Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 54
________________ द्वारं-१, अध्ययनं - ३, तेच ते विप्रलोप- काश्चेति समासः बहुविधेन 'तेणिक्क' त्ति स्तेयेन हरणबुद्धिर्येषां ते बहुविहतेणिक्क हरणबद्धी पाठान्तरेण 'बहुविहतहवहरणबुद्धि' त्ति बहुविधातथा - तेन प्रकारेणापहरणे बुद्धिर्येषां ते तथा, एते उक्तरूपा अन्ये चैतेभ्यः एवंप्रकारा अदत्तमाददतीति प्रक्रमः, कथंभूतास्ते इत्याह- परस्य द्रव्याद्ये अविरता अनिवृत्ता इति । ४०७ ये अदत्तादानं कुर्वन्ति ते उक्ताः, अधुना त एव यथा तत्कुर्वन्ति तदुच्यते-विपुलं बलंसामर्थ्यं परिग्रहश्च - परिवारो येषां ते तता ते च बहवो राजानः परधने गृद्धाः, इदमधिकं वाचनान्तरे पदत्रयं, तथा स्वके-द्रव्येऽसन्तुष्टाः परविषयान् परदेशानभिध्नन्ति लुब्धा धनस्य कार्ये धनस्य कृते इत्यर्थः, चतुर्भिरङ्गैर्विभक्तं समाप्तं वा यद्वलं सैन्यं तेन समग्रा-युक्ता ये ते तथा निश्चितैःनिश्चयवद्भिर्वरयौधेः सह यद्युद्धं - सङ्ग्रामस्तत्र श्रद्धा सञ्जाता येषां ते तथा ते च ते अहमहमित्येवं दर्पिताश्च दर्पवन्त इति समासस्तैरेवंविधैः भृत्यैः - पदातिभिः क्वचित्सैन्यैरिति पठ्यते संपरिवृताःसमेताः तथा पद्मशकटसूचीचक्रसागरगरुडव्यूहाचितैः, इह व्यूहशब्दः प्रत्येकं सम्बध्यते, तत्र पद्माकारोव्यूहः पद्मव्यूहः- परेषामनभिभवनीयः सैन्यविन्यासविशेषः एव मन्येऽपि पञ्च, 7 - एतैराचितानि - रचितानि यानि तानि तथा तैः कैः ? - अनीकैः सैन्यैः अथवा पद्मादिव्यूहा आदिर्येषां गोमूत्रिकाव्यूहादीनां ये ते तथा तैरुपलक्षितैः, कैः ? - अनीकैः, 'उत्थरंत’त्ति आस्तृण्वन्तः आच्छादयन्तः परानीकानीति गम्यं, अभिभूय - जित्वा तान्येव हरन्ति परधनानीति व्यक्तं अपरे - सैन्यायोद्ध केभ्यो नृपेभ्योऽन्ये स्वयंयोद्धारो राजानः रणशीर्षे-सङ्गामशिरसि प्रकृष्टरणे लब्धो लक्ष्यो यैस्ते तथा 'संगामं'ति द्वितीया सप्तम्यर्थेतिकृत्वा सङ्ग्रामे - रणेऽतिपतन्ति - स्वयमेव प्रविशन्ति न सैन्यमेव योधयन्ति, किंभूताः ? – सन्नद्धाः सन्नहन्यादिना कृतसन्नाहाः बद्धः परिकरःकवचो यैस्ते तथा उत्पीडितो-गाढं बद्धः चिह्नह्नट्टो-नेत्रादिचीवरात्मको मस्तके यैस्ते तथा तथा गृहीतान्यायुधानि - शस्त्राणि प्रहरणाय यैस्ते तथा, अथवा आयुधप्रहरणानां क्षेप्याक्षेप्यताकृतो विशेषः, ततः सन्नद्धादीनां कर्मधारयः पूर्वोक्तमेव विशेषणं प्रपञ्चयन्नाह - माढी - तनुत्राणविशेषस्तेन वरवर्मणा च - प्रधानतनुत्राणविशेषेणैव गुण्डिता - परिकरिता ये ते माढीवरवर्मगुण्डिताः पाठान्तरे 'माढिगुडवम्मगुण्डिता' तत्र गुडा - तनुत्राणविशेष एव शेषं तथैव आविद्धा-परिहिता जालिका - लोहकञ्चुको यैस्ते तथा कवचेन-तनुत्राणविशेषेणैव कण्टकिताः - कृतकवचा ये ते तथा उरसा-वक्षसा सह शिरोमुखाऊर्द्धमुखाः बद्धा-यन्त्रिताः कण्ठे - गलेतोणाः - तोणीराः शरधयो यैस्ते उरः शिरोमुखबद्धकण्ठतोणाः तथा माइयत्ति - हस्तचपासिका ( शितानि) वरफलकानि-प्रधानफरका यैस्ते तथा तेषां सत्को रचितोरणोचितरचनाविशेषेण परप्रयुक्तप्रहणप्रहारप्रतिघाताय कृतः -- 'पहकर' त्ति समुदायो यैस्ते तथा ततः पूर्वपदेन सह कर्मधारयोऽतस्तैः सरभसैः - सहर्षेः खरचापकरैः - निष्ठुरकोदण्डहस्तैर्धानुष्कैरित्यर्थः ये कराञ्छिताः- कराकृष्टाः सुनिशिताःअतिनिशिताः शरा-बाणास्तेषां यो वर्षचटकरको वृष्टिविस्तारो मुयंतत्ति - मुच्यमानः स एव घनस्य-मेघस्य चण्डवेगानां धाराणां निपातः तस्य मार्गो यः स तथा तत्र, 'मंते' त्ति पाठान्तरं, तत्र च मत्प्रत्ययान्तत्वात्, निपातवति सङ्ग्रामेऽतिपतन्तीति प्रक्रमः, तथाऽनेकानि धनूंषि च मण्डलाग्राणि च - खङ्गविशेषाः तथा सन्धिताः- क्षेपणायोद्गीर्णा उच्छलिता-ऊर्द्धं गताः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192