________________
४२२
प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६ समाहता - अभिभूता ये 'उद्धायमाण' त्ति उत्तिष्ठन्तो विविधचेष्टासु समुद्रपक्षे मत्स्यादयः संसारपक्षे पुरुषादयः तेषां यः पूरः- समूहस्तस्य ये घोरा- रौद्राः विध्वंसानर्थाः - विनाशलक्षणा अनथाअपायास्तैः बहुलो यः स तथा तं, अज्ञानान्येव भ्रमन्तो मत्स्याः 'परिहत्य 'त्ति दक्षा यत्र स तथा अनिभृतानि - अनुपसान्तानि यानीन्द्रियाणि अनिभृतेन्द्रिया वा ये देहिनस्तान्येव त एव वा महामकरास्तेषां यानि त्वरितानि शीघ्राणि चरितानि चेानानि तैः 'खोखुब्भमाण' त्ति भृशं क्षुभ्यमाणो यः स तथा सन्तापः - एकत्र शोकादिकृतोऽन्यत्र वाडवाग्निकृतो नित्यं यत्र स सन्तापनित्यक:, तथा चलनू चपलः चञ्चलश्च यः स तथा अतिचपल इत्यर्थः,
सच अत्राणाशरणानां पूर्वकृतकर्मसञ्चयानां प्राणिनामिति गम्यं यदुदीर्णं वज्य-पापं तस्य यो वेद्यमानो दुःखशतरूपो विपाकः स एव धूर्णश्च-भ्रमन् जलसमूहो यत्र स तथा, ततोऽज्ञानादिपदानांकर्मधारयोऽतस्तं, ऋद्धिरससातलक्षणानि यानि गौरवाणि - अशुभाध्यवसायविशेषास्त एवापहारा - जलचरविशेषाः तैः गृहीता ये कर्मप्रतिबद्धाः सत्त्वाः संसारपक्षे ज्ञानावरणादिबद्धा, समुद्रपक्षे विचित्रचेष्टाप्रसक्ताः 'कविजमाण' त्ति आकृष्यमाणा नरक एव तलं पातालं 'हुत्तं ' ति तदभिमुखं सन्ना इति - सन्नकाः खिन्ना विषण्णाश्च - शोधितास्तैर्बुलो यः स तथा, अरतिरतिभयानि प्रतीतानि विषादो- दैन्यं शोकः - तदेव प्रकर्षावस्थं मिथ्यात्वं- विपर्यास एतान्येव शैलाः - पर्वतास्तैः सङ्कटो यः स तथा अनादिः सन्तानो यस्य कर्मबन्धनस्य तत्तथा तच्च क्लेशाश्च - रागादयस्तल्लक्षणं यचिक्खिल्लं - कर्द्दमस्तेन सुष्ठु दुरुत्तारो यःस तथा ततः ऋद्धीत्यादिपदानां कर्मधारयोऽतस्तं, अमरनरतिर्यग्निरयगतिषु यद् गमनं सैव कुटिलपरिवर्त्ता - वक्रपरिवर्त्तना विपुलाच - विस्तीर्णा वेला - जलवृद्धिलक्षणा यत्र स तथा तं, हिंसाऽलीकादत्ता- दानमैथुनपरिग्रहणलक्षणा ये आरम्भायापारास्तेषां यानि करणकारणानुमोदनानि तैरष्टविधमनिष्टं यत् कर्म पिण्डितं - सञ्चितं तदेव गुरुभारस्तेनाक्रान्ता येते तथा तैर्दुर्गाण्येव - व्यसनान्येव यो जलौधस्तेन दूरं - अत्यर्थ निबोल्यमानैःनिमज्यमानैः ‘उम्मग्गनिमग्ग' त्ति उन्मग्निमग्नैः - ऊर्ध्वाधोजलगमनानि कुर्वाणैर्दुर्लभं तलं - प्रतिष्ठानं यस्य स तथा तं,
-
शरीरमनोमयानि दुःखानि उत्पिबन्तः - आसादयन्तः सातं च-सुखं असातपरितापनं च - दुःखजनितोपतापः एतन्मयं एतदात्मकं 'उब्बुहनिबुड्डुयं' ति उन्मग्ननिमग्नत्वं कुर्वन्तः, तत्र सातमुन्मग्नत्वमिव असातपरितापनं निमग्नत्वमिवेति, चतुरन्तं चतुर्विभागं दिग्भेदगति भेदाभ्यां महान्तं प्रतीतं कर्मधारयोऽत्र दृश्यः अनवदग्रं - अनन्तं रुद्रं - विस्तीर्णं संसारसागरमिति प्रतीतं, किम्भूतमित्याह-अस्थितानां संयमाव्यवस्थितानां अविद्यमानमालम्बनं प्रतिष्ठानं च - त्राणकारणं यत्र स तथा तं, अप्रमेयं - असर्ववेदिनाऽपरिच्छेद्यं, चतुरशीतियोनिशतसहस्रगुपिलं, तत्र योनयोजीवानामुत्पत्तिस्थानानि तेषां चासङ्ख्यातत्वेऽपि समवर्णगन्धरस्पर्शानामेकत्वविवक्षणादुक्तसङ्ख्याया अविरोधित्वं द्रष्टव्यं तत्र गाथे
॥ १ ॥ “पुढवि ७ दग ७ अगणि ७ मारुय ७ एक्केके सत्त जोणिलक्खाओ । aणपत्य १० अनंते १४ दस चोद्दस जोणिलक्खाओ ।। विगलिंदिए दो दो चउरो चउरो य नारवसुरेसु । तिरिएसु हुति चउरो चोइस लक्खा य मणुएसु ।।" अनालोकानां–अज्ञानानामन्धकारो यः स तथा तं, अनन्तकालं- अपर्यवसितकालं यावत्
॥२॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org