________________
४२४
प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६
सौधे तल्पं तल्पे वराङ्गनाऽनङ्गसर्वस्व ।' मिति, किम्भूता अपीत्याह-सुष्ठपिच उद्यच्छन्तः-अत्यर्थमपि च प्रयतमानाः, उक्तंच॥१॥ “यद्यदारभते कर्म, नरो दुष्कर्मसञ्चयः।
तत्तद्विफलतां याति, यथा बीजं महोषरे ।।" तद्दिवसं-प्रतिदिनमुधुक्तैः-उद्यतैः सद्भिः कर्मणा-व्यापारेण कृतेन यो दुःखेन-कष्टेन संस्थापितो-मीलितः सिस्थानां पिण्डस्तस्यापि सञ्चये पराः-प्रधाना ये ते तथा, क्षीणद्रव्यसारा इतिव्यक्तं, नित्यं-सदा अनुवा-अस्थिराधनानां-गणिमादीनां धान्यानां-शाल्यादीनां कोशाआश्रया येषां स्थिरत्वेऽपितत्परिभोगेन लर्जिताश्चयेतेतथा, रहितं त्यक्तंकामयोः-शब्दरूपयोः भोगानांच-गन्धरसस्पर्शानां परिभोगे-आसेवने यत्तत्सर्वसौख्यं-आनन्दो यैस्ते स तथा, परेषां यौ श्रिया भोगोपभोगौ तयोर्यन्निश्राणं-निश्रा तस्य मार्गणपरायणा गवेषणपरा ये ते तथा, तत्र भोगेपभोगयोरयं विशेषः॥१॥ “सइ भुजइत्ति भोगो सो पुण आहारपुष्फमाइओ।
उवभोगो उ पुणो पुण उवभुजइ वत्थनिलयाइ।।"त्ति वराकाः-तपस्विनः अकामिकया अनिच्छया विनयन्ति-प्रेरयन्ति अतिवाहयन्तीत्यर्थः, किं तदित्याह-दुःखं-असुखं, नैव सुखं नैव निर्वृतिं स्वास्थ्यमुपलभन्ते प्राप्नुवन्ति अत्यन्तविपुलदुःखशतसम्प्रदीप्ताः, परस्य द्रव्येषु ये अविरता भवन्ति त नैव सुखं लभते इति प्रस्तुतं । तदेवं यादशं फलं ददातीत्यभिहितं, अधुनाऽध्यननोपसंहारार्थमाह-‘एसो सो' इत्यादि, सर्वं पूर्ववत्॥
अधर्मद्वारे - अध्ययनं -३ - समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादीता प्रश्नव्याकरणागसूत्रे अधर्मद्वारे तृतीय अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता।
-अध्ययनं-४- अब्रह्म:वृ.अथतृतीयाध्ययनान्तरंचतुर्थमारभ्यते, अस्य चसूत्रनिर्देशक्रमेणसम्बद्धस्य अदत्तादानं प्रायोअब्रह्मासक्तचित्तो विदघातीति तदनन्तरमब्रह्म प्ररूप्यते इत्येवंसम्बन्धस्यास्य यादशाद्यर्थपचप्रतिबद्धस्य याशमब्रह्मेति द्वारार्थप्रतिपादनायेदं सूत्रम्
मू. (१७) जंबू ! अबभं च वउत्थं सदेवमणुयासुरस्स लोयस्स पत्थणिशं पंकपणयपासजालभूयं थीपुरिसनपुंसवेदचिंधं तवसंजमबंभचेरविग्धं भेदायतणबहुपमादमूलं कायरकापुरिससेवियं सुयणजणवजणिज्जं उड्डनरयतिरियतिलोकपइट्ठाणं जरामरणरोगसोगबहुलं वधबंधविधातदुविधायं दंसणचरित्तमोहस्स हेउभूयं चिरपरिगयमणुगयंदुरतंचउत्थं अधम्मदारं
वृ. जंबू'इत्यादि, जम्बूरितिशिष्यामन्त्रणं, अब्रह्म-अकुशलं कर्मतच्चेह मैथुनं विवक्षितमत्यन्ताकुशलत्वात्तस्य, आह च॥१॥ “नवि किंचि अणुचायं पडिसिद्धं वावि जिनवरिंदेहिं।
मोत्तुं मेहुणमेगं नजं विणा रागदोसेहिं ।।" चकारः पुनरर्थः, चतुर्थं सूत्रकमापेक्षया, सह देवमनुजासुरैर्यो लोकः स तथा तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org