________________
द्वार-१, अध्ययन-३,
४२३
नित्यं-सर्वदा उत्त्रता-उद्गतत्रासाः सुन्ना-इतिकर्तव्य-तामूढा भयेन संज्ञाभिश्च-आहारमैथुनपरिग्रहादिभिः सम्प्रयुक्ता-युक्तास्ततः कर्मधारयः, वसन्ति-अध्यासते संसारसागरमिति प्रकृतं, इह च वसेर्निरुपसर्गस्यापि सकर्मकत्वंछान्दसत्वादिति, किम्भूतं संसारं?-उद्विग्नानां वासस्यवसनस्य वसतिः-स्थानं यः स तथा तं,
तथा यत्र र ग्रामकुलादौ आयुर्निबध्नान्ति पापकारिणः-चौर्यविधायिनः तत्रतत्रेति गम्यते बान्धवजनादिवर्जिता भवन्तीति क्रियासम्बन्धः, बान्धवजनेनभ्रात्रादिना स्वजनेन-पुत्रादिना मित्रैश्च-सुहृद्भिः परिवर्जिता येते तथा, अनिष्टा जनस्येति गम्यते, भवन्ति-जायन्ते अनादेयदुर्विनीताइति प्रतीतं, कुस्थानासनकुशय्याश्च ते कुभोजनाश्चेति समासः 'असुइणो'त्तिअशुचयोऽश्रुतयो वा कुसंहननाः-सेवा दिसंहननयुक्ताः कुप्रमाणा-अतिदीर्धा अतिहस्वा वा कुसंस्थिता -हुण्डादिसंस्थाना इति पदत्रयस्य कर्मधारयः, कुरूपाः-कुत्सितवर्णाः, बहुक्रोधमानमायालोभा इति प्रतीतं, बहुमोहा-अतिकामाः अत्यर्थाज्ञाना वा,
धर्मसंज्ञाया-धर्मबुद्धेः सम्यकत्वाच्च ये परिभ्रष्टास्ते तथा, दारिद्रयोपद्रवाभिभूता नित्यं परकर्मकारिण इति प्रतीतं, जीव्यते येनार्थेन-द्रव्येण तद्रव्यरहिता ये ते तथा, कृपणारङ्काः परिपिण्डतर्ककाः-परदत्तभोजनगवेषकाः दुःखलब्धाहारा इतिव्यक्तं,अरसेन–हिङ्गवादिभिरसंस्कृतेन विरसेन-पुराणादिना तुच्छेन-अल्पेन भोजनेनेति गम्यते कृतः कुक्षिपूरो यैस्ते तथा, तता परस्य सम्बन्धिनं प्रेक्षामाणाः पश्यन्तः कमित्याह-ऋद्धिः-सम्पत् सत्कारः-पूजा भोजनंअशनं एतेषांये विशेषाः-प्रकाराः तेषां यः समुदयः-समुदायः उदयवर्त्तित्वंवा तस्य यो विधिःविधानमनुष्ठानं सतथा, ततश्च निन्दन्तः-जुगुप्समाना अप्पगन्ति-आत्मानं कृतान्तंच-दैवंतथा परिवदन्तो-निन्दन्तः,
कानीत्याह० इह य पुरेकडाई कम्माई पावगाइंति इहैवमक्षरघटना--पुराकृतानि च-जन्मान्तरकृतानि कर्माणि इह-जन्मनि पापकानि-अशुभानि क्वचित्पापकरिण इति पाठः, विमनसो-दीनाः शोकेन दह्यमानाः परिभूता भवन्तीति सर्वत्र सम्बन्धनीयं, तथा सत्त्वपरिवर्जिताश्च 'छोभ'त्ति निस्सहायाः क्षोभणीया वा शिल्पं-चित्रादि कलाधनुर्वेदादिः समयशास्त्रंजैनबौद्धादिसिद्धान्तशास्त्रं एभिः परिवर्जिता ये ते तथा, यथाजातफशुभूताः- शिक्षारक्षणादिवर्जितबलीवद्ददिसध्शाः निर्विज्ञानत्वादिसाधम्यात् 'अचियत्त'त्ति अप्रतीत्युत्पादका नित्यं - सदा नीचानि-अधमजनोचितानि कर्माण्युपजीवन्ति-तैर्वृत्तिं कुर्वन्ति येते तथा,
लोककुत्सनीया इतिप्रतीतं, मोहाद्यमनोरथा-अभिलाषास्तेषांये निरासा:-क्षेपास्तैर्बहुला ये ते तथा अथवा मोघमनोरथानिष्फलमनोरथा निराशबहुलाश्च-आशाभावप्रचुरा ये ते तथा, आशा-इच्छाविशेष; सैव पाशो बनधनं तेन प्रतिबद्धाः-संरुद्धा निर्यान्त इति गम्यं प्राणा येषां ते तथा, अर्थोपादानं-द्रव्यावर्जनं कामसौख्यं च प्रतीतं तत्र च कलोकसारे लोकप्रधाने भवन्ति-जायन्ते 'अफलवंतगा यत्ति अफलवन्तः अप्राप्तिका इत्यर्थः, लोकसारता च तयोः प्रतीता, यथाहुः॥१॥ “यस्यास्तस्य मित्राणि, यस्यास्तिस्य बान्धवाः ।
यस्यार्थाः स पुमान् लोके, यस्यार्थाः स च पण्डितः।" इति, ॥१॥ “राज्ये सारं वसुधा वसुन्धरायां पुरं परे सौधम् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org