Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 46
________________ द्वारं-१, • अध्ययनं -२, ३९९ उरभ्रताम्रचूडाश्च क्रीयन्तां - मूल्येन गृह्यतां क्रापयत च एतान्येव ग्राहयत च विक्रीणिध्वं विक्रेतव्यं, तथा पचत च पचनीयं, खजनाय च दत्त पिबत च पातव्यं मदिरादि, वाचनान्तरेण खादत पिबत दत्त च, तथा दास्यः - चेटिका दासाः - चेटकाः भृतकाः -- भक्तदानादिना पोषिताः 'भाइल्लग' त्ति ये लाभस्य भागं - चतुर्भागादिकं लभन्ते, एतेषां द्वन्द्वस्तस्ते च शिष्याश्च - विनेयाः प्रेष्यजनः - प्रयोजनेषु प्रेषणीयोलोकः कर्मकराः - नियतकालमादेशकारिणः किङ्गराश्च - आदेशसमाप्तौ पुनः प्रश्नकारिणः एते पूर्वोक्ताः स्वजनपरिजनं च कस्मादासते अवस्थानं कुर्वन्ति 'भारिया मे करितु कम्मं' ति कृत्वा - विधाय कर्म्म-कृत्यं तत्समाप्तौ यतो भारिका - दुर्निर्वाहः 'भे' भवतां, 'करित्वि' ति क्वचित्पाठः तत्र 'भारिय'त्ति भार्या 'भे' भवतः सम्बन्धिन्यः कर्म कुर्वन्तु, अन्यान्यपि पाठान्तराणि सन्ति तानि च स्वयं गमनीयानि, तथा गहनानि - गह्वराणि वनानि च-वनखण्डाः क्षेत्राणि च-धान्यवपनभूमयः खिलभूमयश्च - हलैरकृष्टाः वल्लराणि चक्षेत्रविशेषास्ततस्तानि उत्त णैः ऊर्द्धगतैः तृणैः धनं-- अत्यर्थं सङ्कटानि सङ्कीर्णानि यानि तानि तथा तानि दह्यन्ता, पाठान्तरेण गहनानि वनानि छिद्यन्तमखिलभूमिवल्लराणि उत्त णधनसङ्कटानि दह्यन्तां, 'सूडिज्जंतु य'त्ति सूद्यन्तां च वृक्षाः भिद्यन्तां छिद्यन्तां वा यन्त्राणि च - -तिलयन्त्रादिकानि भाण्डानि च - भाजनानि कुण्डादीनि भण्डी वा- गन्त्री एतान्यादिर्यस्य तत्तथा तस्य उपधेःउपकरणस्य 'कारणाए 'त्तिकारणाय हेतवे, वाचनान्तरे तु यत्र भाण्डस्योक्तरूपस्य कारणात् - हेतोः, तथा बहुविधस्य च कार्यसमूहस्येति गम्यं, अर्थाय इक्षवो 'दुजंतु 'त्ति दूयन्तां लूयन्तामिति धातूनामनेकार्थत्वात्, तथा पीड्यन्तां च तिलाः पायत चेष्टकाः गृहार्थं, तथा क्षेत्राणि कृषत कर्षयत वा, तथा लघु - शीघ्रं ग्रामादीनि निवेशयत, तत्र ग्रामो जनपदप्रायजनाश्रितः नगरंअविद्यमानकरदानं कर्बर्ट -कुनगरं क्व ? - अटवीदेशेषु, किंभूतानि ग्रामादीनि ? - विपुलसीमानि, तथा पुष्पादीनि प्रतीतानि 'कालपत्ताई' ति अवसरप्राप्तानि गृह्वीत कुरुत सञ्चयं परिजनार्थं, तथा शाल्यादयः प्रतीताः लूयन्तां मल्यन्तां उत्पूयन्तां च लघु च प्रविशन्तु कोष्ठागारं 'अप्पमहुक्कोसगाई' ति अल्पा- लघवो महान्तः - तदपेक्षया मध्यमा इत्यर्थः उत्कृष्टा - उत्तमाश्च हन्यन्तां पोतसार्था:- बोहित्यसमुदायाः शावकसमूहा वा, तथा सेना सैन्यं निर्यातु-निर्गच्छतु निर्गत्य च यातु- गच्छतु डमरं विडरस्थानं तथा च घोरा- रौद्राश्च वर्तन्तां च-चायन्तां सङ्ग्रामा - रणाः तथा प्रवहन्तु च- प्रवर्त्तता शकटवाहनानि - गन्त्रोय यानपात्राणि च, तथा उपनयनं - बालानां कलाग्रहणं 'चोलगं' ति चूडापनयनं बालकप्रथममुण्डनं विवाहं - पाणिग्रहणं यज्ञो-यागः अमुष्मिन् भवतु दिवसे तथा सुकरणं- बवादिकानामेकादशानामन्यतरदभिमतं समुहूर्ते - रौद्रादीनां त्रिंशतोऽन्यतरोऽभिमतो यः एतयोः समाहारद्वन्द्वस्ततस्तत्र, तथा सुनक्षत्रे - पुष्यादी सुतिथौ च पञ्चानां नन्दादीनामन्यतरस्यामभिमतायां अद्यअस्मिन्नहनि भवतु स्नपनं सौभाग्यपुत्राद्यर्थं वध्वादेर्मज्जनं मुदितं - प्रमोदवत् बहुखाद्यपेयकलितं- प्रभूतमांसमद्याद्युपेतं तथा कौतुकं रक्षादिकं विण्हावणक' त्ति विविधैर्मन्त्रमूलादिभिः संस्कृतजलैः स्नापनकं विस्नापनकं शान्तिकर्म्मच - अग्निकारिकादिकमिति द्वन्द्वः, ततस्ते कुरुत, केष्वित्याह-शशिरव्योः- चन्द्रसूर्ययोग्रहण- राहुलक्षणेन उपरागः- उपरञ्जनं ग्रहणमित्यर्थः शशिरविग्रहोपरागः, स च विषमाणि च विधुराणि दुःखप्राशिवादीनि तेषु, किमर्थमित्याह For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192