Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 71
________________ ४२४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६ सौधे तल्पं तल्पे वराङ्गनाऽनङ्गसर्वस्व ।' मिति, किम्भूता अपीत्याह-सुष्ठपिच उद्यच्छन्तः-अत्यर्थमपि च प्रयतमानाः, उक्तंच॥१॥ “यद्यदारभते कर्म, नरो दुष्कर्मसञ्चयः। तत्तद्विफलतां याति, यथा बीजं महोषरे ।।" तद्दिवसं-प्रतिदिनमुधुक्तैः-उद्यतैः सद्भिः कर्मणा-व्यापारेण कृतेन यो दुःखेन-कष्टेन संस्थापितो-मीलितः सिस्थानां पिण्डस्तस्यापि सञ्चये पराः-प्रधाना ये ते तथा, क्षीणद्रव्यसारा इतिव्यक्तं, नित्यं-सदा अनुवा-अस्थिराधनानां-गणिमादीनां धान्यानां-शाल्यादीनां कोशाआश्रया येषां स्थिरत्वेऽपितत्परिभोगेन लर्जिताश्चयेतेतथा, रहितं त्यक्तंकामयोः-शब्दरूपयोः भोगानांच-गन्धरसस्पर्शानां परिभोगे-आसेवने यत्तत्सर्वसौख्यं-आनन्दो यैस्ते स तथा, परेषां यौ श्रिया भोगोपभोगौ तयोर्यन्निश्राणं-निश्रा तस्य मार्गणपरायणा गवेषणपरा ये ते तथा, तत्र भोगेपभोगयोरयं विशेषः॥१॥ “सइ भुजइत्ति भोगो सो पुण आहारपुष्फमाइओ। उवभोगो उ पुणो पुण उवभुजइ वत्थनिलयाइ।।"त्ति वराकाः-तपस्विनः अकामिकया अनिच्छया विनयन्ति-प्रेरयन्ति अतिवाहयन्तीत्यर्थः, किं तदित्याह-दुःखं-असुखं, नैव सुखं नैव निर्वृतिं स्वास्थ्यमुपलभन्ते प्राप्नुवन्ति अत्यन्तविपुलदुःखशतसम्प्रदीप्ताः, परस्य द्रव्येषु ये अविरता भवन्ति त नैव सुखं लभते इति प्रस्तुतं । तदेवं यादशं फलं ददातीत्यभिहितं, अधुनाऽध्यननोपसंहारार्थमाह-‘एसो सो' इत्यादि, सर्वं पूर्ववत्॥ अधर्मद्वारे - अध्ययनं -३ - समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादीता प्रश्नव्याकरणागसूत्रे अधर्मद्वारे तृतीय अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। -अध्ययनं-४- अब्रह्म:वृ.अथतृतीयाध्ययनान्तरंचतुर्थमारभ्यते, अस्य चसूत्रनिर्देशक्रमेणसम्बद्धस्य अदत्तादानं प्रायोअब्रह्मासक्तचित्तो विदघातीति तदनन्तरमब्रह्म प्ररूप्यते इत्येवंसम्बन्धस्यास्य यादशाद्यर्थपचप्रतिबद्धस्य याशमब्रह्मेति द्वारार्थप्रतिपादनायेदं सूत्रम् मू. (१७) जंबू ! अबभं च वउत्थं सदेवमणुयासुरस्स लोयस्स पत्थणिशं पंकपणयपासजालभूयं थीपुरिसनपुंसवेदचिंधं तवसंजमबंभचेरविग्धं भेदायतणबहुपमादमूलं कायरकापुरिससेवियं सुयणजणवजणिज्जं उड्डनरयतिरियतिलोकपइट्ठाणं जरामरणरोगसोगबहुलं वधबंधविधातदुविधायं दंसणचरित्तमोहस्स हेउभूयं चिरपरिगयमणुगयंदुरतंचउत्थं अधम्मदारं वृ. जंबू'इत्यादि, जम्बूरितिशिष्यामन्त्रणं, अब्रह्म-अकुशलं कर्मतच्चेह मैथुनं विवक्षितमत्यन्ताकुशलत्वात्तस्य, आह च॥१॥ “नवि किंचि अणुचायं पडिसिद्धं वावि जिनवरिंदेहिं। मोत्तुं मेहुणमेगं नजं विणा रागदोसेहिं ।।" चकारः पुनरर्थः, चतुर्थं सूत्रकमापेक्षया, सह देवमनुजासुरैर्यो लोकः स तथा तस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192