SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ४२५ द्वार-१, अध्ययनं-४, प्रार्थनीयं-अभिलषणीयं, यतः॥१॥ “हरिहररिण्यगर्भप्रमुखे भुवने न कोऽप्यसौ सूरः । कुसुमविशिखस्य विशिखान् अस्खलयत् यो जिनादन्यः ॥" पको-महान् कर्दमः पनकः-सएवप्रतल सूक्ष्मः पाशो-बन्धनविशेषोजालं-मत्स्यबन्धनं एतद्भूतं-एतदुपर्म कलङ्गनिमित्तत्वेन दुर्विमोचनत्वेन साधयात्, उक्तं च "सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावतदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनांन हृदिधृतिमुषो ष्टिबाणाः पतन्ति ।।" तथा स्त्रीपुरुषनपुंसकवेदानांचिह्न-लक्षणंयत्तत्तथा, तपःसंयमब्रह्मचर्यविघ्न इति व्यक्तं, तथा भेदस्य-चारित्रजीवितनाशस्यायतनानि-आश्रया ये बहवः प्रमादा-मद्यविकधादयस्तेषं मूलं कारणं यत्तत्तथा, आह च॥१॥ "किं किं न कुणइ किं किं न भासए चिंतएऽविय न किं किं ? । पुरिसो विसयासत्तो विहलंघलिउब्व मज्जेण ।।" कातराः-परीषहभीरवः अतएव कापुरुषाः-कुत्सितनरास्तैः सेवितंयत्तत्तथा, सुजनानांसर्वपापविरतानां योजनः-समूहस्तस्य वर्जनीयं-परिहरणीयंचयत्तत्तथा, ऊर्ध्वंच-ऊर्ध्वलोको नरकश्च- अधोलोकस्तिर्यक्-तिर्यग्लोकः एतल्लक्षणं यत्रैलोक्यं तत्र प्रतिष्ठानं यस्य तत्तथा, जरामरणरोगशोकबहुलं, तत्रान्यत्र जन्मनि जरामरणादिकारणत्वात्, उच्यते च॥१॥ "जो सेवइ किं लहई" थाम हारे दुब्बलो होइ। पावेइ वेमणस्सं दुक्खाणि अ अत्तदोसेणं ।" वधः-ताडनं बन्धः-संयमनं विघातो-मारणमेभिरपि दुष्करो विघातो यस्य तबन्धविघातदुर्विघातं, गाढरागाणां हि महापद्यप्यब्रह्मेच्छा नोपशाम्यति, आह च॥१॥ “कृशः काणः खलः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः। व्रणैः पूयक्लिन्नैः कृमिकुलचितैरावृततनुः, शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः।।" दर्शनचारित्रमोहस्य हेतुभूतं तन्निमित्तं, ननु चारित्रमोहस्य हेतुरिदमिति प्रतीतं, यदाह॥१॥ "तिव्वकसाओ बहुमोहपरिणओ रागदोससंजुत्तो। बंधइ चरित्तमोहं दुविहंपि चरित्तगुणघाई॥" द्विविधं-कषायनोकषायमोहनीयभेदात्, यत्पुनदर्शनमोहस्य हेतुभूतमिदमिति तन्न प्रतिपद्यामहे, तद्धेतुत्वेनाभणनात्, तथाहि-तद्धेतुप्रतिपादिका गाथैवं श्रूयते॥१॥ “अरिंतसिद्धचेइअतवसुअगुरुसाहुसंधपडणीओ। बंधति सणमोहं अनंतसंसारिओ जेणं ॥" भवतीतीह वाक्यशेषः, सत्यं, किन्तुस्वपक्षाब्रह्मासेवनेन या सङ्घप्रत्यनीकता तया दर्शनमोहं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy