Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१७
बध्नतोऽब्रह्मचर्य दर्शनमोहहेतुतां न व्यभिचरति, भण्यते च स्वपक्षाब्रह्मासेवकस्य मिथ्यात्वबन्धोऽन्यथा कथं दुर्लभबोधिरसावभिहितः, आह च॥१॥ “संजइचउत्थभंगेचेइयदव्वे य पवयणड्डाहे।
रिसिघाए यचउत्थे मूलग्गी बोहिलाभस्स ।।" त्ति, चिरपरिचितं अनादिकालासेवितं चिरपरिगतं वा पाठः अनुगतं--अनवच्छिन्नं दुरन्तंदुष्टफलं चतुर्थमधर्माद्वारं-आश्रवद्वारमिति । अब्रह्मस्वरूपमुक्तं, अथ तदेकार्थिकद्वारमाह
मू. (१८) तस्य य नामानि गोत्राणि इमाणि होति तीसं, तंजहा-अबंभं १ मेहुणं २ चरंतं २ संसग्गि ४ सेवणाधिकारो ५ संकप्पो ६ बाहणा पदाणं ७ दप्पो ८ मोहो ९ मणसंखेवो १० अनिग्गही ११ बुग्गहो १२ विधाओ १३ विभंगो १४ विभमो १५
अधम्मो १६ असीलया १७ गामधम्मतित्ती १८ रती १९ रागकामभोगमारो २१ वेरं २२ रहस्सं २३ गुझं २४ बहुमाणो २५ बंभचेरविग्धो २६ वावत्ति २७ विराहणा ८ पसंगो २९ कामगुणो ३० त्तिविय तस्स एयाणि एमादीणि नामधेजाणि होति तीसं।
वृ. 'तस्से'त्यादि सुगमं, अब्रह्म-अकुशलानुष्ठानं १ 'मैथुनं'मिथुनस्य-युग्मस्य कर्म २ चतुर्थं आश्रवद्वारमिति गम्यते, पाठान्तरेण 'चरंत'ति चरत्-विश्वं व्याप्नुवत् ३ संसर्गि:सम्पर्कःततः, स्त्रीपुंससङ्गविशेषरूपत्वात् संसर्गजन्यत्वाद्वाऽस्य संसगिरित्युच्यते, आह च॥१॥ “नामापि स्त्रीति संहलादि, विकरोत्येव मानसम् ।
किं पुनदर्शनं तस्या, विलासोल्लासितभुवः? ॥" ४ सेवनानां चौर्यादिप्रतिसेवनानामधिकारो-नियोगः सेवनाधिकारः, अब्रह्मप्रवृत्तो हि चौर्याद्यनर्थसेवास्वधिकृतो भवति, आह च॥१॥ “सर्वेऽनर्थो विधीयन्ते, नरैरबैंक लालसैः।
___ अर्थस्तु प्रार्थ्यते प्रायः, प्रेयसीप्रेमकामिभिः ।।" ५ -सङ्कल्पो-विकल्पस्तत्प्रभवत्वादस्य सङ्कल्प इत्युक्तं, उक्तं च
“काम ! जानामि ते रूपं, सङ्कल्पात्किल जायसे।
न त्वां सङ्कल्पयिष्यामि, ततो मे न भविष्यसी ।।" ति ६ बाधना बाधहेतुत्वात् केषामित्याह–पदानां संयमस्थानांप्रजानांवा–लोकानां, आह च॥१॥ "यच्चेह लोकेऽघपरे नराणामुत्पद्यते दुःखमसावेगम्।
विकाशनीलोत्पलचारुनेत्रा, मुत्क्तवा स्त्रिस्तत्र न हेतुरन्यः॥" ७
-दो-देहदप्तता तज्जन्यत्वादस्य दर्प इत्युच्यते, आह च॥१॥ “रसा पगामं न निसेवियव्वा, पायं रसा दित्तिकरा हवंति।
दित्तं च कामा समभिद्दवन्ति, दुमंजहा साउफलं तुपक्खी ।।" अथवा दर्पः-सौभाग्याघभिमान्स्तप्रभवं चेदं, नहि प्रशमादैन्याद्वा पुरुषस्यात्र प्रवृत्तिः सम्भवतीति दर्प एवोच्यते, तदुक्तम्॥१॥ "प्रशान्तवाहिचित्तस्य, सम्भवन्त्यखिलाः क्रियाः।
मैथुनव्यतिरेकिण्यो, यदि रागं न मैथुनम् ॥"८ मोहो मोहनं वेदरूपमोहनीयोदयसम्पाद्यत्वादस्याज्ञानरूपत्वाद्वा मोह इत्युच्यते, आह च
॥१
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org