________________
द्वारं-१, अध्ययनं - ३,
तेच ते विप्रलोप- काश्चेति समासः बहुविधेन 'तेणिक्क' त्ति स्तेयेन हरणबुद्धिर्येषां ते बहुविहतेणिक्क हरणबद्धी पाठान्तरेण 'बहुविहतहवहरणबुद्धि' त्ति बहुविधातथा - तेन प्रकारेणापहरणे बुद्धिर्येषां ते तथा, एते उक्तरूपा अन्ये चैतेभ्यः एवंप्रकारा अदत्तमाददतीति प्रक्रमः, कथंभूतास्ते इत्याह- परस्य द्रव्याद्ये अविरता अनिवृत्ता इति ।
४०७
ये अदत्तादानं कुर्वन्ति ते उक्ताः, अधुना त एव यथा तत्कुर्वन्ति तदुच्यते-विपुलं बलंसामर्थ्यं परिग्रहश्च - परिवारो येषां ते तता ते च बहवो राजानः परधने गृद्धाः, इदमधिकं वाचनान्तरे पदत्रयं, तथा स्वके-द्रव्येऽसन्तुष्टाः परविषयान् परदेशानभिध्नन्ति लुब्धा धनस्य कार्ये धनस्य कृते इत्यर्थः, चतुर्भिरङ्गैर्विभक्तं समाप्तं वा यद्वलं सैन्यं तेन समग्रा-युक्ता ये ते तथा निश्चितैःनिश्चयवद्भिर्वरयौधेः सह यद्युद्धं - सङ्ग्रामस्तत्र श्रद्धा सञ्जाता येषां ते तथा ते च ते अहमहमित्येवं दर्पिताश्च दर्पवन्त इति समासस्तैरेवंविधैः भृत्यैः - पदातिभिः क्वचित्सैन्यैरिति पठ्यते संपरिवृताःसमेताः तथा पद्मशकटसूचीचक्रसागरगरुडव्यूहाचितैः, इह व्यूहशब्दः प्रत्येकं सम्बध्यते, तत्र पद्माकारोव्यूहः पद्मव्यूहः- परेषामनभिभवनीयः सैन्यविन्यासविशेषः एव मन्येऽपि पञ्च,
7
- एतैराचितानि - रचितानि यानि तानि तथा तैः कैः ? - अनीकैः सैन्यैः अथवा पद्मादिव्यूहा आदिर्येषां गोमूत्रिकाव्यूहादीनां ये ते तथा तैरुपलक्षितैः, कैः ? - अनीकैः, 'उत्थरंत’त्ति आस्तृण्वन्तः आच्छादयन्तः परानीकानीति गम्यं, अभिभूय - जित्वा तान्येव हरन्ति परधनानीति व्यक्तं अपरे - सैन्यायोद्ध केभ्यो नृपेभ्योऽन्ये स्वयंयोद्धारो राजानः रणशीर्षे-सङ्गामशिरसि प्रकृष्टरणे लब्धो लक्ष्यो यैस्ते तथा 'संगामं'ति द्वितीया सप्तम्यर्थेतिकृत्वा सङ्ग्रामे - रणेऽतिपतन्ति - स्वयमेव प्रविशन्ति न सैन्यमेव योधयन्ति, किंभूताः ? – सन्नद्धाः सन्नहन्यादिना कृतसन्नाहाः बद्धः परिकरःकवचो यैस्ते तथा उत्पीडितो-गाढं बद्धः चिह्नह्नट्टो-नेत्रादिचीवरात्मको मस्तके यैस्ते तथा तथा गृहीतान्यायुधानि - शस्त्राणि प्रहरणाय यैस्ते तथा,
अथवा आयुधप्रहरणानां क्षेप्याक्षेप्यताकृतो विशेषः, ततः सन्नद्धादीनां कर्मधारयः पूर्वोक्तमेव विशेषणं प्रपञ्चयन्नाह - माढी - तनुत्राणविशेषस्तेन वरवर्मणा च - प्रधानतनुत्राणविशेषेणैव गुण्डिता - परिकरिता ये ते माढीवरवर्मगुण्डिताः पाठान्तरे 'माढिगुडवम्मगुण्डिता' तत्र गुडा - तनुत्राणविशेष एव शेषं तथैव आविद्धा-परिहिता जालिका - लोहकञ्चुको यैस्ते तथा कवचेन-तनुत्राणविशेषेणैव कण्टकिताः - कृतकवचा ये ते तथा उरसा-वक्षसा सह शिरोमुखाऊर्द्धमुखाः बद्धा-यन्त्रिताः कण्ठे - गलेतोणाः - तोणीराः शरधयो यैस्ते उरः शिरोमुखबद्धकण्ठतोणाः तथा माइयत्ति - हस्तचपासिका ( शितानि) वरफलकानि-प्रधानफरका यैस्ते तथा तेषां सत्को रचितोरणोचितरचनाविशेषेण परप्रयुक्तप्रहणप्रहारप्रतिघाताय कृतः
--
'पहकर' त्ति समुदायो यैस्ते तथा ततः पूर्वपदेन सह कर्मधारयोऽतस्तैः सरभसैः - सहर्षेः खरचापकरैः - निष्ठुरकोदण्डहस्तैर्धानुष्कैरित्यर्थः ये कराञ्छिताः- कराकृष्टाः सुनिशिताःअतिनिशिताः शरा-बाणास्तेषां यो वर्षचटकरको वृष्टिविस्तारो मुयंतत्ति - मुच्यमानः स एव घनस्य-मेघस्य चण्डवेगानां धाराणां निपातः तस्य मार्गो यः स तथा तत्र, 'मंते' त्ति पाठान्तरं, तत्र च मत्प्रत्ययान्तत्वात्, निपातवति सङ्ग्रामेऽतिपतन्तीति प्रक्रमः, तथाऽनेकानि धनूंषि च मण्डलाग्राणि च - खङ्गविशेषाः तथा सन्धिताः- क्षेपणायोद्गीर्णा उच्छलिता-ऊर्द्धं गताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org