादिकैः-एवंप्रकारैगैल्मिकभाण्डोपकरणैः-गौप्तिकपरिच्छेदविशेषैर्दुःखसमुदीरणैः-असुखप्रवकैः तथा सङ्कोटनागात्रसङ्कोचनं मोटना च-गात्रभञ्जना ताभ्यां, किमित्याह-बध्यन्ते,
-के इत्याह-मन्दपुण्याः , तथा सम्पुटं-काष्ठयन्त्रं कपाटं प्रतीतं लोहपञ्जरे भूमिगृहे च यो निरोधः-प्रवेशनं स तथा, कूपः-अन्धकूपादिः चारको-गुप्तिगृहं कीलकाः-प्रतीता यूपो-युगं चक्र-रथाङ्गं विततबन्धनं प्रमर्दितबाहुजङ्घाशिरसः संयंत्रणं 'खंभालणं ति स्तम्भालगनं स्तम्भालिङ्गनमित्यर्थः, ऊर्द्ध चरणस्य यद्वन्धनं तत्तथा, एतेषां द्वन्द्वस्तत एतैर्या विधर्मणाःकदर्थनास्तास्तथा ताभिश्च, 'विहेडयंत त्ति विहेठ्यमाना-बाध्यमानाः सङ्कोटितमटिताः क्रियन्त इति सम्बन्धः, अवकोटकेन कोटाया-ग्रीवाया अधोनयनेन गाढं-बाढं उरसि-हृदये शिरसि च-मस्तके ये बद्धास्ते तथा ते च ऊर्ध्वपूरिताः--श्वासपूरितोद्धकायाः ऊर्ध्वा वा स्थिता धूल्या पूरिताः पाठान्तरे 'उद्धपुरीय'त्ति ऊर्द्धपुरीततः-ऊर्ध्वंगतान्त्राः स्फुरदुरःकटकाश्च-कम्पमानवक्षःस्थला इति द्वन्द्वः तेषां सतां यन्मोटनं-मईनं आनेडना च-विपर्यस्तीकरणं ते तथा ताभ्यां, विहेठ्यमाना इति प्रकृतं,
-अथवा 'स्फुरदुरःकटका' इह प्रथमाबहुवचनलोपो दृश्यस्ततश्चमोटनाप्रेडानाभ्यामित्येतदत्तरत्र योज्यते, तथा बद्धाःसन्तोनिःश्वसन्तो-निःश्वासान् विमुञ्चन्तःशीविएटकश्च वर्धादिना शिरोवेष्टनं ऊरुयाल त्तिऊव्योः-जङ्घयोरो-दारणंज्वालो वा ज्वालनं यःसतता, पाठान्तरेण 'उरुयावल'त्तिऊरुकयोरावलनं ऊरुकावलःचप्पडकानां-काष्ठयन्त्रविशेषाणां सन्धिषु-जानुकूपरादिषुबन्धनंचपटकसन्धिबन्धनंतच्च तप्तानांशलाकानां-कीलरूपाणांशूचीनांच श्लक्ष्णाग्राणां यान्याकोटनानि-कुट्टनेनाङ्गेप्रवेशनानि, तथा तानिचेतिद्वन्द्वोऽतस्तानिप्राप्यमाणा इति सम्बन्धः,
तक्षणानि च–वास्या काष्ठस्येव विमाननानि च-कदर्धनानि तानि च तथा क्षाराणितिलक्षारादीनि कटुकानि मरीचादीनि तिक्तानि-निम्बादीनि तैर्यत् ‘नावण'त्ति तस्य दानंतदादीनि यानि यातनाकारणशतानि-कदर्थनाहेतुशतानि तानि बहुकानिप्राप्यमाणाः, तथा उरसि-वक्षति 'खोडित्तिमहाकाष्ठंतस्याः दत्ताया-वितीर्णाया निवेशिताया इत्यर्थः यद्गाढप्रेरणंतेनास्थिकानिंहड्डानि सम्भग्नानि ‘संपांसुलिग'त्ति सपास्थिीनियेषां तेतथा, गल इव-बडिशमिवघातकत्वेन यः स गलः स चासौ कालकलोहदण्डश्च-कालायसयष्टिः तेन उरसि-वक्षसि उदरे च-जठरे बस्तौ च-गुह्यदेशे पृष्ठौ च-पृष्ठे परिपीडिता येते तथा, 'मच्छंत'त्ति मध्यमानं हदयं येषां ते तथा,
इह च थकारस्य छकारादेशः छान्तसत्वात्, यथा पुण्णस्स कच्छइ' इत्यत्र पूर्णस्य कत्यत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org