Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 58
________________ द्वार-१, अध्ययन-३, ४११ प्रेरिता उपर्युपरि-निरन्तरंतरङ्गाः-कल्लोलास्तेषां रियत्ति हप्तइवअतिवेगः-अतिक्रान्ताशेषवेगो यो वेगस्तेन लुप्ततृतीयेकवचनदर्शनाच्चक्षुःपर्थ-दृष्टिमार्गमास्तृण्वन्तं-आच्छादयन्तं 'कत्थइ'त्ति क्वचिद्देशे गम्भीरं विपुलं गर्जितं-मेघस्येवध्वनिः गुञ्जितंचगुआलक्षणातोद्यस्येव निर्धातश्च-गगने व्यन्तरकृतो महाध्यनि; गुरुकनिपतितं च-विधुदादिगुरुकद्रव्यनिपातजनितध्वनियंत्र स तथा, सुदीर्घनिर्हादी-अहस्वप्रतिरवो 'दूरसुव्वंतत्ति दूरे श्रूयमाणो गम्भीरो धुगधुगित्येवंरूपश्च शब्दो यत्र स तथा, ततः कर्मधारयस्ततस्तं, प्रतिपथं प्रतिमार्ग 'रुंभंत'त्ति रुन्धानाः सञ्चरिष्णूनां मार्ग स्खलयन्तः यक्षराक्षसकूष्माण्डपिशाचाः व्यन्तरविशेषास्तेषां यत्प्रतिगर्जितं उपसर्गसहस्राणि च पाठान्तरेण रुसियतजायउवसग्गसहस्स'त्ति तत्र यक्षादयश्चरुषितास्तज्जातोपसर्गसहाणि चतैः सङ्कुलो यः स तथा तं, बहूनि उत्पातिकानि-उत्पातान् भूतः--प्राप्तो यः स तथा तं, वाचनान्तरे उपद्रवा अभिभूता यत्र स उपद्रवाभिभूतः, ततः प्रतिपथेत्यादिना कर्मधारयोऽतस्तं, तथा विरचितोबलिना-उपहारेण होमेन अग्निकारिकया धूपेनच उपचारो-देवतापूजा यैस्ते तथा, तथा दत्तं-वितीर्णं रुधिरं यत्र तत्तथा तच्च तदर्चनाकरणं च-देवतापूजनं तत्र प्रयता येते तथा, तथा योगेषु-प्रवहणोचितव्यापारेषुप्रयता येतेतथा, ततो विरचितेत्यादीनां कर्मधारयोऽतस्तैः सांयात्रिकैरिति गम्यते, चरितः-सेवितो यः स तथा तं, पर्यन्तयुगस्य-कलियुगस्य योऽन्तकालः-क्षयकालस्तेन कल्पा-कल्पनीया उपमा रौद्रत्वाद्यस्य स तता तं, दुरन्तं-दुरवसानं महानदीनां गङ्गादीनांनदीनांच इतरासांपतिः-प्रभुयुः सतथा महाभीमो शयते यः स तता ततः कर्मधारयोऽतस्तं दुःखेनानुचर्यते-सेव्यते यः स तथा तं, विषमप्रवेशं दुःखोत्तारमिति च प्रतीतंदुःखेनाश्रीयत इति दुराश्रयस्तंलवणसलिलपूर्णमिति व्यक्तं, असिताःकृष्णाः सिताः-सितपटाः समुच्छ्रतका-उर्कीकृता येषु तान्यसितसितसमुच्छ्रितकानि तैः,चौरप्रवहणेषु हि कृष्णा एव सितपटाः क्रियन्ते, दूरानुपलक्षणहेतोरित्यसितेत्युक्तं, 'दच्छतरेहि'ति सांयात्रिकयानपात्रेभ्यः सकाशाद्दक्षतरैर्वेगवद्भिरित्यर्थः, वहनैः-प्रवहणैः अतिपत्य-पूर्वोक्तविशेषणं सागरं प्रविश्य समुद्रमध्ये घ्नन्ति गत्वा जनस्य-सांयात्रिकलोकस्य पोतान यानपात्राणि, तथा परद्रव्यहरणे ये निरनुकम्पा-निःशूकास्ते तथा, वाचनान्तरे परद्रव्यहरा नरा निरनुकम्पा-निःशूकास्ते 'निरवयक्ख'त्ति परलोकं प्रति निरवकाश-निरपेक्षाः, ग्रामो-जनपदाश्रितः सन्निवेशविशषः आकरो-लवणाधुत्पत्तिस्थानं नकरं- अकरदायिलोकं खेटं-धूलीप्राकारं कर्बट-कुनगरं मडम्बं-सर्वतोऽनासन्नसंनिवेशान्तरं द्रोणमुखं- जलस्थलपथोपेतं पत्तनं-जलपथयुक्तं स्थलपथयुक्तं वा रत्नभूमिरित्यन्ये आश्रमः- तापसादिनिवासः निगमो-वणिग्जननिवासी जनपदो-देशइति द्वन्द्वोऽतस्तांश्च धनसमृद्धान्ध्नन्ति, तथा स्थिरहदयाः-तत्रार्थेनिश्चलचित्ताः छिन्नलज्जाश्च येते तथा, बन्दिग्रहगोग्रहांश्च गृह्णन्ति-कुर्वन्तीत्यर्थः, तथा दारुणमतयः निष्कृपा निजं ध्नन्ति छिन्दन्ति गेहसन्धिमिति प्रतीतंनिक्षिप्तानि च-स्वस्थानन्यस्तानि हरन्ति धनधान्यद्रव्यजातानि-धनधान्यरूपद्रव्यप्रकारान्, केषामित्याहजनपदकुलानां-लोकगृहाणां निघृणमतय; परस्य द्रव्याद्येऽविरताः, तथातथैव-पूर्वोक्तप्रकारेण केचिददत्तादानं-अवितीर्णं द्रव्यं गवेषयन्तः कालाकालयोः-सञ्चरणस्योचितानुचितरूपयोः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192